आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 133, कुल 292 में से
संदर्भ में पढ़ेंएकोनविंशः खण्डः] अनाविलोपे तम् । ८३
सायंप्रातर्भिक्षेत ॥ ४ ॥
यावदात्मने चाचार्याय च पर्याप्तं तावद् भिक्षेत ।
आत्मन एव वा ॥ ४ ॥
सायंप्रातः समिधमादध्यात् ॥ ५ ॥
पुनः सायंप्रातर्ग्रहणं तावन्मात्रप्रयुक्तं समिदाधानं यथा स्यात् । तेन भोजने सति भिक्षाचरणं भवति । असति नास्ति । समिदाधानं तु नित्यम् ॥ ५ ॥
अप्रत्याख्यायिनमग्रे भिक्षेत ॥ ६ ॥
* आदौ ह्रस्वश्छान्दसः । अपपाठो वा । यो न प्रत्याचष्टे तं प्रथमं भिक्षेत । ततो यथासम्भवम् ॥ ६ ॥
अप्रत्याख्यायिनीं वा ॥ ७ ॥
एवंभूतां स्त्रियं वा प्रथमं भिक्षेत ॥ ७ ॥
भिक्षां भवान् ददात्विति ॥ ८ ॥
अनेन मन्त्रेण सर्वेषां वर्णानां पुरुषं प्रति याचनम् । यदा तु स्त्री याच्यते तदा भिक्षां भवती ददात्विति ॥ ८ ॥
अनुप्रवचनीयमिति वा ॥ ९ ॥
अनुप्रवचनीयं भवान् ददात्विति वा भिक्षां याचते । अस्मादेवं ज्ञायते — अनुप्रवचनीयार्थं भिक्षान्तरमिदं, न सायंप्रातर्भिक्षाचरणे गुणविधिरिति । तत्र मनुराह —
“भवत्पूर्वं चरेद् भैक्षमुपनीतो द्विजोत्तमः ।
भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम् ॥
इति ॥ ९ ॥
* 'अप्रत्यख्यायिनम्' इति पाठं मन्यते ।