भारतकोश
आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

पृष्ठ 191, कुल 292 में से

संदर्भ में पढ़ें
पृष्ठ 191

द्वितीयः खण्डः] अनाविलोपेताम् । १३९

ह्नि¹'ति वक्ष्यति । तमपि प्रतिषेधं बाधित्वाऽहरहःक्रियो स्यादि- त्येवमर्थमिदमिति । ब्रह्मयज्ञस्तु न भवति 'तस्य द्वावनध्यायौ यदात्माशुचिर्यद्देश' इत्याहृत्य वक्ष्यमाणत्वादिति ॥ ४ ॥

इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ द्वितीयाध्याये प्रथमः खण्डः ।


अथ द्वितीयः खण्डः ।

अथ स्वाध्यायविधिः ॥ १ ॥

ब्रह्मयज्ञाध्ययनप्रकारौ वक्ष्यते । अक्रियमाणे विधिग्र- हणे पूर्वोक्तानां यज्ञानामनन्तरं स्वाध्यायोऽध्येतव्य इत्युक्तं स्यात् । विधिग्रहणाँ³दनुष्ठानक्रमो यथारुचि भवति ॥ १ ॥

प्राग्वोदग्वा ग्रामान्निष्क्रम्याप आप्लुत्य यज्ञो-

पवीत्याचम्याक्लिन्नवासा दर्भाणां महदुपस्तीर्य प्राक्-

कूलानां तेषु प्राङ्मुख उपविश्योपस्थं कृत्वा दक्षि-

णोत्तरौ पाणी सन्धाय पवित्रवन्तौ विज्ञायतेऽपां वा

एष ओषधीनां रसो यद्दर्भाः सरसमेव तद् ब्रह्म क-

रोति द्यावापृथिव्योः सन्धिमीक्षमाणः संमील्य वा

यथा वा युक्तमात्मानं मन्येत तथायुक्तोऽधीयीत स्वा-

ध्यायम् ॥ २ ॥


१. 'ति प्रतिषेधं व' ग. घ. पाठः. २. 'या कर्तव्यतार्था' ग. पाठः.
३. 'णात् त्वनुष्ठाने य' ख. ग. ङ. पाठः.

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित) · पृष्ठ 191, कुल 292 में से · BharatKosha