आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 136, कुल 292 में से
संदर्भ में पढ़ें८६ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्याय :
अतोऽनुप्रवचनीयादूर्ध्वमस्यैते भवन्ति । अक्षाराशि- त्वमलवणभोजित्त्वमधःशायित्वं च । क्षारमम्लं लकुचादि । त्रिरात्रादयो नियमस्य कालाः। उपदेशक्रमादेव सिद्धे अत ऊ- र्ध्वमिति वचनं पूर्वेण सह सम्बन्धकरणार्थं, प्राग् भोजने नियमो मा भूदिति । तेन भुक्तवत उपनयनं सिद्धं भवति । यथाहापस्तम्बः — 'आशिषो वाचयित्वा कुमारं भोजयि- त्वे'ति। ब्रह्मचारिग्रहणमाचार्यस्य मा भूदिति ॥ १८ ॥
चरितव्रताय मेधाजननं करोति ॥ १९ ॥
चरितव्रताय योऽयं नियम उक्तः तस्यान्त इत्यर्थः । मेधाजननमिति वक्ष्यमाणस्य कर्मणो नामधेयम् । चरित- व्रतायेत्येतदपि सम्बन्धार्थमेव । तेन यत्र मेधाजननं तत्र व्रतचर्या तत्रानुप्रवचनीयमित्येवमादि सिद्धम् । तेन 'कृता- कृतं केशवपनं मेधाजननं चे'त्यत्र व्रतचर्यानुप्रवचनीये इ- त्यपि न भवतः ॥ १९ ॥
अनिन्दितस्यां दिश्येकमूलं पलाशं कुशस्तम्बं वा पलाशापचारे प्रदक्षिणमुदकुम्भेन त्रिः परिषिञ्चन्तं वाचयति सुश्रवः सुश्रवा असि यथा त्वं सुश्रवः सुश्रवा अस्येवं मां सुश्रवः सुश्रवसं कुरु यथा त्वं देवाना यज्ञस्य निधिपोऽस्येवमहं मनुष्याणां वेदस्य निधिपो भूयास- मिति ॥ २० ॥
अनिन्दितस्यामितिच्छान्दसं रूपम् । यथा 'यदि- न्द्राग्नी अवमस्यां पृथिव्यां मध्यमस्यामि'ति । तिस्रो दिशो