आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 170, कुल 292 में से
संदर्भ में पढ़ें११८ आश्वलायनगृह्यसूत्रम् [द्वितीयोऽध्यायः
मध्यमाष्टकायामाह — 'स्विष्टकृतप्रभृति समानमा पिण्डनिधानात्।' 'अन्वष्टकायामेवैके पिण्डनिधानमुपदिशन्ती'ति । अपर आह — इत्युक्तमित्यनेनैव पिण्डनिपरणमपि प्राप्यते इतिशब्दस्याद्यर्थत्वात् । ब्राह्मणभोजनाद्युक्तमित्यर्थः । क्व पुनरुक्तं पार्वणश्राद्ध इति ॥ २१ ॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ द्वितीयाध्याये चतुर्थः खण्डः ।
अथ पञ्चमः खण्डः ।
अपरेद्युरन्वष्टक्यम् ॥ १ ॥
अपरस्मिन्नहनि नवम्यामन्वष्टक्यं नाम कर्म कर्तव्यम् ॥ १ ॥
तस्यैव मांसस्य प्रकल्प्य ॥ २ ॥
योऽसौ पशुरष्टकायामुपाकृतः तस्यैव मांसस्यैकदेशं प्रकल्प्य संस्कृत्य तत् कर्म कर्तव्यम् । ब्राह्मणभोजनार्थ एवात्र मांससंस्कारः होमेऽभावात् । पूर्वेद्युस्तु होमे ब्राह्मणभोजने च मांसं भवति ॥ २ ॥
दक्षिणाप्रवणेऽग्निमुपसमाधाय परिश्रित्योत्तरतः परिश्रितस्य द्वारं कृत्वा समूलं बर्हिस्त्रिरपसलैर्वधून्वन् परिस्तीर्य हवींष्यासादयेदोदनं कृसरं पायसं दधिमन्थान् मधुमन्थांश्च ॥ ३ ॥
दक्षिणदिग्भागेऽवैनतं दक्षिणाप्रवणम् उत्तरोन्नतं स्थण्डिलं तस्मिन्नग्निमुपसमाधाय तं प्रदेशं तिरस्करिण्यादिभिः
१. 'मा' ख. पाठः.
२. 'प्रवणं द' ग. पाठः.