आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 18, कुल 292 में से
संदर्भ में पढ़ें४
| सूत्रम्. | विषयः. |
|---|---|
| २२. | ध्रुवारुन्धत्योर्दर्शनं, दम्पत्योर्मन्त्रवद्वाग्विसर्गः । |
षष्ठः खण्डः ।
१. यानारोहणम् ।
२. नावारोहणम् ।
३. उदकादुत्तारणम् ।
४. वध्वा रोदने जपः ।
५. ध्रियमाणस्य विवाहाग्नेर्नयनम् ।
६. प्रशस्तदेशवृक्षचतुष्पथेषु मन्त्रजपः ।
७. प्रतिवसति मन्त्रेणेक्षकप्रेक्षणम् ।
८. मन्त्रेण गृहप्रवेशः ।
९. दम्पत्योरग्नेः पश्चाच्चर्मण्युपवेशनं मन्त्रैर्होमो दधिप्राशनं च ।
१०. हुतशिष्टस्याज्यस्य तेनैव मन्त्रेण हृदयेऽञ्जनं वा ।
११. विवाहात् प्रभृति ब्रह्मचर्यनियमः, गृहप्रवेशनीयादूर्ध्वं त्रिरात्रं द्वादशरात्रं संवत्सरं वा चरितब्रह्मचर्यस्य ऋषिकल्पपुत्रजननम् ।
१२. सूर्याख्यमन्त्रतत्त्वज्ञायाचार्याय वधूवस्त्रदानम् ।
१३. ब्राह्मणेभ्योऽन्नदानम् ।
१४. स्वस्तिवाचनम् ।
सप्तमः खण्डः ।
१. विवाहात् प्रभृति गृह्याग्निपरिचरणम् ।
२. दम्पत्योरन्यतरेणाग्निसमीपे उदयास्तमययोर्नियमेनावस्थानम् ।
३. अग्नेरुपशमे पुनरग्न्युत्पत्तिप्रकारः उपवासोपदेशश्च ।
४. तस्याग्नेरग्निहोत्रविधानेन परिग्रहणम् ।
५. प्रज्वलनं होमकालश्च ।
६. होमार्हद्रव्यकथनम् ।