आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 211, कुल 292 में से
संदर्भ में पढ़ेंसप्तमः खण्डः ] अनाविलोपे तम् । १५९
यद्युभयोर्न विन्देताचार्यायैव ॥ २ ॥
यद्युभयोरेतानि द्रव्याणि न लभेत तदा आचार्यायैवोपकल्पयेत् ॥ २ ॥
समिधं त्वाहरेदपराजिताया दिशो यज्ञियस्य वृक्षस्य ॥ ३ ॥
अपराजिता पूर्वोत्तरा दिक् तस्याः समिध आहरेद् यज्ञियस्य वृक्षस्य ॥ ३ ॥
तत्र गुणकामैः—
आर्द्रामन्नाद्यकामः पुष्टिकामस्तेजस्कामो वा ॥ ४ ॥
अन्नाद्यपुष्टितेजसामन्यतमं यः कामयते स आर्द्रां समिधमाहरेत् ॥ ४ ॥
ब्रह्मवर्चसकाम उपवाताम् ॥ ५ ॥
उपवाता शुष्का ॥ ५ ॥
उभयीमुभयकामः ॥ ६ ॥
अन्नाद्यादीनामन्यतमं ब्रह्मवर्चसं च यः कामयते स उभयीमार्द्रामुपवातां च समिधमाहरेत् । अर्धशुष्कामित्युक्तं भवति ॥ ६ ॥
उपरि समिधं कृत्वा गामन्नं च ब्राह्मणेभ्यः प्रदाय गौदानिकं कर्म कुर्वीत ॥ ७ ॥
तामाहृतां समिधमुपरि कृत्वा अनधो निधाय ब्राह्मणेभ्योऽन्नं भोजनाय दत्त्वा गां दक्षिणां दत्त्वा गौदानिकं कर्म कुर्वीत । कर्मग्रहणस्य प्रयोजनं गोदान एव स्थित्वोक्तम् ॥ ७ ॥
१. 'माः' ख. ग., 'नाः' घ. पाठः.