भारतकोश
आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

पृष्ठ 16, कुल 292 में से

संदर्भ में पढ़ें
पृष्ठ 16

सूत्रम्.विषयः.
९.समानदेवत्येषु तुल्यकालेषु बर्हिरादीनां तन्त्रत्वेऽपि प्रधानाहुतीनामतन्त्रता।
१०.पूर्वोक्तार्थस्य प्रामाण्यसिद्धये यज्ञगाथोदाहरणम्।

चतुर्थः खण्डः।

सूत्रम्.विषयः.
१.चौलादिकर्मणां कालविधानम्।
२.केषाञ्चिन्मते विवाहस्य सार्वकालिकत्वम्।
३.आज्यहोमः।
४.ऋग्भिर्व्याहृतिभिश्च होमविधानम्।
५.केषाञ्चिन्मते अष्टानामाहुतीनां समुच्चयविधानम्।
६.अनादेशाहुतिविधानम्।
७.विवाहे 'त्वमर्यमा अवसी'त्यादिमन्त्रेण चतुर्थ्या आहुतेर्विधानम्।
८.प्रथमं कुलपरीक्षा।
९.वरगुणः।
१०.कन्यागुणः।
११.लक्षणानां दुर्ज्ञेयत्वम्।
१२.क्षेत्राद्याहृतैरष्टभिर्मृत्पिण्डैः कन्यापरीक्षणम्।
१३–२०.कन्यया मृत्पिण्डानां ग्रहणे प्रत्येकं फलकथनम्।
२१.ब्राह्मविवाहः।
२२.ब्राह्मोढायां जातस्योभयकुलपञ्चविंशतिपुरुषोत्तारकत्वम्।
२३.दैवविवाहः।
२४.दैवोढायां जातस्यैकविंशतिपुरुषोत्तारकत्वम्।
२५.प्राजापत्यविवाहः।
२६.प्राजापत्योढायां जातस्य सप्तदशपुरुषोत्तारकत्वम्।
२७.आर्षविवाहः।
२८.आर्षोढायां जातस्य पञ्चदशपुरुषोत्तारकत्वम्।