आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 152, कुल 292 में से
संदर्भ में पढ़ें| १०० | आश्वलायनगृह्यसूत्रम् | [प्रथमोऽध्यायः |
|---|
ब्राह्मणायोदङ्ङुच्छिष्टं प्रयच्छेत् ॥ २० ॥
उच्छिष्टं प्राशितशिष्टं मधुपर्कमुदङ्मुखो ब्राह्मणाय दद्यात् ॥ २० ॥
अलाभेऽपः ॥ २१ ॥
यदि ब्राह्मणो न लभ्यते तदापः प्रवेशयेन्मधुपर्कम् ॥ २१ ॥
सर्वं वा ॥ २२ ॥
प्राश्नीयादित्येव । अलाभ इति च । ब्राह्मणस्यालाभे सर्वं वा प्राश्नीयात् ॥ २२ ॥
अथाचमनीयैनान्वाचामति अमृतापिधानमसीति ॥ २३ ॥
यत् पूर्वमानीतमाचमनीयं तेन अन्वाचामति अमृतापिधानमसीति यजुषा ॥ २४ ॥
सत्यं यशः श्रीर्मयि श्रीः श्रयतामिति द्वितीयम् ॥ २४ ॥
सत्यमित्यादिना यजुषा द्वितीयमाचामति ॥ २४ ॥
आचान्तोदकाय गां वेदयन्ते ॥ २५ ॥
अथ शौचार्थं विधिवदाचामति । तस्मै आचान्तोदकाय । एतदेव ज्ञापकं पूर्वत्र मध्ये शौचार्थं नाचमनमिति । उदकग्रहणेनाचमने उदकमेव प्राप्तं दर्शयति । तेन नालिकेराम्ब्वादिभिराचमनं न भवति । तस्मै गां वेदयन्ते गौर्गौर्गौरिति ॥ २५ ॥