आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
DevanagariHindipublished292 पृष्ठ
पृष्ठ 14, कुल 292 में से
संदर्भ में पढ़ेंपृष्ठ 14
२
स्मर्यमाणेषु हरदत्तः पदमञ्जरी वा न क्वापि स्मर्यते । यदि तं वा तत्कृतिं पदमञ्जरीं वा महाभाष्यतुल्यमहिमानं दुर्घटवृत्तिकारः शरणदेवो व्यज्ञास्यदवश्यमस्मरिष्यत् । तेन शरणदेवादर्वाचीनो हरदत्त इत्यपि शक्यमूहितुम् । शरणदेवश्च ११७२ तमक्रैस्ताब्दतुल्ये १०९५ तमे शाकमहीपतिवत्सरे स्थितः । ततश्च शरणदेवापेक्षयार्वाचीनो हरदत्तः क्रैस्ताब्दीयद्वादशशतकशेषे निवेशनमर्हति ।
अनन्तशयनम्,
११-१२-१०९८.
त. गणपतिशास्त्री.