आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 134, कुल 292 में से
संदर्भ में पढ़ें८४ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः
तदाचार्याय वेदयित्वा तिष्ठेदहःशेषम् ॥ १० ॥
तल्लब्धमाचार्याय निवेद्य तस्मिन्नहनि यच्छिष्टं तावन्तं कालं तिष्ठेत आसनादि न कुर्यात् ॥ १० ॥
अस्तमिते ब्रह्मोदनमनुप्रवचनीयं श्रपयित्वाचार्याय वेदयीत ॥ ११ ॥
अस्तमित इत्युच्यते । कस्मिन्नस्तमिते, आदित्ये । कुत एतत् तिष्ठेदहःशेषमित्युक्तत्वात्, प्रसिद्धेश्च । ब्रह्मोदनं वक्ष्यति 'ब्राह्मणान् भोजयित्वे¹'ति । तेनासौ ब्रह्मोदनः अनुप्रवचनीयः । 'सावित्रीं भो अनुब्रूहि' 'सावित्रीमन्वाहे'ति च सावित्र्यनुप्रवचनं विहितम् । तन्निमित्तोऽयं स्थालीपाकः । तत्र 'तदस्य' 'प्रयोजनम्'त्यधिकारे 'अनुप्रवचनादिभ्यश्छः' निमित्तमपि प्रयोजनमुच्यते यथा रक्षोहागमलध्वसन्देहाः प्रयोजनमित्यत्रागमः प्रयोजनं व्याकरणस्येति । तं श्रपयति ब्रह्मचारी स्थालीपाकं श्रपयित्वाचार्याय वेदयति ॥ ११ ॥
आचार्यः समन्वारब्धे जुहुयात् सदसस्पतिमद्भुतमिति ॥ १२ ॥
अथाचार्यः समन्वारब्धे कुमारे जुहोति सदसस्पतिमिति मन्त्रेण ॥ १२ ॥
सावित्र्या द्वितीयम् ॥ १३ ॥
सावित्र्या प्रकृतया द्वितीयं होमं जुहोति । उपदेशादेव सिद्धे द्वितीयवचनमधिकारार्थम् ॥ १३ ॥
१. 'येदिति' ख. पाठः.