आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 192, कुल 292 में से
संदर्भ में पढ़ें१४० आश्वलायनगृह्यसूत्रम् [तृतीयोऽध्यायः
प्राङ्मुख उदङ्मुखो वा ग्रामान्निष्क्रम्याप आप्लुत्य आप्लवनं स्नानम् इह तु द्वितीयानिर्देशादवगाहनपूर्वके वर्तते । आप्लुत्येत्येव सिद्धेऽप इति वचनादुद्धृताभिरद्भिः स्नानप्रति- षेधः । आपस्तम्बस्तु गृहस्थं प्रकृत्याह—'¹सशिरावमज्जन- मप्सु वर्जयेदि'ति । आप्लुत्य यज्ञोपवीती भूत्वाचामति । अत्र यज्ञोपवीतवचनादकर्मकाले नावश्यम्भावः । कर्माङ्गमिदमाच- मनं शौचार्थस्य स्मृतिप्राप्तत्वाद् । आचम्याक्लिन्नवासा अनाद्र- वासा भूत्वा प्राक्कूलानां प्रागग्राणां दर्भाणां महदासनमुपस्तीर्य तेषु प्राङ्मुख उपविशति । अत्र प्राङ्मुखत्वविधानात्पूर्व- त्रानियमः । उपविश्य उपस्थं कृत्वा उपस्थकरणे दक्षिणः पाद उत्तरे² स्यात् । ततः³ पूर्वोक्तलक्षणपवित्रवन्तौ पाणी सन्दधाति । तत्र पवित्रवन्तौ पाणी इति वचनात् प्रतिपाणि पवित्रे भवतः । सन्धाय द्यावापृथिव्योः सन्धिमीक्षमाण इत्य- न्वयः । मध्ये त्वासनार्थानां पवित्रार्थानां च दर्भाणामर्थवादो ब्राह्मणानुकर्षणेन । दर्भा इति यद् एष अपामोषधीनां च रसः⁴ तेन दर्भवान् कर्म कुर्वन् सरसं ब्रह्म करोतीति विज्ञायते ब्राह्मणं भवतीति⁵ । संमील्य वा चक्षुषी प्रकारान्तरेणापि यथा वा युक्तं समाहितमात्मानं मन्यते तथा युक्तोऽधीयीत स्वा-
१. 'सहशिरोव' ख. ग. ङ. पाठः. २. 'रः सव्यस्योपरि भवति । त' घ. पाठः. ३. 'ततः प्रच्छिन्नाग्रावनन्तर्गभौ प्रादेशमात्रौ कुशावित्युक्तलक्षणाभ्यां पवित्राभ्यां तद्वन्तौ पाणी सन्दधाति दक्षिणस्यार्वाचीनताववान इति श्रुतेः । तत्र पवित्रवन्तौ पाणी सन्धायेति वच', ४. 'सः तत् तेन दर्भानुप्रवेशनेन स', ५. 'तिद्यावापृथिव्योः सन्धिमीक्षमाणः स' घ. पाठः.