भारतकोश
आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

पृष्ठ 225, कुल 292 में से

संदर्भ में पढ़ें
पृष्ठ 225

प्रथमः खण्डः] अनाविलोपेताम् । १७३

अनिष्ट्वा वा ॥ ५ ॥
अथ वानिष्ट्वैव प्रविशेदगदः ॥ ५ ॥

संस्थिते भूमिभागं खानयेद् दक्षिणपूर्वस्यां दिशि दक्षिणापरस्यां वा दक्षिणाप्रवणं दक्षिणाप्राक्प्रवणं दक्षिणाप्रत्यक्प्रवणमित्येके यावानुद्बाहुकः पुरुषस्तावदायामं व्याममात्रं तिर्यक् वितस्तिमर्वाक् ॥ ६ ॥

यदि संस्थितो मृतः स्यात् ततस्तस्मात् प्रदेशाद् दक्षिणपूर्वस्यां दिशि आग्नेय्यां दक्षिणापरस्यां निर्ऋत्यां वा भूमिभागं खानयेत् कर्ता पुत्रादिः । दक्षिणादिप्रवणं यथा स्यात् तथा खानयेत् । प्रमाणनिर्देशः— उत्क्षिप्तबाहुकः पुरुषो यावान् तावानायामो यस्य तं तावदायामम् । तिर्यक्प्रमाणेन् व्याममात्रम् ।

“बाह्वोः सकरयोर्व्यामस्ततयोस्तिर्यगन्तरम्”

इति नैघण्टुकाः । अर्वाक्प्रमाणेन् वितस्तिं वितस्तिप्रमितम् ।

कनिष्ठाङ्गुष्ठयोर्मध्यं वितस्तिस्ततदीर्घयोः ।

अर्वाङिति ङकारोऽपपाठः। यथा पूर्वत्र तिर्यगिति एवमत्रावागिति ॥ ६ ॥

अभितआकाशं श्मशानम् ॥ ७ ॥
अभितः परित आकाशं यस्य एवंविधं श्मशानं भवति । मध्ये छदिरादिभिरनाकाशमित्युक्तं भवति ॥ ७ ॥

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित) · पृष्ठ 225, कुल 292 में से · BharatKosha