भारतकोश
आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

पृष्ठ 17, कुल 292 में से

संदर्भ में पढ़ें
पृष्ठ 17

सूत्रम् .विषयः .
२९.गान्धर्वविवाहः ।
३०.आसुरविवाहः ।
३१.पैशाचविवाहः ।
३२.राक्षसविवाहः ।

पञ्चमः खण्डः ।

१. विवाहे नानाविधजनपदादिधर्माणां ज्ञात्वानुष्ठानम् । २. समानधर्मप्रतिज्ञा । ३. पाणिग्रहणविधिः, कामनाभेदेन पाणिग्रहणप्रकारः । ४. अग्न्युदकुम्भयोस्त्रिः परिणयनं जपश्च । ५. परिणयनमन्त्रः । ६. अश्मारोहणम् । ७. अश्मारोहणमन्त्रः । ८. वध्वा अञ्जलावुपस्तीर्य द्विलाजावापः । ९. जमदग्नीनां त्रिरवदानम् । १०. अवत्तस्य हविःशेषस्य च प्रत्यभिघारणम् । ११. सर्वत्रावदानेषूपस्तरणमवदानं प्रत्यभिघारणं चेत्यवदानधर्मः । १२. लाजहोमप्रकारस्तन्मन्त्राश्च । १३. शूर्पपुटेन तूष्णीं चतुर्थहोमप्रकारः । १४. केषाञ्चिन्मते लाजहोमात् परं परिणयनम् । १५. अस्मिन् पक्षे उत्तमाहुत्योरसन्निपातः । १६. समनन्तरमेव वध्वाः शिखयोर्विमोकः । १७. ऊर्णासूत्राभ्यां केशपक्षयोर्बन्धनम् । १८. दक्षिणपक्षसूत्रस्य ‘प्रत्वा मुञ्चामि’ति मन्त्रेण विमोकः । १९. उत्तरपक्षसूत्रस्य ‘प्रेतो मुञ्चामि’ति मन्त्रेण विमोकः । २०. सप्तपदी । २१. दम्पत्योः शिरस्युदकुम्भेनावसेकः । गृहान्तरगमने नियमविशेषः ।