भारतकोश
आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

पृष्ठ 218, कुल 292 में से

संदर्भ में पढ़ें
पृष्ठ 218
१६६आश्वलायनगृह्यसूत्रम्[तृतीयोऽध्यायः

तथाविधत्वाद् ब्राह्मणस्य । एतदर्थमेव च ब्राह्मणमाकृष्टम् । आपस्तम्बोऽप्याह — 'यं कामयेत स्वस्ति पुनरागच्छेदिति तमेताभिरन्वीक्षेत स्वस्त्येव पुनरागच्छतीत्ययज्ञसंयुक्तः कल्प' इति ॥ ७ ॥

वयसाममनोज्ञां वाचं^२ श्रुत्वा कनिक्रदज्जनुषं प्रब्रुवाण इति सूक्ते जपेद् देवीं वाचमजनयन्त देवा इति च ॥ ८ ॥

यदायं स्नातको मार्गे वान्यत्र वा पक्षिणां प्रतिकूलां वाचं शृणोति तदा नैमित्तिकोऽयं जपः । ८ ॥

स्तुहि श्रुतं गर्तसदं युवानमिति मृगस्य ॥ ९ ॥

अमनोज्ञां वाचं श्रुत्वेत्यनुवर्तते ॥ ९ ॥

यस्या दिशो बिभीयाद्यस्माद्वा तां दिशमुल्मुक- मुभयतः प्रदीप्तं प्रत्यस्येन्मन्थं वा प्रसव्यमालोड्याभयं मित्रावरुणा मह्यमस्त्वर्चिषा शत्रून् दहन्तं प्रतीत्यमा- ज्ञातारं मा प्रतिष्ठां विन्दैन्तु मिथो भिन्दाना उभयं तु मृत्युमिति संसृष्टं धनमुभयं समाकृतमिति मन्थं न्यञ्चं करोति ॥ १० ॥

यस्या दिशो यस्माद्वा पुरुषाद् बिभीयात् तां दिशं प्रति पुरुषोऽपि स यस्यां दिशि वसति तां दिशं प्रति उभयतः प्रदीप्तं मूले चाग्रे च ज्वलन्तमुल्मुकम् अस्येत् क्षिपेत् अभयं मित्रावरुणेति मन्त्रेण । दधिमिश्राः सक्तवः मन्थः तं वा प्रस-


१. 'ज्ञा', २. 'चः' ख. पाठः. ३. 'द' ख. ग. पाठः.