आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 217, कुल 292 में से
संदर्भ में पढ़ेंअष्टमः खण्डः] अनाविलोपेसम् । १६५
अतो वृद्धो जपति ॥ ४ ॥
अतःपरं वृद्ध आचार्यो जपति ॥ ४ ॥
जप्यमाह —
प्राणापानयोरुरुव्यचास्त्वया प्रपद्ये देवाय सवित्रे परिददामीत्यृचं च ॥ ५ ॥
प्राणापानयोरिति मन्त्रस्य पूर्वत्रैव कृत्स्नः पाठः कर्त-
व्यो न कृतः इह वा पठ्यतां पूर्वत्र वा कोन्वत्र विशेष
इति । पूर्वत्रोपांशुत्युक्तम् इह जपतीतितस्य प्रयोजन
जपलक्षणमुपांशुत्वं गृह्यकर्मण्यनित्यमिति । तेन ‘ब्रह्माञ्जलि-
कृतो जपेदि’त्यत्रोच्चैः प्रयोगः सिद्धो भवति ॥ ५ ॥
समाप्य ओं प्राक् स्वस्तीति च जपित्वा माहि-
त्रेणानुमन्त्र्य ॥ ६ ॥
अतिसृजेदिति शेषः । आमन्द्रैरित्येतामृचं समाप्य
ओं प्राक् स्वस्तीति च जपित्वा महित्रीणामवोऽस्त्विति सूक्ते-
नानुमन्त्र्यातिसृजेद् गुरुः शिष्यम् । महित्रीशब्दो यस्मिन्
सूक्तेऽस्ति तन्माहित्रम् । विमुक्तादित्वादण् । विवत्स्याव इति
लौकिक्या वाचातिसर्गः ॥ ६ ॥
एवमतिसृष्टस्य न कुतश्चिद् भयं भवतीति वि-
ज्ञायते ॥ ७ ॥
एवं माहित्रेणानुमन्त्र्य योऽतिसृष्टः तस्य न कुतश्चिद्
भयं भवतीति ब्राह्मणं भवति । माहित्रानुमन्त्रणस्य प्रशंसे-
यम् । इदं च कालान्तरेऽपि भवति । यो यस्य प्रियः स्यात्
१. ‘पा’ ख. ङ. पाठः.