भारतकोश
संग्रह पर लौटें

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

तृतीयः खण्डः] अनाविलोपेताम् । १११

तृतीयः खण्डः] अनाविलोपेताम् । १११

तेषाममात्यानां मध्ये ये मन्त्रविदो भवन्ति ते मन्त्रान् जपेयुः। के पुनस्ते मन्त्राः, स्योनापृथिवी भवेति अनन्तरोक्ता वक्ष्यमाणाँश्च अतो देवा अवन्तु नः सौर्याणि स्वस्त्ययनानि च॥

संहाय अतो देवा अवन्तु न इति त्रिरेतां दाक्षिणामुखाः प्रत्यङ्मुखा उदङ्मुखाश्च ॥ ९ ॥

‘ओहाङ् गतौ’ संपूवोऽयं शयित्वोत्थायासने वर्तते । दृश्यते

‘कलिः शयानो भवति सञ्जिहानस्तु द्वापरः’

इति । संहाय शयनादुत्थाय अतो देवा अवन्तु न इत्येतामृचं दाक्षिणादि (दि) ङ्मुखास्त्रिर्जपेयुः प्रतिदिशं सकृत् सकृत् ॥

चतुर्थं संहाय सौर्याणि स्वस्त्ययनानि च जपित्वाऽन्नं संस्कृत्य ब्राह्मणान् भोजयित्वा स्वस्त्ययनं वाचयीत॥१०॥

चतुर्थं संहाय चतुर्थं संहानं कृत्वा । चतुर्थवचनाद् ज्ञायते प्रतिदिशं संहाय जप इति । संहानवचनाच्च संवेशनमपि भवति । तत्रापस्तम्बः — ‘प्रत्यवरुह्योत्तरैर्दक्षिणैः पार्श्वैर्नैवस्वस्तरे संविशन्ति । दक्षिणतः पितोत्तरा मातैवमवशिष्टान् । ज्येष्ठो ज्येष्ठोऽनन्तरः । संहायोत्तराभ्यां पृथिवीमभिमृशन्ति । एवं संवेशनादि त्रिरि’ति । एवं चतुर्थं संहाय सौर्याणि सूर्यो नो दिव उदुत्यं जातवेदसमित्यादीनि च स्वस्ति नो मिमीतामित्यादीनि च जपित्वाऽन्नं भक्ष्यभोजनादिकं संस्कृत्य गुणवत्कृत्वा तेन ब्राह्मणान् भोजयित्वा तैर्भुक्तवद्भिः स्वस्त्ययनं वाचयीत


१. ‘रं व’ घ. ग. पाठः.
२. ‘णा अ’ घ. पाठः.

११२ आश्वलायनगृह्यसूत्रम् [द्वितीयोऽध्यायः

पुण्याहं वाचयेत् । अपर आह — अतो देवा अवन्तु न इति त्रिर्जपेयुरिति एको योगः। अत्र दिशोऽनुक्तत्वात् 'तस्य नित्याः प्राञ्चश्रेष्टा' इति वचनाद् दक्षिणादीनां च वक्ष्यमाणत्वाच्च प्राङ्मुखा इति गम्यते । तत एतामित्यादि चतुर्थमित्यन्तोऽपरो योगः। एतामेवर्ग्चं दक्षिणादिदिङ्मुखाश्च जपेयुः । तत्र पच्छो जपः आनन्तर्येण च दिशां पादैर्योग इति ॥ ११ ॥

इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ द्वितीयाध्याये तृतीयः खण्डः ।


अथ चतुर्थः खण्डः ।

हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टकाः ॥ १ ॥

हेमन्तशिशिरयोर्ऋत्वोश्चतुर्णामपरपक्षाणां या अष्टम्यः तास्वष्टका नाम कर्म भवति । यद्यपि द्वयोर्ऋत्वोश्चत्वार एवापरपक्षाः, तथापि चतुर्णामित्युच्यते अधिकमासोपजने पञ्चमनिवृत्त्यर्थम् । किञ्च बहुवचनस्य त्रिष्वेवोपपत्तेश्चतुर्थो न गृह्येत तदर्थं च ॥ १ ॥

एकस्यां वा ॥ २ ॥

एकस्यां वाष्टम्यामष्टका भवति । तत्रापस्तम्बः— 'या माघ्याः पौर्णमास्या उपरिष्टाद् व्यष्टका तस्यामष्टमी ज्येष्ठया संपद्यते तामेकाष्टकेत्याचक्षत' इति । व्यष्टकापरपक्षः ॥ २ ॥

पूर्वेद्युः पितृभ्यो दद्यात् ॥ ३ ॥

पूर्वेद्युः पूर्वस्मिन्नहनि सप्तम्यां पितृभ्यः पितृपितामहप्रपितामहेभ्यो दद्यात् ॥ ३ ॥

चतुर्थः खण्डः] अनाविलो॑पेतम् । ११३

चतुर्थः खण्डः] अनाविलो॑पेतम् । ११३

ओदनं कृसरं पायसं चतुःशरावस्य वापूपान् उदीरतामवर उत्परास इत्यष्टाभिर्हुत्वा यावतीभिर्वा कामयीत ॥ ४ ॥

तिलौदनं कृसरं¹ पायसं पयसि शृत²मेतेषां त्रयाणां समुच्चयः। तैः सहापूपानां विकल्पः। चतुर्णां शरावाणां समूहः चतुःशरावम्। तत्परिमितैस्तण्डुलैः कृता अपूपाः चतुःशरावस्यापूपाः। एतानि द्रव्याणि समवदाय उदीरतामित्यष्टाभिरृग्भिर्जुहोति³। यावत्योऽभिप्रेता ऊर्ध्वमप्यष्टाभ्यस्तावतीभिर्हुत्वा⁴ पितृभ्यो दद्यादिति पूर्वेण संबन्धः। पूर्वेद्युरेतानि द्रव्याण्येताभिर्हुत्वा पितृभ्यो दद्यादिति। तत्र होमव्यतिरेकेणापि पितृभ्यो दानं चोदितं भवति। किं पुनस्तद्, ब्राह्मणभोजनं पिण्डनिपरणं च ॥ ४ ॥

अथ श्वोभूतेऽष्टका पशुना स्थालीपाकेन च ॥ ५ ॥

पूर्वेद्युः कर्म प्रकृतं, ततः श्वोभूतेऽष्टका भवति पशुना स्थालीपाकेन च। चशब्दो विकल्पार्थः अनेकार्था निपाता भवन्तीति। पशुना स्थालीपाकेन वा। पशुशब्देन स्त्रीगवी गृह्यते। आह चापस्तम्बः — 'श्वोभूते दर्भेण गामुपाकरोती'ति। अष्टमीष्वष्टकेत्येव सिद्धे श्वोभूत⁵ इति वचनं नियमार्थम्। कथं श्वोभूत एवाष्टका स्यादिति। तेनाष्टम्यामसंभवे लोप एवाष्टकायाः। एतदेव ज्ञापकमन्येषां नियतकालानां


१. 'रं पयसि संस्कृतं पायसं ते' ख. पाठः. २. 'संस्कृत' घ. पाठः. ३. 'भिर्जु', ४. 'त्वा किं पितृभ्यो ददाति पू' ग. पाठः. ५. 'तेव' ख. ग. पाठः.

११४ आश्वलायनगृह्यसूत्रम् [द्वितीयोऽध्यायः

कारणवशादुत्कर्षेऽप्यलोपो भवतीति। तेन पार्वणमुत्कृष्टमन्य- स्मात् पर्वणः कर्तव्यम्। विधिकृन्मुखं तु भवति शास्त्रान्त- रवशात् ॥ ५ ॥

अप्यनडुहो यवसमाहरेत् ॥ ६ ॥

ग्रासमुष्टिर्यवसम् । अपीत्यल्पत्वे,^१ एतावदपि तावत् कुर्यादिति ॥ ६ ॥

अग्निना वा कक्षमुपोषेत् ॥ ७ ॥

कक्षो गुल्मः। उपोषणं दाहः ॥ ७ ॥

एषा मेऽष्टकेति^२ ॥ ८ ॥

— इति चौनयोः कल्पयोर्ब्रूयात् ॥ ८ ॥

न त्वेवानष्टकः स्यात् ॥ ९ ॥

अष्टकाकाले तूष्णीं न स्थातव्यं सर्वथा किञ्चित् कर्तव्यमित्युक्तं भवति। एते चत्वारः कल्पा यथापूर्वं गरी- यांसः ॥ ९ ॥

तां हैके वैश्वदेवीं ब्रुवते ॥ १० ॥

हशब्दो वाक्यालङ्कारे। तामष्टकामेके आचार्याः वैश्व- देवीं ब्रुवते विश्वे देवा देवतेति। होममन्त्रेषु बहुँ^४देवतासं- कीर्तनात् ॥ १० ॥

आग्नेयीमेके ॥ ११ ॥

अग्ने नयेति दर्शनात्। अस्मिन् पक्षे देवनान्तरसंकी- र्तनं गुणभावेन । एवमुत्तरत्रापि ॥ ११ ॥


१. 'पिशब्दोऽनुकल्पतां द्योतयति । ए', २. 'का । इ',
३. 'वचनमन', ४. 'ह्दीनां देवतानां सं' ग. पाठः.

चतुर्थः खण्डः] अनाविलेापेतम् । ११५

चतुर्थः खण्डः] अनाविलेापेतम् । ११५

सौर्यामिके ॥ १२ ॥

'ग्रीष्मो हेमन्त' इति मन्त्रे 'अधिपतिः प्राणेद' इति सूर्यस्याभिधानं मन्यन्ते ॥ १२ ॥

नक्षत्रदेवतामेके ॥ १३ ॥

अत्र शाखान्तरं मृग्यम् ॥ १३ ॥

रात्रिदेवतामेके ॥ १४ ॥

शाखान्तरेषु 'यां जनाः प्रतिनन्दन्ती'त्यष्टकाहोम उक्तः, तदभिप्रायमेतत् ॥ १४ ॥

ऋतुदेवतामेके ॥ १५ ॥

'ग्रीष्मो हेमन्त'² इति दर्शनात् ॥ १५ ॥

पितृदेवतामेके ॥ १६ ॥

'वह वपां जातवेदः पितृभ्य' इति दर्शनात् ॥ १६ ॥

प्राजापत्यामेके ॥ १७ ॥

'प्रजापतिर्मयि परमेष्ठी' 'प्रजापते न त्वदि'ति दर्शनात् । तत्र पितृदेवतेति निर्णयः । स्मर्यते हि 'अष्टका पितृदेवत्ये' इति । प्रसिद्धिरप्येवमेव । तेन प्राचीनावीतमेव भवति सर्वत्र ॥ १७ ॥

पशुकल्पेन पशुं संज्ञप्य प्रोक्षणोपाकरणवर्जं वपामुत्खिद्य³ जुहुयात् वह वपां जातवेदः पितृभ्यो यत्रैनान्वेत्थ निहितान् पराके मेदसः कुल्या उपैनान् स्रवन्तु सत्या एतामाशिषः सन्तु सर्वाः स्वाहेति ॥ १८ ॥


१. 'ण इ' क. पाठः. २. 'त्यादिद' ख. पाठः. ३. 'द्य उत्कृत्य जु' क. पाठः.

CC-0. Agamnigam Digital Presevation Foundation, Chandigarh

११६ आश्वलायनगृह्यसूत्रम् [द्वितीयोऽध्यायः

‘अथ पशुकल्प’ इत्यत्रोक्तेन पशुं संज्ञप्य मारयित्वा प्रोक्षणोपाकरणवर्जं प्रोक्षणमुपाकरणं चेति द्वे एते कर्मणी वर्जयित्वा वपामुत्खिद्य जुहुयात् वह वपामिति मन्त्रेण । प- शुचोदनयैव सिद्धे पशुकल्पेनेति वचनं पशुकल्पस्यैव प्रोक्ष- णस्य प्रतिषेधो यथा स्यात् स्थालीपाकधर्मस्य पार्व्वणेप्राप्तस्य प्रतिषेधो मा भूदिति । तेन पशुपक्षेऽपि तदङ्गभूते स्थालीपाके प्रोक्षणं भवत्येव । वपामुत्खिद्येति वचनं सर्वेष्वपि देवता- विकल्पेषु वह वपामित्यनेन मन्त्रेण होमो यथा स्यादिति, यदुत्खिद्य जुहुयात् तदनेन मन्त्रणेति, अन्यथा पितृदेवत्या- यामष्टकायां न स्यात् पितृलिङ्गत्वान् । येषां तु पितृदेवत्यै- वाष्टकेति निर्णयः तेषां प्राप्तानुवाद एवायम् ॥ १८ ॥

अथावदानानां स्थालीपाकस्य च अग्ने नय सु- पथा राये अस्मानिति द्वे । ग्रीष्मो हेमन्त ऋतवः शिवा नो वर्षाः शिवाभया शरन्नः । संवत्सरोऽधिपतिः प्राणदो नोऽहोरात्रे कृणुतां दीर्घमायुः स्वाहा । शान्ता पृथिवी शिवमन्तरिक्षं द्यौर्नो देव्यभयं कृणोतु । शिवा दिशः प्रदिश उद्दिशो न आपो विद्युतं परिपान्तु वि- श्वतः स्वाहा । आपो मरीचीः प्रवहन्तु नो धियो धाता समुद्रोऽपँहन्तु पापं भूतं भविष्यदभयं विश्वमस्तु मे ब्रह्माभिगुप्तः स्वाराक्षाणि स्वाहा । विश्व आदित्या वस-


१. ‘कस्य’ ग. पाठः. २. ‘णतः प्रा’, ३. ‘द्यव’ ग. घ. पाठः.
४. ‘हवन्तु’ ख. पाठः.

चतुर्थः खण्डः] अनाविलेापेतम् । ११७

चतुर्थः खण्डः] अनाविलेापेतम् । ११७

विश्वे देवा रुद्रा गोप्तारो मरुतः सदन्तु । ऊर्जं प्रजाम- मृतं पिबमानः प्रजापतिर्मयि परमेष्ठी दधातु स्वाहा । प्रजापते न त्वदेतान्यन्य इति ॥ १९ ॥

जुहुयादिति वर्तते । द्वितीयार्थे षष्ठी । तान्येकादश पशोरवदानानि स्थालीपाकं च जुहुयाद् अग्ने नयेत्यादिभिः सप्तभिर्मन्त्रैः। द्विविधः स्थालीपाकः पशुपक्षे पश्वङ्गभूतः पशु- कल्पेऽभिहितः। इह च स्वतन्त्रः पशोः प्रत्याम्नायः। तयो- रुभयोरप्येते होममन्त्राः ॥ १९ ॥

सौविष्टकृत्यष्टमी ॥ २० ॥

स्विष्टकृत आहुतिरष्टमी भवति । तासामाहुतीनां तत्र सौविष्टकृती न विधेया प्राप्तत्वात्, संख्यातैश्चाष्टमी भवेति । तस्मादनर्थको योगः । नानर्थकः, पशुपक्षेऽङ्गभूतो यः स्था- लीपाकः तस्यावदानैः सह वा होमो भवति पृथग्वेति पुर- स्तादुक्तम् । तत्र पृथग्द्धोमप्रतिषेधार्थमिदम् । यदि पृथ- ग्धोमः स्यात् सौविष्टकृत्यष्टमी न स्यात् । कथम्, अवदा- नानां सप्ताहुतयः, स्थालीपाकस्य च सप्त । ततः सौविष्ट- कृती पञ्चदशी स्यात् सहपक्षे त्वष्टमी भवति ॥ २० ॥

ब्राह्मणान् भोजयेदित्युक्तम् ॥ २१ ॥

ब्राह्मणान् भोजयेदित्येव सिद्धे इत्युक्तमिति वचनं 'नवावरान् भोजयेदयुजो वे'त्यन्वष्टक्ये विशेषो वक्ष्यते तत्प- रिग्रहार्थम्। वक्ष्यमाणेऽप्युक्तमिति व्यवहार आचार्याणां दृश्य- ते । इह पिण्डनिपरणं न भवति अनुपदेशात् । तथाचापस्तम्बो


१. 'म' ख. पाठः. २. 'सौविष्टकृत्याहु' ग. पाठः. ३. 'ता चाष्ट' ख. पाठः. ४. 'विष्यति', ५. 'क्तव' क. ख. पाठः.

द्वितीयाध्याये चतुर्थः खण्डः ।

११८ आश्वलायनगृह्यसूत्रम् [द्वितीयोऽध्यायः

मध्यमाष्टकायामाह — 'स्विष्टकृतप्रभृति समानमा पिण्डनिधानात्।' 'अन्वष्टकायामेवैके पिण्डनिधानमुपदिशन्ती'ति । अपर आह — इत्युक्तमित्यनेनैव पिण्डनिपरणमपि प्राप्यते इतिशब्दस्याद्यर्थत्वात् । ब्राह्मणभोजनाद्युक्तमित्यर्थः । क्व पुनरुक्तं पार्वणश्राद्ध इति ॥ २१ ॥

इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ द्वितीयाध्याये चतुर्थः खण्डः ।

अथ पञ्चमः खण्डः ।

अपरेद्युरन्वष्टक्यम् ॥ १ ॥

अपरस्मिन्नहनि नवम्यामन्वष्टक्यं नाम कर्म कर्तव्यम् ॥ १ ॥

तस्यैव मांसस्य प्रकल्प्य ॥ २ ॥

योऽसौ पशुरष्टकायामुपाकृतः तस्यैव मांसस्यैकदेशं प्रकल्प्य संस्कृत्य तत् कर्म कर्तव्यम् । ब्राह्मणभोजनार्थ एवात्र मांससंस्कारः होमेऽभावात् । पूर्वेद्युस्तु होमे ब्राह्मणभोजने च मांसं भवति ॥ २ ॥

दक्षिणाप्रवणेऽग्निमुपसमाधाय परिश्रित्योत्तरतः परिश्रितस्य द्वारं कृत्वा समूलं बर्हिस्त्रिरपसलैर्वधून्वन् परिस्तीर्य हवींष्यासादयेदोदनं कृसरं पायसं दधिमन्थान् मधुमन्थांश्च ॥ ३ ॥

दक्षिणदिग्भागेऽवैनतं दक्षिणाप्रवणम् उत्तरोन्नतं स्थण्डिलं तस्मिन्नग्निमुपसमाधाय तं प्रदेशं तिरस्करिण्यादिभिः


१. 'मा' ख. पाठः.
२. 'प्रवणं द' ग. पाठः.

पञ्चमः खण्डः] अनाविलोपेताम् । ११९

परिश्रित्य परिश्रितस्योत्तरपक्षे द्वारं करोति । परिश्रितस्येति वचनं यदा परिश्रितं तदोत्तरतो द्वारं करोतीत्येवमर्थम् । तेन कृताकृतं परिश्रयणम् । द्वारं कृत्वा मूलेन सहाहृतं बर्हिस्त्रिः परिस्तृणाति । अपसलैरपसव्यमित्यर्थः । अवधून्वन् अधस्तात् कम्पयन् परिस्तीर्य तस्मिन् परिस्तरणे हवींष्यासादयत्योदनादीनि । दधिमिश्राः सक्तवो दधिमन्थाः, मधुमिश्राः मधुमन्थाः । 'पिण्डपितृयज्ञकल्पेने'ति वक्ष्यमाणं सर्वत्रैवास्मिन् कर्मणि प्रवर्तते न होममात्रे । ततश्च ओदनादीनामप्यौपासन एव श्रपणं भवति ॥ ३ ॥

पिण्डपितृयज्ञकल्पेन ॥ ४ ॥

इदं कर्म कर्तव्यम् ॥ ४ ॥

हुत्वा मधुमन्थवर्जं पितृभ्यो दद्यात् ॥ ५ ॥

मधुमन्थमेकं वर्जयित्वान्यानि द्रव्याणि हुत्वा पितृभ्यो दद्यात् तान्येव द्रव्याणि सह मधुमन्थेन । अनेन पिण्डनिपरणमुक्तं भवति ॥ ५ ॥

स्त्रीभ्यश्च ॥ ६ ॥

तानि द्रव्याणि पिण्डरूपेण दद्यात् । काभ्यः, पितृसन्निधेस्तत्स्त्रीभ्यः मातृपितामहीप्रपितामहीभ्यः । द्वे लेखे भवतः । ऊहश्च^३ भवति यथा 'शुन्धन्तां मातरः शुन्धन्तां पितामह्यः शुन्धन्तां प्रपितामह्य' इति । तथा 'एतत् ते तत' 'ये च त्वामन्व'त्यत्र द्वयोर्मात्रोर्द्विवद् भवति । बहुषु बहुवत् । एतद्वां यज्ञदारुरुद्रे याश्च युवामत्रानु, एतद्वो यज्ञदारुरुद्राविष्णुदा


१. 'न्ने',
२. 'भ्यः। ऊ' ग. पाठः.
३. 'श्च । शु' ख. पाठः.

CC-0. Agamnigam Digital Presevation Foundation, Chandigarh

१२० आश्वलायनगृह्यसूत्रम् [द्वितीयोऽध्यायः

याश्च युष्मानत्रानु । अनुमन्त्रणं तु पितॄणां मातृणां च सकृ- देव । एकशेषवृत्त्या पितर इत्युभयत्र सम्भवात् । तथा अभ्य- ञ्जने यज्जदारुद्रदे अभ्यञ्जाथाम् । यज्जदारुद्रदाविष्णुदा अभ्य- ङ्ग्ध्वमिति¹ । वासोदाने एतद्वो मातरो वासो मा नोऽतोऽन्य- न्मातरो युङ्ग्ध्वम् । एवं पितामह्यः प्रपितामह्यो युङ्ग्ध्व- मिति । उपस्थानं तु सकृदेव पूर्ववत् । एवमेतत् स्त्रीणां पिण्ड- दानं भवति ॥ ६ ॥

सुरामाचाममित्यधिकम् ॥ ७ ॥ स्त्रीपिण्डेषु सुरामाचामं चाधिकं दद्यात् । सुरा प्र- सिद्धा । आचामः तण्डुलप्रक्षालनाम्बु यवागूरित्यन्ये ॥ ७ ॥

कर्पूष्वेके द्वयोः षट्सु वा ॥ ८ ॥ एके आचार्याः कर्षूनिर्व²पेरणमिच्छन्ति । लेखयोर्ले- खयोः कर्षूरित्य³भिधानम् । कर्ष्वौ च कर्ष्वश्च कर्ष्वः । द्वयोः कर्ष्वोः षट्सु वा कर्षूषु । यदा द्वे तदा पितॄणामेका मातृ- णामपरा । ते चायते भवतः । यदा षट् तदा तिस्रस्तिस्रश्च वृत्ता भवन्ति ॥ ८ ॥

पूर्वासु पितृभ्यो दद्यात् ॥ ९ ॥ पूर्वा च लेखा पूर्वा कर्षूः पूर्वाश्च लेखाः पूर्वाश्च कर्ष्वः । ताँसु पितृभ्यः पिण्डं दद्यात् ॥ ९ ॥


१. 'ति एवमञ्जने अञ्जाथामङ्ग्ध्वमिति । वा' घ. पाठः २. 'व' ग. ख. पाठः. ३. 'त्यवटाभि', ४. 'पूर्वासु' ख. पाठः.

पञ्चमः खण्डः] अनाविलोपेतुम् । १२१

पञ्चमः खण्डः] अनाविलोपेतुम् । १२१

एतेन—

अपरासु स्त्रीभ्यः ॥ १० ॥
इति व्याख्यातम् ॥ १० ॥

एतेन माघ्यावर्षं प्रौष्ठपद्या अपरपक्षे ॥ ११ ॥

एतेनानन्तरोक्तेनान्वष्टक्येन माघ्यावर्षं नाम कर्म$^१$ व्याख्यातम् । तच्च प्रौष्ठपद्याः पौर्णमास्याः परो योऽपरपक्षः तत्र भवति । मघासु वर्षासंयोगान्माघ्यावर्षमिति भवति । तच्च त्रयोदश्याम् । तथा याज्ञवल्क्यः—

“यददाति गयास्थश्च सर्वमानन्त्यमश्नुते ।
तथा वर्षात्रयोदश्यां मघासु च न संशयः ॥”

इति । वर्षर्तौ या त्रयोदशी मघाभिः सह संबध्यते तस्यामित्यर्थः । अपरे सामान्याभिधानात् सर्वस्मिन्नेवापरपक्षे माध्यावर्षमिच्छन्ति ॥ ११ ॥

मासि मासि चैवम् ॥ १२ ॥

यथेदं माघ्यावर्षं प्रौष्ठपद्या अपरपक्षे भवति, एवं मासि मास्यपरपक्षे भवति। मासि मास्यमावास्यायां पार्वणश्राद्धं वक्ष्यति, तेन सहेदं विकल्प्यते एकौर्थत्वाद् । यद्यप्येवं तथापि प्रौष्ठपद्या अपरपक्षे माध्यावर्षमेव नियतम्, अन्यथा पूर्वो योगोऽपार्थकः स्यात् ॥ १२ ॥

पितृभ्योऽयुक्षु प्रतिष्ठापयेत् ॥ १३ ॥

पितृभ्यो यद् दीयते गन्धमाल्यादि तत्सर्वमयुक्संख्यायां प्रतिष्ठापयेत् सकृत् त्रिः पञ्चकृत्व इति दद्यात् ॥१३॥


१. 'र्मं कर्तव्यमाख्या', २. 'धर्ममा' ख. पाठः ३. ककार्य-त्वा' ग. घ. पाठः.

१२२आश्वलायनगृह्यसूत्रम्[द्वितीयोऽध्यायः

नवावरान् भोजयेत् ॥ १४ ॥

अन्वष्टक्यविषयमिति केचित् । सर्वत्राष्टकायामित्यन्ये । अष्टकायां नवावरा ब्राह्मणा भोजयितव्याः । पूर्वं विश्वेभ्यो देवेभ्य एकैकमेकैकस्ये¹त्येवमादिकमत्रे² न भवति तस्य पार्वणादिविषयत्वात्³ अतत्प्रकृतित्वाच्चाष्टकायाः । पिण्डपितृयज्ञोऽह्य⁴ष्टकायाः प्रकृतिः । स्वधाग्रहणादिकमपि नास्ति । केवलं नवावरा भोजयितव्या इति केचित् । अन्ये तु सर्वमनुतिष्ठन्ति ॥ १४ ॥

अयुजो वा ॥ १५ ॥

भोजयेदित्येव । पञ्च सप्तेति शक्त्यपेक्षो विकल्पः । बहुवचननिर्देशादेकस्याप्रसङ्गः ॥ १५ ॥

युग्मान् वृद्धिपूर्तेषु ॥ १६ ॥

आभ्युदयिकेषु श्राद्धेषु युग्मान् भोजयेत् । पार्वणेन सहाभ्युदयश्राद्धं वक्ष्यते । तत्र युग्मनियमार्थमिदम् । तेनैकैकमेकैकस्येत्यादिकल्पान्तरमाभ्युदयिकेषु न भवति । केषु पुनः कर्मस्वभ्युदयश्राद्धं भवति । येष्वपरेद्युर्देवेज्या भवति, ‘तस्मात्पूर्वेद्युः पितृभ्यः क्रियते उत्तरमहर्देवान् यजन्त’ इत्येतच्छ्रुतिमूलत्वात् ॥ १६ ॥

अयुग्मानितरेषु ॥ १७ ॥

उक्तेभ्यो येऽन्ये तेष्वयुग्मान् भोजयेत् । एकोद्दिष्टविषयमित्येतदुपदेशः । तेन तत्र द्वौ द्वाविति वक्ष्यमाणः कल्पो न भवति ॥ १७ ॥


१. 'कस्ये', २. 'त्र भ' ग. पाठः. ३. 'त् त' ग. घ. पाठः.
४. 'ध्य' ख. पाठः.

षष्ठः खण्डः] अनाविलोपेताम् । १२३

षष्ठः खण्डः] अनाविलोपेताम् । १२३

प्रदक्षिणमुपचारः ॥ १८ ॥

वृद्धिपूर्तेष्विति संबध्यते । तत्र प्रदक्षिणमुपचारः स्यात् । उपचारक्रिया अन्यत्राप्रदक्षिणम् । परिस्तरणाद्युदाहरणम् ॥ १८ ॥

यवैस्तिलार्थः ॥ १९ ॥

यच्छ्राद्धेषु तिलकृत्यं, तदाभ्युदयिकेषु यवैः कर्तव्यम् । आपस्तम्बश्च— 'अवकाशेषु तिलान् विकिरति पिण्डांश्च तिलमिश्रान् निवृणाति । मासि श्राद्धे तिलानां द्रोणं द्रोणं येनोपायेन शक्नुयात् तेनोपयोजयेत्' इति । तत्र सर्वत्र यवा भवन्ति । स्वधाग्रहणे च तिलोऽसि सोमदेवत्य इत्यत्र यवोऽसि सोमदेवत्य इत्यूहेन यवप्रक्षेपः ॥ १९ ॥

इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ द्वितीयाध्याये पञ्चमः खण्डः ।


अथ षष्ठः खण्डः ।

रथमारोक्ष्यन्नाना पाणिभ्यां चक्रे अभिमृशेदहं ते पूर्व पादावारभे¹ बृहद्रथन्तरे ते चक्रे ॥ १ ॥

अत्रेतिशब्दोऽध्याहार्यः² । नवरथे विशेषं वक्ष्यति । तद्व्यतिरिक्तं क्रीतं लब्धं पूर्वकृतं वा रथमारोक्ष्यन् आरोढुमिच्छन् पाणिभ्यां चक्रे नाना पृथगभिमृशेद् अहं ते इति मन्त्रेण । नानेत्युभाभ्यां³ पाणिभ्यामेकस्याभिमर्शनं मा भूद् युगपदभिमर्शनं यथा स्यादित्येवमर्थं नानाभूताभ्यां पाणिभ्यामभि-


१. 'भे वृ' ख. ग. ङ. पाठः.
२. 'इतिशब्दाध्याहारेण मन्त्रसमाप्तिः ।',
३. 'नानाग्रहणमुभा' ग. घ. पाठः.

१२४ आश्वलायनगृह्यसूत्रम् [ द्वितीयोऽध्यायः

मृशेत् न संहताभ्यामिति । रथमारुह्य यावद्दूरं गच्छति तावत् सकृदेवेदं कर्म भवति, तदर्थत्वादारोहणस्य । मध्ये त्वारोह- णमानुषङ्गिकम् ॥ १ ॥

वामदेव्यमक्ष इत्यक्षाधिष्ठाने ॥ २ ॥

नाभौ वामदेव्यमक्ष इत्यभिमृशेन्नाना पाणिभ्याम् ॥

दक्षिणपूर्वाभ्यामारोहेद् वायोष्ट्वा वीर्येणारोहामी- न्द्रस्यौजसाधिपत्येनेति ॥ ३ ॥

दक्षिणः पूर्वः ययोस्ताभ्यां दक्षिणपूर्वाभ्याम् । पादा- भ्यामित्यनुक्तमपि गम्यते तत्कर्मत्वाद्वारोहणस्य । एवंभूताभ्यां पादाभ्यामारोहेद् रथं वायोष्ट्वेति मन्त्रेण ॥ ३ ॥

रश्मीन् संमृशेदरश्मिकान् वा दण्डेन ब्रह्मणो वस्तेजसा संगृह्णामि सत्येन वस्तेजसा संगृह्णामीति ॥ ४ ॥

रश्मयोऽश्वादीनां प्रग्रहाः तान् संमृशेद् ब्रह्मणो व इति मन्त्रेण । ये पुनररश्मयोऽश्वादयः तान् दण्डेन संमृशेद् वा तेनैव मन्त्रेण । बहुवचननिर्देशाद् बहुयुगो रथोऽभिप्रेतः । यद्य- पि तस्य चक्राणि चत्वारि, तथापि चक्रे इति द्विवचनयोगा- न्मुख्ययोरेवाभिमर्शनम् ॥ ४ ॥

अभिप्रवर्तमानेषु जपेत् सहस्रसनिं वाजमभिव- र्तस्व रथ देव प्रवह वनस्पते वीड्वङ्गो हि भूया इति ॥ ५ ॥

यदा चोदिता अश्वादय इष्टां दिशमभिवर्तन्ते गच्छ- न्ति तदा सहस्रसनिमित्येतं मन्त्रं प्रवहान्तं जपेत्, वनस्पते


१. 'ग्योऽत्र र' ग. पाठः.

षष्ठः खण्डः] अनाविलोपेसम् । १२५

षष्ठः खण्डः] अनाविलोपेसम् । १२५

वीड्वङ्गो हि भूया इत्येतामृचं च ॥ ५ ॥

एतयान्यान्यपि वानस्पत्यानि ॥ ६ ॥

रथसंनिधानादन्यान्यपि तज्जातीयानि वानस्पत्यानि शकटादीन्येतयाभिमृशेत् ॥ ६ ॥

स्थिरौ गावौ भवतां वीळु रक्ष इति रथाङ्गमभिमृशेत्¹ ॥ ७ ॥

स्थिरौ गावावित्येतस्यामृचि यद्यद् रथाङ्गं दृष्टं तत्तदभिमृशेत् तेन तेन ऋगंशेन² ॥ ७ ॥

सुत्रामाणं पृथिवीं द्यामनेहसमिति नावम् ॥ ८ ॥

आरोहेदिति व्यवहितमपि संबध्यते ³मन्त्रलिङ्गात्, नाभिमृशेत् । नाव आरोहणे प्राप्तेऽनयर्चाऽरोहेत् ॥ ८ ॥

नवरथेन यशस्विनं वृक्षं ह्रदं वाऽविदासिनं प्रदक्षिणं कृत्वा फलवतीः शाखा आहरेत् ॥ ९ ॥

नवरथे त्वयं विशेषः। पूर्ववदारुह्य तेन यशस्विनं प्रसिद्धं वृक्षं ह्रदं वाऽविदासिनमशोष्यं प्रदक्षिणं कृत्वा फलवतीः शाखा आहरेत् ॥ ९ ॥

अन्यद्वा कौटुम्बम् ॥ १० ॥

कौटुम्बं कुटुम्बस्योपकारकमन्यद् द्रव्यं वाहरेत् इति रथारोहणम् ॥ १० ॥


१ 'तृ ते' ख. पाठः.
२. 'ते' ग. पाठः.
३. 'तत्प्रधानस्त्वान्ना' घ. पाठः.

१३६आश्वलायनगृह्यसूत्रम्[द्वितीयोऽध्यायः

संसदमुपयायात् ॥ ११ ॥

संसदिति व्यवहारस्थानमुच्यते । ताम् उपयायाद्यदि व्यवहारार्थी स्यात् । वक्ष्यमाणविवक्षया प्राप्तानुवादोऽयम् ॥

अस्माकमुत्तमं कृधीत्यादित्यमीक्षमाणो जपित्वावरोहेत् ॥ १२ ॥

संसदं प्रपद्येतेत्यर्थः । अवपूर्वो रुहिरस्मिन्नर्थेऽन्यत्रापि दृष्टः । तद् यथा — "सदासुगः पितुर्मा यदस्तु पन्था इति पन्थानमवरोहे"ति ॥ १२ ॥

ऋषभं मा समानानामित्यभिक्रामन् ॥ १३ ॥

यदा प्रत्यर्थिनमभिक्रामति, तदा ऋषभं मेति जपेत् जपित्वेति प्रकृतत्वात् ॥ १३ ॥

वयमद्येन्द्रस्य प्रेष्ठा इत्यस्तं यात्यादित्ये^२ ॥ १४ ॥

आदित्ये अस्तं याति सति गच्छति सति वयमद्येन्द्रस्येत्येतामृचं जपेत् ॥ १४ ॥

तद्बो दिवो दुहितरो विभातीरिति व्युष्टायाम् ॥ १५ ॥

व्युष्टायां रात्रौ उषाकाले तद्बो दिव इति जपेत् । आ व्यवहारसमाप्तेरेते जपाः प्रत्यहं भवन्ति ॥ १५ ॥

इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ द्वितीयाध्याये षष्ठः खण्डः ।


अथ सप्तमः खण्डः ।

अथातो वास्तुपरीक्षा ॥ १ ॥

अथशब्दोऽधिकारार्थः । अतःशब्दो हेत्वर्थः । यस्मात्


१. 'त् एतल्लभ्यते ॥' घ पाठः.
२. 'त्ये ॥ ञ' ख. ग. पाठः.

सप्तमः खण्डः] अनाविलोपेताम् । १९७

सप्तमः खण्डः] अनाविलोपेताम् । १९७

तत्र तत्र निमित्ते समृद्धिव्यृद्धी भवतः, अतो वास्तुपरीक्षा वर्तिष्यते । वास्त्विति गृहमुच्यते । तस्योत्तरत्र लक्षणानि वक्ष्यन्ते । सैव परीक्षा ॥ १ ॥

अनूषरमविवदिष्णुभूम ॥ २ ॥

ऊषा यत्र सन्ति तदूषरं ततोऽन्यदनूषरम् । विवदनशीलं विवदिष्णु ततोऽन्यदविवदिष्णु । भूमशब्दो भूमिपर्यायः । ‘यवं न वृष्टिर्व्युनत्ति भूम’ ‘वतेव श्मश्रु वपसि प्रभूमे’ति वत् । अविवदिष्णु भूम यत्र तदविवदिष्णुभूम । तद्वास्तु सर्वसमृद्धमिति वक्ष्यमाणेन संबन्धः ॥ २ ॥

ओषधिवनस्पतिवत् ॥ ३ ॥

ओषधयश्च वनस्पतयश्च यत्र भवन्ति तदोषधिवनस्पतिवत् । ‘छन्दसीर’ इति वत्वं ‘छन्दोवत् सूत्राणि भवन्ती’ति ॥ ३ ॥

यस्मिन् कुशवीरणं प्रभूतम् ॥ ४ ॥

कुशाश्च वीरणाश्च कुशवीरणेम् । तृणद्वन्द्वत्वादेकवद्भावः । वीरणा अपि तृणविशेषाः, शरासः कुशरास इति मन्त्रे दर्शनात् । तद् यस्मिन् देशे प्रभूतं तद्वास्तु समृद्धम् ॥ ४ ॥

कण्टकिक्षीरिणस्तु समूलान् परिखायोद्वासयेत् ॥

कण्टकिनः खदिरादयः क्षीरिण उदुम्बरादयः तान् समूलान् मूलैः सहितान् परिखायोत्पाट्योद्वासयेत् । कण्टकिक्षीरिण इति नायं कर्मधारयः पृथङ्मत्वर्थीयनिर्देशात् । अन्यथा द्वन्द्वादेव मत्वर्थीययोगः कृतः स्यात् ॥ ५ ॥


१. 'णम् । द्वन्द्व' क. ग. पाठः.

१२८आश्वलायनगृह्यसूत्रम्[द्वितीयोऽध्यायः

अपामार्गः शाकस्तिल्वकः परिव्याध इति चैतानि ॥ ६ ॥

अपामार्गो वीरुद्विशेषः । शाकादयो वृक्षविशेषाः । अपामार्गादीनां पुंलिङ्गत्वाद् एतानीति वक्तव्ये नपुंसकनिर्देशाद् गम्यते अन्यान्यप्येवंजातीयकानि समूलानि परिखायोच्छासयेदिति ॥ ६ ॥

यत्र सर्वत्रापो मध्यं समेत्य प्रदक्षिणं शयनीयं परीत्य प्राच्यः स्यन्देरन्नप्रपतत्यः ॥ ७ ॥

यस्मिन् देशे आपो मध्यं समायन्ति समागच्छन्ति समेत्य च शयनीयदेशं प्रदक्षिणं परियन्ति परीत्य च प्राच्यः स्यन्देरन् प्राङ्मुखा गच्छेयुः अप्रपतत्यः नुमभावश्छान्दसः । एतदुक्तं भवति मध्यतो निम्नं प्राक्प्रवणं शयनस्थानं प्राच्यां दिशि गृहिण इति ॥ ७ ॥

तत् सर्वसमृद्धम् ॥ ८ ॥

तदेतदुक्तलक्षणं वास्तु सर्वसमृद्धं भवति ॥ ८ ॥

समवस्रवे भक्तशरणं कारयेत् ॥ ९ ॥

येन पथा आपः समवस्रवन्ति तस्मिन् समवस्रवे । प्राच्यां दिशीत्युक्तं भवति । तत्र भक्तशरणं महानसं कारयेत् ॥

बह्वन्नं ह भवति ॥ १० ॥

एवं कृतं भक्तगृहं बह्वन्नं भवति । हशब्दोऽभिमतत्वद्योतनार्थः ॥ १० ॥

दक्षिणाप्रवणे सभां मापयेत् साधूता ह भवति ॥

दक्षिणाप्रवणे देशे सभा मापयितव्या । सभेत्यास्थान-

अष्टमः खण्डः] अनाविलोपेताम् । १२९

अष्टमः खण्डः] अनाविलोपेताम् । १२९

मुच्यते । एवं कृता सा सभा अद्यूता भवति । हशब्दः प्रशंसायाम् ॥ ११ ॥

एवं परमतेन प्रशस्य स्वमतेन निन्दति —

युवानस्तस्यां कितवाः कलहिनः प्रमायुका भवन्ति ॥ १२ ॥

कितवा द्यूतपराः अद्यूता ह भवतीत्युक्तत्वात् । प्रमायुका मर्त्तारः ॥ १२ ॥

यत्र सर्वत आपः प्रस्यन्देरन् सा स्वस्त्ययन्यद्यूता च ॥ १३ ॥

एवंविधे देशे कृता सभा स्वस्तिप्राप्तिनिमित्तभूता अद्यूता च भवति ॥ १३ ॥

इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ द्वितीयाध्याये सप्तमः खण्डः ।


अथाष्टमः खण्डः ।

अथैतैर्वास्तु परीक्षेत ॥ १ ॥

अथ एतैर्वक्ष्यमाणलक्षणैर्वास्तु परीक्षेत । पृथगधिकारः प्राधान्यख्यापनार्थः । तेनैतत्संभवे नान्यदादर्तव्यम् ॥

जानुमात्रं कतं खात्वा तैरेव पांसुभिः प्रतिपूरयेत् ॥ २ ॥

जानुप्रमाणं कतमवटं खात्वा ये उद्धताः पांसवस्तैरेव प्रतिपूरयेत् कतम् ॥ २ ॥

१३०आश्वलायनगृह्यसूत्रम्[द्वितीयोऽध्यायः

ततः किं—

अधिके प्रशस्तम् ॥ ३ ॥

कर्तपूरणादधिके तस्मिन् पांसुराशौ प्रशस्तं भद्रं भवति ॥ ३ ॥

समे वार्तम् ॥ ४ ॥

यदा पांसुराशिर्र्वटेन समो भवति न न्यूनो नातिरिक्तः तदा वार्तं निर्दोषं भवति नानर्थावहं न चाभ्युदयावहम् ॥ ४ ॥

न्यूने गर्हितम्¹ ॥ ५ ॥

स्पष्टम् ॥ ५ ॥

अथान्या परीक्षा—

अस्तमितेऽपां पूर्णं परिवासयेत् ॥ ६ ॥

जानुमात्रं कर्तं खात्वेति वर्तते । अस्तमित आदित्ये तमद्भिः पूरयेत् । तमपां पूर्णं परिवासयेद् ओदयात् ॥ ६ ॥

ततः किं—

सोदके प्रशस्तमार्द्रे वार्तं शुष्के गर्हितम् ॥ ७ ॥

सोदकं किञ्चिच्छिष्टोदकम् । अन्यत् स्पष्टम् ॥ ७ ॥

श्वेतं मधुरास्वादं सिकतोत्करं ब्राह्मणस्य ॥ ८ ॥

मधुरास्वादं मधुररसम् । सिकतोत्करं सिकताबहुलम् । एवंभूतं वास्तु ब्राह्मणस्य शुभम् ॥ ८ ॥

लोहितं क्षत्रियस्य ॥ ९ ॥

मधुरास्वादं सिकतोत्करमिति वर्तते ॥ ९ ॥


१. 'म् न्यूने पांसुराशौ गर्हितं भवति । अ' घ. पाठः