भारतकोश
आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

पृष्ठ 19, कुल 292 में से

संदर्भ में पढ़ें
पृष्ठ 19

सूत्रम्.विषयः.
७.उक्तद्रव्यालाभे द्रव्यान्तरपरिग्रहणम् ।
८.सायम्प्रातर्होमः ।

अष्टमः खण्डः ।

सूत्रम्.विषयः.
१.पार्वणः स्थालीपाकः ।
२.दर्शपूर्णमासयोः पूर्वस्यां रात्रावुपवासनियमः ।
३.इध्माबर्हिषोः सन्नहनम् ।
४.देवताः ।
५.काम्यदेवताः ।
६.देवताभ्यः प्रत्येकं चतुर्मुष्टिनिर्वापः ।
७.निर्वापप्रकारस्तन्मन्त्रश्च ।
८.निर्वापक्रमेण प्रोक्षणम् ।
९.त्रिरवहननफलीकरणप्रक्षालनपूर्वं पृथक्पात्रेषु श्रपणम् ।
१०.एकस्मिन् पात्रे वा श्रपणम् ।
११.पृथक्श्रपणे प्रकारकथनम् ।
१२.एकत्र श्रपणे प्रकारकथनम् ।
१३.शृतस्य हविष उदगुद्वासनं परिध्याघारानूयाजसमिधां परिधानम् इध्महोमस्तन्मन्त्रश्च ।
१४.तूष्णीमाघारहोमानन्तरमाग्नेयसौम्ययोराज्यभागयोर्होमविधिः ।
१५.पूर्वोक्ताज्यभागयोर्देशविधिः ।
१६.आज्यभागयोर्यज्ञचक्षुष्ट्वरूपणम्, आज्यभागयोः प्रथममुत्तरतः पश्चाद् दक्षिणतश्च होमे उपपत्तिकथनम् ।
१७.आज्यभागयोर्मध्ये प्रधानाहुतिहोमः ।
१८.प्रत्यक्तरं वा प्रधानाहुतिहोमः ।
१९.प्राक्संस्यमुदक्संस्थं वा हविर्होमः ।
२०.अग्नेरुत्तरपूर्वभागे सौविष्टकृतहोमः ।
२१.चतुरवत्तिनामवदानक्रमः ।
२२.पञ्चावत्तिनां जमदग्नीनामवदानक्रमः ।