भारतकोश
आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

पृष्ठ 153, कुल 292 में से

संदर्भ में पढ़ें
पृष्ठ 153

CC-0. Agamnigam Digital Preservation Foundation, Chandigarh

एकविंशः खण्डः] अनाविलोपेताम् । १०१

हतो मे पाप्मा पाप्मा मे हत इति जपित्वोङ्कुरुतेति कारयिष्यन् ॥ २६ ॥

ब्रूयादिति शेषः । क्रियासामान्यवाचिना करोतिना वधो लक्ष्यते । यो वधं गोरनुजानाति स कारयिष्यन् भवति । स हतो मे पाप्मेत्यादि जपित्वा ॐ कुरुतेति ब्रूयात् । ॐ हतेत्युक्तं भवति ॥ २६ ॥

माता रुद्राणां दुहिता वसूनामिति जपित्वोमुत्सृजतेत्युत्स्रक्ष्यन् ॥ २७ ॥

यः पुनर्गामुत्स्रक्ष्यन्¹ उत्स्रष्टुकामो भवति स माता रुद्राणाम् इति मन्त्रं जपित्वोमुत्सृजतेति ब्रूयात् ॥ २७ ॥

नामांसो मधुपर्को भवति भवति ॥ २८ ॥

मांसरहितो मधुपर्को न भवति । किं मधुपर्के मांसं देयमित्युच्यते² मधुपर्के³ भोजनममांसं न भवतीत्युच्यते । तदनेनाभ्युपायेन मधुपर्के भोजनमुपदिश्यते । द्विरुक्तिरध्यायसमाप्तिकृता ॥ २८ ॥

इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ अनाविलायां प्रथमाध्याये एकविंशः खण्डः ।

प्रथमाध्यायः समाप्तः ।


१. 'मुत्स्रष्टुमिच्छति स' ख. पाठः. २. 'ते । नेत्याह म' क. ख. पाठः. ३. 'र्को नाम भो' ख. पाठः.