आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
सप्तमः खण्डः ] अनाविलोपे तम् । १५९
सप्तमः खण्डः ] अनाविलोपे तम् । १५९
यद्युभयोर्न विन्देताचार्यायैव ॥ २ ॥
यद्युभयोरेतानि द्रव्याणि न लभेत तदा आचार्यायैवोपकल्पयेत् ॥ २ ॥
समिधं त्वाहरेदपराजिताया दिशो यज्ञियस्य वृक्षस्य ॥ ३ ॥
अपराजिता पूर्वोत्तरा दिक् तस्याः समिध आहरेद् यज्ञियस्य वृक्षस्य ॥ ३ ॥
तत्र गुणकामैः—
आर्द्रामन्नाद्यकामः पुष्टिकामस्तेजस्कामो वा ॥ ४ ॥
अन्नाद्यपुष्टितेजसामन्यतमं यः कामयते स आर्द्रां समिधमाहरेत् ॥ ४ ॥
ब्रह्मवर्चसकाम उपवाताम् ॥ ५ ॥
उपवाता शुष्का ॥ ५ ॥
उभयीमुभयकामः ॥ ६ ॥
अन्नाद्यादीनामन्यतमं ब्रह्मवर्चसं च यः कामयते स उभयीमार्द्रामुपवातां च समिधमाहरेत् । अर्धशुष्कामित्युक्तं भवति ॥ ६ ॥
उपरि समिधं कृत्वा गामन्नं च ब्राह्मणेभ्यः प्रदाय गौदानिकं कर्म कुर्वीत ॥ ७ ॥
तामाहृतां समिधमुपरि कृत्वा अनधो निधाय ब्राह्मणेभ्योऽन्नं भोजनाय दत्त्वा गां दक्षिणां दत्त्वा गौदानिकं कर्म कुर्वीत । कर्मग्रहणस्य प्रयोजनं गोदान एव स्थित्वोक्तम् ॥ ७ ॥
१. 'माः' ख. ग., 'नाः' घ. पाठः.
१६० आश्वलायनगृह्यसूत्रम् [तृतीयोऽध्यायः
आत्मनि मन्त्रान् संनमयेत् ॥ ८ ॥
गौदानिके कर्मणि क्रियमाणे तत्रत्यान् मन्त्रानात्मा- भिमुखान् ऊहेत । ऋचामप्यूहप्राप्त्यर्थं वचनम् । ‘ओषधे त्रायस्व मा स्वधीते मा मा हिंसीः तेन ब्रह्मणो वपते दम आयुष्मान् तेन म आयुषे वपामि¹ मा म आयुः प्रमोषी- रि’ति ॥ ८ ॥
एकक्लीतकेन शीतोष्णाभिरद्भिः स्नात्वा युवं वस्त्राणि पीवसा वसाथे इत्यहते वाससी आच्छाद्याश्म- नस्तेजोऽसि चक्षुर्मे पाहीति चक्षुषी आज्यीत ॥ ९॥
यस्मिन् करञ्जफले एकं बीजं तदेकक्लीतकं तत्पि- ष्टमुन्मर्दनं पुरस्तादुपकल्पितम् । तेनोद्वर्तितगात्रः शीतोष्णा- भिरद्भिः स्नात्वा युवं वस्त्राणीति मन्त्रेणाहते वाससी आच्छा- दयति । एकमन्तर्वासः अपरं बहिर्वासः । अश्मनस्तेजोऽसि² चक्षुर्मे पाहीति मन्त्रेण ततश्चक्षुषी आञ्जयीत, सव्यं पूर्वं ‘सव्यं हि पूर्वं मनुष्या अञ्जत’ इति श्रुतेः ॥ ९ ॥
अश्मनस्तेजोऽसि श्रोत्रं मे पाहीति मणिकुण्ड- ले आबध्नीत अनुलेपनेन पाणी प्रलिप्य मुखमग्रे ब्रा- ह्मlocal: ह्मणोऽनुलिम्पेत ॥ १० ॥
अनुलेपनं चन्दनादि । ब्राह्मणो मुखं प्रथममनुलिम्पेत । ततोऽन्यान्यङ्गानि ॥ १० ॥
१. 'मि शुद्धिशिरोमा' क. पाठः. २. 'सीति' ङ. पाठः.
सप्तमः खण्डः] अनाविलोपेत् । १६१
सप्तमः खण्डः] अनाविलोपेत् । १६१
बाहू राजन्यः ॥ ११ ॥
अग्रेऽनुलिम्पेत् ॥ ११ ॥
उदरं वैश्यः ॥ १२ ॥
पूर्ववत् ॥ १२ ॥
उपस्थं स्त्री ॥ १३ ॥
तद्वत् ॥ १३ ॥
ऊरू सरणजीविनः ॥ १४ ॥
ये सरणेन गतागतेन जीवन्ति दूताः ते ऊरू अग्रे-
ऽनुलिम्पेरन् ॥ १४ ॥
अनार्तस्य नार्तोऽहं भूयासमिति स्रजमपिनध्नीत ॥
अपिनह्येत ॥ १५ ॥
न मालोक्ताम् ॥ १६ ॥
मालाशब्दोक्तां स्रजं नापिनह्येत ॥ १६ ॥
मालेति चेद् ब्रूयुः स्रगित्त्यभिधापयीत ॥ १७ ॥
यद्यवशादज्ञानाद्वा मालेति ब्रूयुः परिकर्मिणस्तदा
तान् स्रगिति वाचयेत् ततोऽपिनह्येत ॥ १७ ॥
देवानां प्रतिष्ठे स्थः सर्वतो मा पातमित्युपानहा-
वास्थाय दिवश्छन्नासीतिच्छत्रमादत्ते ॥ १८ ॥
गतार्थम् ॥ १८ ॥
वेणुरसि वानस्पत्योऽसि सर्वतो मा पाहि इति
वैणवं दण्डम् ॥ १९ ॥
आदत्ते ॥ १९ ॥
१. 'र्ता' ख. घ. पाठः.
W
१६२ आश्वलायनगृह्यसूत्रम् [तृतीयोऽध्यायः
आयुष्यमिति सूक्तेन मणिं कण्ठे प्रै¹मुच्योष्णीषं कृत्वा तिष्ठन् समिधमादध्यात् स्मृतं निन्दा च विद्या च श्रद्धा प्रज्ञा च पञ्चमी । इष्टं दत्तमधीतं च कृतं सत्यं श्रुतं व्रतै²म् ॥ यदग्ने सेन्द्रस्य सर्ऋ³षिकस्य सर्ऋषिराजस्य सपि- तृकस्य सपितृराजस्य साकाशस्य सातीकाशस्य सानू-⁵ काशस्य सप्रतीकाशस्य सदेवमनुष्यस्य सगन्धर्वाप्सर- स्कस्य सहारण्यैश्च पशुभिर्ग्राम्यैश्च यन्म आत्मन आ- त्मनि व्रतं तन्मे सर्वं व्रतमिदमहमग्ने सर्वव्रतो भवामि स्वाहेति ॥ २० ॥
तत आयुष्यमिति सूक्तान्ते मणिं कण्ठे बद्ध्वा हतेन वाससा उष्णीषं शिरोवेष्टनं कृत्वा तथैव तिष्ठन् पूर्वं⁶मुपरि कृतां समिधमादध्यात् स्मृतं निन्दा चेति मन्त्रेण सर्वतोव्र भवामि स्वाहेत्यन्तेन ॥ २० ॥
ममाग्ने वर्च इति प्रत्यृचं समिधोऽभ्यादध्यात् ॥ २१ ॥ तत्र नव समाम्नाताः । खैलकी दशमी अर्वाञ्चमि- न्द्रममुतो हवामह इति तस्या अपि ग्रहणमित्याहुः ॥ २१ ॥
यत्रैनं पूजयिष्यन्तो भवन्ति तत्रैतां रात्रिं व- सेत् ॥ २२ ॥ एनं समावृत्तं यत्र गृहे पूजयिष्यन्तो भवाँ⁷न्ति तत्र
१. ‘प्रतिमु’ घ. पाठः.
२. ‘तमिति य’ ङ. पाठः.
३. ‘पिरा’ ख. पाठः.
४. ‘सप्र’ ग. पाठः.
५. ‘स’,
६. ‘ति च प्र’ ङ. पाठः.
७. ‘विष्यन्ति’ ख. पाठः.
सप्तमः खण्डः] अनाविलेापेतम् । १६३
सप्तमः खण्डः] अनाविलेापेतम् । १६३
पितृगृहे रात्रिमेतां वसेत् । पूजा च मधुपर्कः 'स्नातकायोपस्थिताये'ति वचनात् ॥ २२ ॥
विद्यान्ते गुरुमर्थेन निमन्त्र्य कृत्वानुज्ञातस्य वा स्नानम् ॥ २३ ॥
विद्यासमाप्तौ गुरुमर्थेन प्रयोजनेन निमन्त्र्य कमर्थं त आहरिष्यामीत्युक्त्वा तेनोक्तं च कृत्वा तत एतत् समावर्तनं कर्तव्यम् । अनुज्ञातस्य वा वत्स ! त्वद्गुणैरेवाहं तोषितः अलमर्थेन अनुजानामि त्वां गृहाश्रमायेत्येवमुक्तस्य वा कर्तव्यम् ॥ २३ ॥
तस्यैतानि व्रतानि भवन्ति ॥ २४ ॥
तस्य स्नातकस्यैतानि वक्ष्यमाणानि व्रतानि भवन्त्यामरणात् ॥ २४ ॥
न नक्तं स्नायात् न नग्नः स्नायात् न नग्नां स्त्रियमीक्षेतान्यत्र मैथुनात् वर्षति न धावेन्न वृक्षमारोहेन्न कूपमवरोहेन्न संशयमभ्यापद्येत ॥ २५ ॥
संशयः प्राणसंशयस्तं नाभ्यापद्येत न प्रतिपद्येत । अन्यत् स्पष्टम् ॥ २५ ॥
किमर्थं पुनरेवमस्य रक्षोपदिश्यत इत्यत्राह —
महद्वै भूतं स्नातको भवतीति विज्ञायते ॥ २६ ॥
योऽयं स्नातकः स महद्भूतं भवति यथा पृथिव्यादीनि महाभूतान्युपकारकाणि एवमयं सर्वाश्रमाणामुपकारक इति विज्ञायते । आह मनुः —
१. 'कमर्थमाह्रतं च' ङ. पाठः. २. 'क्षैवमुप' ख. ग. ङ. पाठः.
१६४ | आश्वलायनगृह्यसूत्रम् | [तृतीयोऽध्यायः
“यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः ।
एवं गृहस्थमाश्रित्य सर्वे जीवन्ति भिक्षुकाः ॥”
इति ॥ २६ ॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ
तृतीयाध्याये सप्तमः खण्डः ।
अथाष्टमः खण्डः ।
गुरवे प्रस्त्रक्ष्यमाणो नाम प्रब्रुवीत ॥ १ ॥
अथ समावृत्तं गुरुः प्रसृजति गृहान् प्रति विसृजति स तेन प्रस्त्रक्ष्यमाणस्तस्मै गुरवे तस्यैव नाम संबुद्ध्या प्रब्रूवीत यज्ञशर्म्मन्निति ॥ १ ॥
इदं वत्स्यावो भो इति उच्चैरूर्ध्वं नाम्नः ॥ २ ॥
अथ नाम्न ऊर्ध्वमिदं वत्स्यावो भो इत्युच्चैः प्रब्रूवीत। नाम्न ऊर्ध्वमुच्चैरिति वचनान्नामोपांशु भवति। वत्स्याव इति केवलोऽपि वसिर्विंपूर्वस्यार्थे द्रष्टव्यः । एतावन्तं कालं सहोषितौ स्वः अथेदानीं विभिद्य वासं करिष्यावः भो यज्ञशर्मन्निति मन्त्रार्थः। इदमिति च क्रियमाणक्रियानिर्देशः यथा इदं गम्यत इति ॥ २ ॥
प्राणापानयोरुपांश्वामन्द्रैरिन्द्रहरिभिरिति च ॥ ३ ॥
प्राणापानयोरिति मन्त्रमुपांशु प्रब्रुवीत आमन्द्रैरित्यृचं च ॥ ३ ॥
अष्टमः खण्डः] अनाविलोपेसम् । १६५
अष्टमः खण्डः] अनाविलोपेसम् । १६५
अतो वृद्धो जपति ॥ ४ ॥
अतःपरं वृद्ध आचार्यो जपति ॥ ४ ॥
जप्यमाह —
प्राणापानयोरुरुव्यचास्त्वया प्रपद्ये देवाय सवित्रे परिददामीत्यृचं च ॥ ५ ॥
प्राणापानयोरिति मन्त्रस्य पूर्वत्रैव कृत्स्नः पाठः कर्त-
व्यो न कृतः इह वा पठ्यतां पूर्वत्र वा कोन्वत्र विशेष
इति । पूर्वत्रोपांशुत्युक्तम् इह जपतीतितस्य प्रयोजन
जपलक्षणमुपांशुत्वं गृह्यकर्मण्यनित्यमिति । तेन ‘ब्रह्माञ्जलि-
कृतो जपेदि’त्यत्रोच्चैः प्रयोगः सिद्धो भवति ॥ ५ ॥
समाप्य ओं प्राक् स्वस्तीति च जपित्वा माहि-
त्रेणानुमन्त्र्य ॥ ६ ॥
अतिसृजेदिति शेषः । आमन्द्रैरित्येतामृचं समाप्य
ओं प्राक् स्वस्तीति च जपित्वा महित्रीणामवोऽस्त्विति सूक्ते-
नानुमन्त्र्यातिसृजेद् गुरुः शिष्यम् । महित्रीशब्दो यस्मिन्
सूक्तेऽस्ति तन्माहित्रम् । विमुक्तादित्वादण् । विवत्स्याव इति
लौकिक्या वाचातिसर्गः ॥ ६ ॥
एवमतिसृष्टस्य न कुतश्चिद् भयं भवतीति वि-
ज्ञायते ॥ ७ ॥
एवं माहित्रेणानुमन्त्र्य योऽतिसृष्टः तस्य न कुतश्चिद्
भयं भवतीति ब्राह्मणं भवति । माहित्रानुमन्त्रणस्य प्रशंसे-
यम् । इदं च कालान्तरेऽपि भवति । यो यस्य प्रियः स्यात्
१. ‘पा’ ख. ङ. पाठः.
| १६६ | आश्वलायनगृह्यसूत्रम् | [तृतीयोऽध्यायः |
|---|
तथाविधत्वाद् ब्राह्मणस्य । एतदर्थमेव च ब्राह्मणमाकृष्टम् । आपस्तम्बोऽप्याह — 'यं कामयेत स्वस्ति पुनरागच्छेदिति तमेताभिरन्वीक्षेत स्वस्त्येव पुनरागच्छतीत्ययज्ञसंयुक्तः कल्प' इति ॥ ७ ॥
वयसाममनोज्ञां वाचं^२ श्रुत्वा कनिक्रदज्जनुषं प्रब्रुवाण इति सूक्ते जपेद् देवीं वाचमजनयन्त देवा इति च ॥ ८ ॥
यदायं स्नातको मार्गे वान्यत्र वा पक्षिणां प्रतिकूलां वाचं शृणोति तदा नैमित्तिकोऽयं जपः । ८ ॥
स्तुहि श्रुतं गर्तसदं युवानमिति मृगस्य ॥ ९ ॥
अमनोज्ञां वाचं श्रुत्वेत्यनुवर्तते ॥ ९ ॥
यस्या दिशो बिभीयाद्यस्माद्वा तां दिशमुल्मुक- मुभयतः प्रदीप्तं प्रत्यस्येन्मन्थं वा प्रसव्यमालोड्याभयं मित्रावरुणा मह्यमस्त्वर्चिषा शत्रून् दहन्तं प्रतीत्यमा- ज्ञातारं मा प्रतिष्ठां विन्दैन्तु मिथो भिन्दाना उभयं तु मृत्युमिति संसृष्टं धनमुभयं समाकृतमिति मन्थं न्यञ्चं करोति ॥ १० ॥
यस्या दिशो यस्माद्वा पुरुषाद् बिभीयात् तां दिशं प्रति पुरुषोऽपि स यस्यां दिशि वसति तां दिशं प्रति उभयतः प्रदीप्तं मूले चाग्रे च ज्वलन्तमुल्मुकम् अस्येत् क्षिपेत् अभयं मित्रावरुणेति मन्त्रेण । दधिमिश्राः सक्तवः मन्थः तं वा प्रस-
१. 'ज्ञा', २. 'चः' ख. पाठः. ३. 'द' ख. ग. पाठः.
अष्टमः खण्डः] अनाविलोपे तम् । १६७
अष्टमः खण्डः] अनाविलोपे तम् । १६७
व्यमप्रदक्षिणमालोड्य न्यञ्चं न्यग्भूतं करोति संसृष्टमिति मन्त्रेण ॥ १० ॥
सर्वतो भयादनाज्ञातादष्टावाज्याहुतीर्जुहुयात् पृथिवी वृता साग्निना वृता तया वृतया वर्त्या यस्माद् भयाद् बिभेमि तद्वारये स्वाहा। अन्तरिक्षं वृतं तद्वायुना वृतं तेन वृतेन वर्त्रेण यस्माद् भयाद् बिभेमि तद्वारये स्वाहा। द्यौर्वृता सादित्येन वृता तया वृतया वर्त्या यस्माद् भयाद् बिभेमि तद्वारये स्वाहा। दिशो वृतास्ताश्चन्द्रमसा वृतास्ताभिर्वृताभिर्वर्त्रीभिर्यस्माद् भयाद् बिभेमि तद्वारये स्वाहा। आपो वृतास्ता वरुणेन वृतास्ताभिर्वृताभिर्वर्त्रीभिर्यस्माद् भयाद् बिभेमि तद्वारये स्वाहा। प्रजा वृतास्ताः प्राणेन वृतास्ताभिर्वृताभिर्वर्त्रीभिर्यस्माद् भयाद् बिभेमि तद्वारये स्वाहा। वेदा वृतास्ते छन्दोभिर्वृतास्तेभिर्वृतेभिर्वर्त्रैभिर्यस्माद् भयाद् बिभेमि तद्वारये स्वाहा। सर्वं वृतं तद् ब्रह्मणा वृतं तेन वृतेन वर्त्रेण यस्माद् भयाद् बिभेमि तद्वारये स्वाहेति ॥
सर्वतो भयादनाज्ञातनिमित्ताद्वा भयाद्यो बिभीयात् सोऽष्टावाज्याहुतीर्जुहुयात् पृथिवी वृतेत्यादिभिर्मन्त्रैः। अष्टग्रहणमाज्यभागस्विष्टकृन्निवृत्त्यर्थम् । आज्यग्रहणमाज्यहोमधर्मप्राप्त्यर्थम् ॥ ११ ॥
१. 'र्त्या' ग. ङ. पाठः. २. वरुणे' ख. पाठः.
CC-0. Agamnigam Digital Presevation Foundation, Chandigarh
१९८ आश्वलायनगृह्यसूत्रम् [तृतीयोऽध्यायः
अथापराजितायां दिश्यवस्थाय स्वस्त्यात्रेयं ज-
पति यत इन्द्र भयामहे इति च सूक्तशेषम् ॥ १२ ॥
अथाग्नेरपराजितायां दिशि स्थित्वा स्वस्त्यात्रेयेण दृष्टं स्वस्ति नो मिमीतामिति सूक्तं जपति प्राक्² पूर्णपात्रनिनय-
नाद् यत इन्द्र भयामहे इति सूक्तशेषं जपति ॥ १२ ॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ
तृतीयाध्यायेऽष्टमः खण्डः।
अथ नवमः खण्डः।
संग्रामे समुपोळे राजानं सन्नाहयेत् ॥ १ ॥
युद्धे समुपस्थिते राजानं संनाहयेत् पुरोहितः ॥ १ ॥
आत्वाहार्षमन्तरेधीति पश्चाद्रथस्यावस्थाय ॥ २ ॥
जपेदिति शेषः । यस्मिन् राजाधिरूढस्तस्य रथस्य पश्चादवस्थायातत् सूक्तं जपेत् ॥ २ ॥
जीमूतस्येव भवति प्रतीकमिति कवचं प्रय-
च्छेत्³ ॥ ३ ॥
जीमूतस्येत्यनयर्चा कवचं सन्नाहं प्रयच्छेद् राज्ञे ॥
उत्तरया धनुः ॥ ४ ॥
धन्वनागा इत्येतया धनुः प्रयच्छेत् ॥ ४ ॥
उत्तरां वाचयेत् ॥ ५ ॥
वक्ष्यन्तीवेत्यृचं राजानं वाचयेत् ॥ ५ ॥
१. 'प्रागुदीची दिगपराजिताग्ने' घ. पाठः.
२. 'क् पा' ङ. पाठः.
३. 'च्छेद् राज्ञे ऋचा उ' ख. ङ. पाठः.
नवमः खण्डः] अनाविलोपेताम् । १६९
नवमः खण्डः] अनाविलोपेताम् । १६९
स्वयं चतुर्थीं जपेत् ॥ ६ ॥ ते आचरन्तीत्यृचं पुरोहितो जपेत् ॥ ६ ॥
पञ्चम्येषुधिं प्रयच्छेत् ॥ ७ ॥ बह्वीनां पितेत्यृचा इषुधिं तूणीरं प्रयच्छेत् ॥ ७ ॥
अभिप्रवर्तमाने षष्ठीम् ॥ ८ ॥ अथ रथं प्रवर्तयति राजा तस्मिन्नभिप्रवर्तमाने रथे तिष्ठन्नित्यृचं जपेत् पुरोहितः ॥ ८ ॥
सप्तम्याश्वान् ॥ ९ ॥ तीव्रान् घोषानित्यृचाश्वान् योग्यत्वादभिमन्त्रयते पुरोहितः ॥ ९ ॥
अष्टमीमिषूनवेक्षमाणं वाचयति ॥ १० ॥ रथवाहनमित्यृचा इषूनवेक्षमाणं वाचयति ॥ १० ॥
अहिरिव भोगैः पर्येति बाहुमिति तलं नह्यमानम् ॥ ११ ॥ अहिरिव भोगैरित्येतया तलं चर्मादिनिर्मितं हस्तरक्षणं नह्यमानमनुमन्त्रयते । पुरोहितः नह्यमानं राजानं वाचयतीत्यन्ये^२ ॥ ११ ॥
अथैनं सारयमाणमुपारुह्याभीवर्तं वाचयति प्रयोवां मित्रावरुणेति च द्वे ॥ १२ ॥ अथ सारयमाणः सारथिरारोहति तं सारयमाणमुपा-
१. 'अनुमन्त्रयते पु', २. 'न्ये । तलं हस्तरक्षणम् ॥ अ' ख. ङ. पाठः.
| १७० | आश्वलायनगृह्यसूत्रम् | [तृतीयोऽध्यायः |
|---|
रुह्य एनं राजानमभीवर्त्तम् अभीवर्तेन हविषेति सूक्तमभीवर्त्तदृष्टं वाचयति प्रयोवां मित्रावरुणेति च द्वे ऋचौ ॥ १२ ॥
अथैनमन्वीक्षेताप्रतिरथशाससापर्णैः ॥ १३ ॥
अथैनं युद्धे प्रविशन्तं अन्वीक्षेत अप्रतिरथम् आशुः शिशान इति सूक्तम् अप्रतिरथेन ऋषिणा दृष्टं, शासं शास इत्येति सूक्तं शासदृष्टं, सौपर्णं सुपर्णदृष्टम् । सौपर्णानां बहुत्वाद् विवक्षितमुदाहरिष्यति प्रधारयन्त्विति । एतैरप्रतिरथशाससौपर्णैरन्वीक्षणम् ॥ १३ ॥
प्रधारयन्तु मधुनो घृतस्येत्येतत् सौपर्णम् ॥
इदमत्र सौपर्णम् ॥ १४ ॥
सर्वा दिशोऽनुपरीयायादित्यमौशनसं वास्थाय प्रयोधयेत् ॥ १५ ॥
प्राच्याद्याः सर्वा दिशोऽनुपरीयाय अनुपरिपूर्वाद्यातेर्ल्यप् । अनुपरीत्य प्रागादिमुखं रथं प्रवर्त्तयेत्यर्थः । आदित्यमौशनसं वा यत्रादित्यः स्थितः शुक्नो वा तं दिग्भागमास्थाय तत्र स्थितः सन् प्रयोधयेद् युद्धमारम्भयेद् राजानं, न प्रत्यादित्यं नापि प्रतिशुक्रम् ॥ १५ ॥
उपश्वासय पृथिवीमुत द्यामिति तृचेन दुन्दुभिमभिमृशेत् ॥ १६ ॥
पुरोहितः ॥ १६ ॥
अवसृष्टाः परापतेतीषून् विसर्जयेत् ॥ १७ ॥
पुरोहित एव ॥ १७ ॥
नवमः खण्डः] अनाविलोपेतुम् । १७१
नवमः खण्डः] अनाविलोपेतुम् । १७१
यत्र बाणाः संपतन्तीति युध्यमानेषु जपेत् ॥
युध्यमानेषु योधेषु जपेत् पुरोहितः ॥ १८ ॥
संशिष्याद् वा संशिष्याद् वा ॥ १९ ॥
अथवा न स्वयं दुन्दुभिमर्शनादि कुर्याद् इदमित्थं मन्त्रैस्त्वया कर्तव्यमिति राजानं संशिष्यात् संदिशेत् । द्विरुक्तिरध्यायपरिसमाप्तिकृता ॥ १९ ॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ
अनाविलायां तृतीयाध्याये नवमः खण्डः ।
तृतीयोऽध्यायः समाप्तः ।
अथ चतुर्थोऽध्यायः।
आहिताग्निश्चेदुपतपेत् प्राच्यामुदीच्यामपराजि- तायां वा दिश्युदवस्येत् ॥ १ ॥
उपतापो रोगः। प्राच्यादीनामन्यतमस्यां दिशि उद्- वस्येत् ग्रामान्निष्क्रम्य वसेत् ॥ १ ॥
किं प्रयोजनमित्याह —
ग्रामकामा अग्नय इत्युदाहरन्ति ॥ २ ॥
एवं के(तः? ते) किमित्याह—
आशांसन्त एनं ग्राममाजिगमिषन्तोऽगदं कुर्यु- रिति विज्ञायते ॥ ३ ॥
अपिनामायं जीव्याद् अस्मांश्च यक्षीष्ट इत्येवमाशंस- न्तोऽग्नयो ग्राममाजिगमिषन्त आगन्तुमिच्छन्तः एनं यज- मानमगदं कुर्युरिति विज्ञायते ॥ ३ ॥
अगदः सोमेन पशुनेष्ट्येष्टावस्येत् ॥ ४ ॥
यद्यसावगदः स्वस्थो भवति ततः सोमादीनामन्यत- मेनेष्ट्वा अवस्येद् गृहं प्रविश्य वसेत्। सोमोऽग्निष्टोमः। पशुरै- न्द्राग्नः। इष्टिरग्रायणेष्टिर्दर्शपूर्णमासौ वा। आ तस्मात् का- लात् तत्र वसेदित्युक्तं भवति। अन्ये त्वाग्नेयमष्टाकपालं तदहरेवेच्छन्ति ॥ ४ ॥
१. 'न्ति केचिद् ब्रह्मवादिनः। ए' ङ. पाठः.
२. 'त' ख. ग. पाठः.
३. 'वे' घ. पाठः.
प्रथमः खण्डः] अनाविलोपेताम् । १७३
प्रथमः खण्डः] अनाविलोपेताम् । १७३
अनिष्ट्वा वा ॥ ५ ॥
अथ वानिष्ट्वैव प्रविशेदगदः ॥ ५ ॥
संस्थिते भूमिभागं खानयेद् दक्षिणपूर्वस्यां दिशि दक्षिणापरस्यां वा दक्षिणाप्रवणं दक्षिणाप्राक्प्रवणं दक्षिणाप्रत्यक्प्रवणमित्येके यावानुद्बाहुकः पुरुषस्तावदायामं व्याममात्रं तिर्यक् वितस्तिमर्वाक् ॥ ६ ॥
यदि संस्थितो मृतः स्यात् ततस्तस्मात् प्रदेशाद् दक्षिणपूर्वस्यां दिशि आग्नेय्यां दक्षिणापरस्यां निर्ऋत्यां वा भूमिभागं खानयेत् कर्ता पुत्रादिः । दक्षिणादिप्रवणं यथा स्यात् तथा खानयेत् । प्रमाणनिर्देशः— उत्क्षिप्तबाहुकः पुरुषो यावान् तावानायामो यस्य तं तावदायामम् । तिर्यक्प्रमाणेन् व्याममात्रम् ।
“बाह्वोः सकरयोर्व्यामस्ततयोस्तिर्यगन्तरम्”
इति नैघण्टुकाः । अर्वाक्प्रमाणेन् वितस्तिं वितस्तिप्रमितम् ।
कनिष्ठाङ्गुष्ठयोर्मध्यं वितस्तिस्ततदीर्घयोः ।
अर्वाङिति ङकारोऽपपाठः। यथा पूर्वत्र तिर्यगिति एवमत्रावागिति ॥ ६ ॥
अभितआकाशं श्मशानम् ॥ ७ ॥
अभितः परित आकाशं यस्य एवंविधं श्मशानं भवति । मध्ये छदिरादिभिरनाकाशमित्युक्तं भवति ॥ ७ ॥
१७४ आश्वलायनगृह्यसूत्रम् [चतुर्थोऽध्यायः
बहुलौषधिकम् ॥ ८ ॥ बहुला ओषधयो यत्र एवं च तत् ॥ ८ ॥
कण्टकिक्षीरिणस्त्वति यथोक्तं पुरस्तात् ॥ ९ ॥ वास्तुपरीक्षायां तथात्रापि कार्यम् ॥ ९ ॥
यत्र सर्वत आपः प्रध्वंसेरन्नेतदादहनस्य लक्षणं श्मशानस्य ॥ १० ॥ यत्र प्रदेशे सर्वत आपः प्रध्वंसेरन् नावतिष्ठेरन् ए- तदादहनस्य श्मशानस्य लक्षणम् । यत्रासावादह्यते तदा- दहनम् । आदहनस्येति विशेषणादन्यदपि श्मशानमस्तीति गम्यते यत्र संचितान्यस्थीनि निधीयन्ते तदेवंलक्षणं न भवति । १तत्राप्यभित आकाश२मिति३ भवति श्मशानस्य तत्रा- विशेषितत्वात् ॥ १० ॥
केशश्मश्रुलोमनखानीत्युक्तं पुरस्तात् ॥ ११ ॥ 'केशश्मश्रुलोमनखानि वापयीरन्नि'त्यादि 'अवच्छेद्य- मस्य पुत्रा अमाकुर्वीरन्नि'त्यन्तं यत् पुरस्तादुक्तं तदिहापि द्रष्टव्यम् ॥ ११ ॥
विगुल्फं बर्हिराज्यं च ॥ १२ ॥ विगुल्फं प्रभूतं तत् तदुपविगुल्फयेयुः । सौम्यं वौ४- विगुल्फमिति५ ॥ १२ ॥
दध्यन्यत्र सर्पिरानयन्त्येतत् पित्र्यं पृषदाज्यम् ॥ १३ ॥
१. 'तलक्ष' ख. ङ. पाठः.
२. 'अभित आकाशमित्येतत् तु तत्रा-पि भ' घ. पाठः.
३. 'शं भ' ख. पाठः.
४. 'वा गु' ङ. पाठः.
५. 'तिवत् ॥' ग. ङ. पाठः.
द्वितीयः खण्डः] अनाविलो॑पेतम् । १७५
द्वितीयः खण्डः] अनाविलो॑पेतम् । १७५
अत्र कर्माणि दधनि सर्पिरानयन्ति । एतत् सर्पिर्मिश्रं दधि पित्र्यं पृषदाज्यम् । संज्ञेयम् । तेन 'निष्पुरीषमेके कृत्वा पृषदाज्यस्य पूरयन्ती'त्यत्रापि ग्रहणं भवति ॥ १३ ॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ चतुर्थाध्याये प्रथमः खण्डः ।
अथ द्वितीयः खण्डः ।
अथैतां दिशमग्नीन् नयन्ति ॥ १ ॥
यस्यां दिशि भूमिभागः खानितः तां दिशमग्नीन् नयन्ति ॥ १ ॥
यज्ञपात्राणि च ॥ २ ॥
नयन्तीत्येव ॥ २ ॥
अन्वञ्चं प्रेतमयुजोऽमिथुनाः प्रवयसः ॥ ३ ॥
नयन्तीत्येव । अन्वञ्चं पात्राणां पृष्ठतः अयुजः अयुग्मसंख्यास्त्रयः पञ्चेत्यादि । अमिथुनाः स्त्रियः पुमांस एव वा न मिश्रिताः । प्रवयसो वृद्धाः । उपदेशक्रमादेव सिद्धे अन्वञ्चमिति वचनादग्नीनां च पात्राणां च क्रमो यथारुचि स्यात् ॥
पीठचक्रेण गोयुक्तेनेत्येके ॥ ४ ॥
एके गोयुक्तेन पीठचक्रेण शकटविशेषेण नयन्ति । एक इति वचनादन्ये शिबिकादिना ॥ ४ ॥
अनुस्तरणीं गामजां वैकवर्णां कृष्णामेके ॥ ५ ॥
कल्पान्तरेष्वनुस्तरणी विकल्पिता । तदनुविधानाय
१७६ | आश्वलायनगृह्यसूत्रम् | [चतुर्थोऽध्यायः
व्यवहितकल्पनया योज्यम् । यत्त्वचा प्रेतोऽनुस्तीर्यते सानुस्तरणी तां गामजां वा ॥ ५ ॥
सव्ये बाहौ बद्ध्वानुसंस्कारयन्ति ॥ ६ ॥
अन्येनैवं विकल्पितानुस्तरणी तत्र गामेकवर्णीमसङ्कीर्णवर्णाम् अजां कृष्णाम् । अन्ये त्वेकवर्णां कृष्णामित्येकमेव विशेषणं मन्यन्ते । कृष्णमित्युक्ते कृष्णप्रायापि गृह्येत तन्निवृत्त्यर्थमेकवर्णामन्यवर्णसंयुक्तामिति ॥ ६ ॥
अन्वञ्चोऽमात्या अधोनिवीताः प्रवृत्तशिखा ज्येष्ठप्रथमाः कनिष्ठजघन्याः ॥ ७ ॥
अमात्याः पुत्रादयः तेऽन्वञ्चो गच्छन्ति अधोनिवीताः अधःकृतोपरिवाससः बाह्वोरधःकृतयज्ञोपवीता वा । प्रवृत्तशिखा मुक्तशिखा मुक्तकेशा वा । ज्येष्ठः प्रथमोऽग्रगामी येषां ते ज्येष्ठप्रथमाः । कनिष्ठः पृष्ठगामी येषां ते कनिष्ठजघन्याः । एवंभूता गच्छेयुः । ज्येष्ठप्रथमा इत्येतावत्युच्यमाने ज्येष्ठ एव प्रथमः स्यात्। कनिष्ठजघन्यवचनात्तु ज्येष्ठानुपूर्व्याद् गच्छेयुः ॥
प्राप्यैतं भूमिभागं कर्तोदकेन शमीशाखया त्रिः प्रसव्यमायतनं परिव्रजन् प्रोक्षत्यपेतवीतविचसर्पतात इति ॥ ८ ॥
यः पूर्वं खानितः एतं भूमिभागं प्राप्य कर्ता पुत्रादिः उदकेन शमीशाखया तदायतनं त्रिप्रदक्षिणं परिव्रजन् प्रोक्षति । अपेतेति मन्त्रस्यावृत्तिः ॥ ८ ॥
Text analysis of the image:
Page header:
द्वितीयः खण्डः] अनाविलो block? -> अनाविलो block -> अनाविलो block
Wait, look at: अनाविलो block -> No, अनाविलो block? It says अनाविलो block -> अनाविलो block?
Reading the Devanagari: अनाविलो block?
अ ना वि लो पे त म् । -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block ->
१७८ आश्वलायनगृह्यसूत्रम् [चतुर्थोऽध्यायः
धनुश्च क्षत्रियाय ॥ १४ ॥
क्षत्रियाय पत्नीं च धनुश्च ॥ १४ ॥
तामुत्थापयेद् देवरः पतिस्थीयोऽन्तेवासी जरद्दा- सो वोदीर्ष्व नार्य्यभिजीवलोकमिति ॥ १५ ॥
तां पत्नीमुत्थापयेद् देवरः स च पतिस्थीयः पतिस्था- नीयः। या देवरन्याययोग्या तद्विषयमेतत् । अन्ये तु सार्वत्रि- कमिच्छन्ति, पतिस्थानीयत्वं रक्षणाद्यभिप्रायमिति । अन्ते- वासी शिष्यः । जीर्णो वा दासः। उदीर्ष्वेति मन्त्रेण ॥ १५ ॥
कर्ता वृषले जपेत् ॥ १६ ॥
यदा वृषल उत्थापयेत् तदा कर्ता मन्त्रं जपेत् ॥ १६॥
धनुर्हस्तादाददानो मृतस्येति धनुः ॥ १७ ॥
उत्थापयेद् आददीत ॥ १७ ॥
उक्तं वृषले ॥ १८ ॥
कर्ता वृषले जपेदिति ॥ १८ ॥
अधिज्यं कृत्वा सञ्चितिमचित्वा संशीर्यानुप्रह- रेत् ॥ १९ ॥
धनुराततज्यं कृत्वा इध्मचितेर्यः शेषः तमचित्वैव भङ्क्त्वा तस्यामेव चितौ क्षिपेत् ॥ १९ ॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ चतुर्थाध्याये द्वितीयः खण्डः ।