आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
द्वितीयः खण्डः] अनाविलोपेतुम् । ७
द्वितीयः खण्डः] अनाविलोपेतुम् । ७
प्रातःशब्दश्चाहः । इह तु कृत्स्नां रात्रिं कृत्स्नं चाहः प्रतिपादयतः । सिद्धस्य भोजनार्थं पक्वस्य । तेनाशक्त्यादिना भोजनलोपे वैश्वदेवमेतन्न भवति, भोजनीयस्यान्नस्य संस्कारोऽयमिति कृत्वा । केचित्तु पुरुषसंस्कार उभयसंस्कारो वेति वदन्तो भोजनलोपेऽपि कुर्वन्ति । हविष्यस्येति वचनं व्यञ्जनानां मा भूदिति । यदा त्वहविष्यमेव कोद्रवादि भोज्यत्वेनोपस्थितं भवति, तदा आपस्तम्बेनोक्तं द्रष्टव्यम्—“अहविष्यस्य होमः उदीचीनमुष्णं भस्मापोह्य तस्मिञ् जुहुयात् तद्धुतमहुतं चे”ति । अग्निहोत्रदेवताभ्यः, नायं मन्त्रः अग्निहोत्रदेवताभ्यः स्वाहेति होम इति, किं तर्हि, विधिः, अग्निहोत्रे या देवतास्ताभ्यो होमः कर्तव्य इति । तत्र यद्यप्यग्निहोत्रशब्दो द्रव्ये कर्मणि च वर्तते, तथापि न द्रव्यदेवता गृह्यन्ते “रौद्रङ्गविसद्” इत्यादयः षोडश, तासामभोक्तृत्वात् । याः पुनः कर्मदेवता “अग्निर्गृहपतिरि”त्याद्याः, ता अपि न गृह्यन्ते, अनित्यत्वात् । नहि ताः श्रुतावुपदिश्यन्ते । तथाच “तस्य वा एतस्याग्निहोत्रस्य सप्त च शतानि विंशतिश्चे”त्यत्र ता न गण्यन्ते । तस्मादग्निहोत्रे या देवतास्ताभ्यो होमः कर्तव्य इति । तस्माद् अग्नये स्वाहा प्रजापतये स्वाहा इति सायम् । सूर्याय स्वाहा प्रजापतये स्वाहा इति (होम?प्रातः) । सोमाय वनस्पतये । वनस्पतिः प्रधानभूतोऽपि दृष्टः पशुदेवताभ्यो वनस्पतिमनन्तरमिति । गुणभूतश्च सोमो वनस्पतिः सविता सत्यप्रसव इति । इह तु गुणभूत इत्युपदेशः । तस्मादेकाहुतिर्ब्रह्मणे स्वाहेति । स्वाहाकारान्तैर्मन्त्रैरित्येव सिद्धे स्वा-
८ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः
हेति वचनमुत्तरार्थम् । स्वाहेत्यथ बलिहरणमिति अहो- मैत्वाद्धि न प्राप्नोति ॥ १ ॥
अथ बलिहरणमेताभ्यश्चैव देवताभ्योऽद्भ्य ओ- षधिवनस्पतिभ्यो गृहाय गृहदेवताभ्यो वास्तुदेवताभ्य इन्द्राय इन्द्रपुरुषेभ्यो यमाय यमपुरुषेभ्यो वरुणाय वरुणपुरुषेभ्यः सोमाय सोमपुरुषेभ्य इति प्रतिदिशं ब्रह्मणे ब्रह्मपुरुषेभ्य इति मध्ये विश्वेभ्यो देवेभ्यः स- र्वेभ्यो भूतेभ्यो दिवाचारिभ्य इति दिवा । नक्तंचारि- भ्य इति नक्तम् । रक्षोभ्य इत्युत्तरतः ॥ २ ॥
एताभ्यश्चैवेति । याः पूर्वोक्ता देवताः ताभ्यश्च याश्च वक्ष्यन्ते अबाद्यो वास्तुदेवतान्तास्ताभ्यश्च पञ्चदशभ्यः । प्रागपवर्गम् । एवकारः पौनर्वचनिकः, याभ्यो होमस्ताभ्य एव बलिरपि । गृहदेवताभ्य इति नायं विधायकः, गृहे या देवता वास्तुविद्याप्रसिद्धाः ताभ्यो बलिरिति, वास्तुदेवताभ्य इति पृथग्वचनात् । तस्मान्मन्त्रोऽयम् । प्रतिदिशमिति प्रधान- दिशां चतसृणां ग्रहणम्, इन्द्रादीनां चतुर्णामुपदेशात् । पुरु- षास्तु तेन तेन समानदिशः । कस्य पुनः प्रतिदिशम् । पूर्वकृ- तानां बलीनामिति केचित् । यत्रकुत्रचिदित्यपरे । गृहस्यै प्रतिदिशमित्यन्ये । मध्य इति, दिग्देवतानां गृहस्य वा । वि- श्वेभ्यो देवेभ्य इत्येतदपि मध्य एव । नक्तंचारिभ्य इति नक्तं दिवाचारिभ्य इत्यस्य स्थाने । पूर्वत्र दिवाग्रहणं न कर्तव्यम् इह नक्तं विशेषविधानादेव पूर्वो विधिर्दिवा भविष्यति । तत्
१. 'मस्थत्वा' क. पाठः. २. 'स्येत्यन्ये' ख. पाठः.
द्वितीयः खण्डः] अनाविलोपेताम् । ९
द्वितीयः खण्डः] अनाविलोपेताम् । ९
क्रियते वैश्वदेवं प्रातरारम्भं यथा स्यादिति । उत्तरत इति सर्वेषां बलीनां गृहस्य वा । एतेन दक्षिणेति च व्याख्या- तम् ॥ २ ॥
स्वधा पितृभ्य इति प्राचीनावीती शेषं दक्षिणा निनयेत् ॥ ३ ॥
प्राचीनावीतीत्यनुच्यमाने यथा “दक्षिणस्यां दिशि¹ मासाः पितर” इत्यत्र पित्र्येऽपि प्राचीनावीतित्वं न भवति, तथात्रापि न स्यात् । यथा पूर्वेषु³ बलिष्वर्थसिद्धं निनयनं, तथेहापि सिद्धे निनयेदिति वचनं क्रियान्तरत्वज्ञापनार्थम् । तेन बलिहरणमिदं न भवति । ततश्च स्वाहाकाराभावः । तदत्र यद् अग्नौकरणं स देवयज्ञः । यद् बलिहरणं स भूतयज्ञः । यद् दक्षिणतो निनयनं स पितृयज्ञः । त एते त्रयो- ऽपि सहैव कर्तव्याः । तदर्थमिह शेषग्रहणम् । “अथ बलिह- रणमि”त्यानन्तर्यार्थोऽथशब्दस्यै⁴। ब्रह्मयज्ञमनुष्ययज्ञौ वक्ष्येते । त एते पञ्च महायज्ञाः। कः पुनरस्याग्निः। गृह्याणीत्यधिकाराद् गृह्यः। गृहस्थश्चाधिकारी। तथाचापस्तम्बः— “गृहमेधिनोर्य- दशनीयस्य होमा बलयश्चे”ति। “औपासने पचने वे”ति व्यव- स्थितो विकल्पः— औपासनवत औपासने, विधुरादेः पचन इति। तथौचच्छन्दोगानां गृह्ये— “यस्मिन्नग्नौ पाणिं गृह्णीया- दि”ति प्रकृत्य वैश्वदेवमाम्नातम् । भाष्यकारस्तु “विवाहाग्नेः प्रागस्यारम्भादनियतोऽत्राग्निः⁵, समावृत्तस्य च पृथक्पाकस्य
१. ‘तं न’ ख. ग. घ. पाठः. २. ‘र्वेष’ ग. पाठः. ३. ‘श्च’ क. ख. ग. पाठः. ४. ‘था छ’ ख. ग. पाठः. ५. ‘तोऽग्निः’ ख. पाठः.
C
| १० | आश्वलायनगृह्यसूत्रम् | [प्रथमोऽध्यायः |
|---|
प्रागपि विवाहाद्वैश्वदेवं कर्तव्यमि”त्याह। स्मृतिषु च स्नातक- प्रकरणे पञ्च महायज्ञा विहिताः, न गृहस्थप्रकरणे । पात्रस्य चोविहितत्वात् पाणिना होमा बलयश्चेति । अङ्गिरास्तु— “शालाग्नौ विपचेदन्नं लौकिके वापि नित्यशः । यस्मिन्नेव पचेदन्नं तस्मिन् होमो विधीयते ॥” इति ॥ ३ ॥
इति हरदत्ताचार्यमिश्रकृतायामाश्वलायनगृह्यवृत्तौ प्रथमाध्याये द्वितीयः खण्डः ।
अथ तृतीयः खण्डः ।
अथ खलु यत्र क्वच होष्यन्त्स्यादिषुमात्रावरं सर्वतः स्थण्डिलमुपलिप्योल्लिख्य षड् लेखा उदगायतां पश्चात् प्रागायते नानन्तयोस्तिस्रो मध्ये तदभ्युक्ष्याग्निं प्रतिष्ठाप्यान्वाधाय परिसमूह्य परिस्तीर्य पुरस्ताद्दक्षिणतः पश्चादुत्तरत इत्युदक्संस्थं तूष्णीं पर्युक्षणम् ॥ १ ॥
अथशब्दोऽधिकारार्थः। तेन पूर्वोक्ते वैश्वदेवे वक्ष्यमाणं तन्त्रं न भवति। खलुशब्दो वाक्यालङ्कारे। यत्रक्वचग्रहणस्याकरणे अथ खलु होष्यन्त्स्यादित्यहरहर्होमविधिः प्रसज्येत। करणे त्वन्यत्र विहितस्य होमस्य विशेषो विधीयत इति गम्यते। यत्र होष्यन्त्स्यादित्येव सिद्धे क्वचग्रहणं क्रियते यत्राग्निहोत्रिकं तन्त्रं, तस्याग्निहोत्रेण प्रादुष्करणहोमकालौ व्याख्याताविति तस्मिन्नौपासनेऽपि परिस्तरणादयो होष्यद्धर्मा
१. 'चाप्यवि' क. पाठः.
तृतीयः खण्डः ] अनाविलोपेताम् । ११
तृतीयः खण्डः ] अनाविलोपेताम् । ११
यथा स्युरिति । इषोर्मात्रा अवरमात्रा यस्य तदिषुमात्रावरम् । अवरग्रहणादधिके दोषाभावः । सर्वतः सर्वासु दिक्षु । इषुमात्रावरम् एवंभूतं स्थण्डिलमुपलिप्य तस्य पश्चिमे भागे उद्गायतामेकां लेखामुल्लिखेत् । तस्यान्तयोरुपक्रमोपसंहारयोः प्रागायते द्वे नाना पृथक्तया असंसृष्टे इत्यर्थः । तयोश्च मध्ये प्रागायतास्तिस्र इति षड् लेखा उल्लिखति। षण्णामेवोपदेशेऽपि पुनः षड्ग्रहणं षण्णामुपरि प्रतिष्ठापनमग्नेर्यथा स्यादिति । ततस्तत् स्थण्डिलमभ्युक्षति । उपरि ततोऽग्निं प्रतिष्ठापयति । अन्वाधानं काष्ठैरुपसमिन्धनम् । तच्चोपसमिद्धेऽपि पुनः कर्माङ्गतया कर्तव्यम् । परिसमूहनं सोदकेन पाणिना परितो मार्जनम् । परिस्तरणं दर्भैः। उपदेशक्रमादेव सिद्धे उदक्संस्थवचनं सर्वासु दिक्षूदक्संस्थता यथा स्यादिति । तेन प्राक्प्रतीच्योरपि प्रागग्रैरेव परिस्तरणं भवति । तथाचापस्तम्बः— “प्रागग्रैर्दर्भैरग्निं परिस्तृणाती”ति। तत्र तु कल्पान्तरमप्युक्तं “प्रागुदगग्रैर्वे”ति । पर्युक्षणं परित उदकसेकः । तूष्णींवचनमाग्निहोत्रिके पर्युक्षणे दृष्टो मन्त्रो मा भूदिति । कथं पुनरतत्प्रकृतिके तस्मिंस्तस्य प्रसङ्गः । एतदेव ज्ञापयति तत्र पर्युक्षणे दृष्टो धर्मोऽत्रापि प्रवर्तत इति । तेन पुनःपुनरुदकमादाय त्रिः पर्युक्षणं भवति ॥ १ ॥
पवित्राभ्यामाज्यस्योत्पवनम् ॥ २ ॥
कर्तव्यमिति शेषः ॥ २ ॥
१. 'दधिको दोषावहः । स' ख. पाठः.
२. 'र्भैः परिस्तरणम् उ' क. ग. पाठः.
३. 'द्धेऽप्युद' क. पाठः.
१२ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः
अथ कीलक्षणे पवित्रे कथञ्चोत्पवनं, तदर्थमुत्तरं सूत्रम् —
अप्रच्छिन्नाग्रावनन्तर्गर्भौ प्रादेशमात्रौ कुशौ ना- नान्तयोर्गृहीत्वाऽङ्गुष्ठोपकनिष्ठिकाभ्यामुत्तानाभ्यां पाणि- भ्यां सवितुष्ट्वा प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिरिति प्रागुत्पुनाति सकृन्मन्त्रेण द्विस्तू- ष्णीम् ॥ ३ ॥
प्रशब्दः प्रकर्षवाची। तेन सूक्ष्मच्छिन्नाग्रयोरप्रतिषेधः। ययोरन्तर्गर्भो नास्ति तावनन्तर्गर्भौ । प्रादेशमात्रौ प्रादेशमात्रपरिमितौ एवम्भूतौ कुशौ पवित्रसंज्ञौ । संज्ञाप्रयोजनं “पवित्रे अन्तर्धाय दक्षिणोत्तरौ पाणी सन्धाय पवित्रवन्तावि”त्यादौ । तौ कुशौ अन्तयोः अग्रमूलयोः नाना असंसृष्टे यथा भवतः तथा गृहीत्वा अङ्गुष्ठोपकनिष्ठिकाभ्यामङ्गुलीभ्यां ग्रहणम् । कनिष्ठिकायाः समीपे याऽङ्गुलिः सोपकनिष्ठिका । उत्तानाभ्यां पाणिभ्यामिति नियमः । सवितुष्ट्वेत्यनेन मन्त्रेण प्राक् प्रागपवर्गमुत्पुनाति । “तस्य नित्याः प्राञ्चश्चेष्टा” इत्येव सिद्धे प्राग्वचनं शास्त्रान्तरदृष्टैपुनराहारैनिवृत्त्यर्थम् । एतदेव ज्ञापकं शास्त्रान्तरदृष्टा विधयोऽसति विरोधेऽत्राप्याश्रयितव्या इति। तद्यथा—“पवित्रयोरेव तावच्छिनत्ति न नखेन अङ्गिरनुमृज्ये”ति। तथा पृथक्त्वेनापि समौ दर्भौ भवतः— “समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रावि”ति। तत्र प्रादेशमात्रा-
१. 'शप' ख. घ. पाठः.
२. 'ष्टस्य पु', ३. 'रस्य नि' घ. पाठः.
४. 'त्राश्र', ५. 'धुत्वेना' ख. ग. पाठः.
तृतीयः खण्डः] अनाविलोपेताम् । १३
तृतीयः खण्डः] अनाविलोपेताम् । १३
वित्युक्तेऽपि समाविति वचनं पृथक्त्वार्थम् । तथोत्तरेणाग्निं संस्तीर्णेषु दर्भेषु द्वन्द्वशः पात्रप्रयोगः, प्रोक्षणीसंस्कारः, पात्रप्रोक्षणं, पवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं निरूप्योदीचोऽङ्गारान्निरूह्य तेष्वधिश्रित्य ज्वलतावोद्योत्य द्वे दर्भाग्रे प्रत्यस्य त्रिः पर्यग्नि कृत्वा उदगुद्वास्याङ्गारान् प्रत्यूह्यात्रोक्तमुत्पवनं भवति । “सर्वत्रैव कर्मावृत्तावि”ति परिभाषा त्रिग्रहणे सति भवति । इह तु त्रिग्रहणाभावात् सकृन्मन्त्रेण द्विस्तूष्णीमित्युक्तम् । एवं चेत् त्रिग्रहणमेवास्तु । एवं सिद्धे यदेतदारभ्यते सकृन्मन्त्रेणेति तज्ज्ञापयति सत्यपि त्रिग्रहणे गार्ह्येष्वेषा परिभाषा न भवतीति । तेन “प्रदक्षिणं शिरस्त्रिरुन्दति त्रिस्तेजसा मा समनज्मी”त्यत्र यावत्कर्माभ्यासं मन्त्रावृत्तिः सिद्धा भवति । प्राङुत्पुनातीति प्रसिद्धः पाठः । तत्र कर्तुः प्राङ्मुखत्वं प्राप्नोति । तस्माद्यथोक्त एव पाठः । इह तु द्विरुत्पवनं विधीयते आज्यस्योत्पवनमिति प्रागुत्पुनातीति च । तत्र यः समन्त्रको विधिः तस्य प्रकरणे निवेशः, इतरस्यान्यत्र “तमतिनीय चतुर्गृहीतमाज्यं जुहुयादि”त्यादौ ॥३॥
कृताकृतमाज्यहोमेषु परिस्तरणम् ॥ ४ ॥
येषु होमेषु आज्यमेव हविः तेषु परिस्तरणं कृताकृतं क्रियतां वा मा वा, वैकल्पिकमित्यर्थः ॥ ४ ॥
तथाज्यभागौ पाकयज्ञेषु ॥ ५ ॥
पाकयज्ञग्रहणमाज्यहोमाधिकारनिवृत्त्यर्थम् । सर्वेषु पाकयज्ञेष्वाज्यभागौ कृताकृतावित्यर्थः ॥ ५ ॥
१. 'ध्रुत्वार्थम्' क. ख. ग. पाठः.
१४ आश्वलायनगृह्यसूत्रम् । [प्रथमोऽध्यायः
ब्रह्मा च धन्वन्तरियज्ञशूलगववर्जम् ॥ ६ ॥
योऽयं ब्रह्मा शास्त्रान्तरेषु प्रसिद्धः “ब्रह्माणं दक्षिणतो दर्भेषु निषाद्ये”ति प्राप्तः, सोऽप्यत्र कृताकृतः धन्वन्तरियज्ञं शूलगवं च वर्जयित्वान्येषु पाकयज्ञेषु वैकल्पिकः । तयोस्तु नित्य इत्यर्थः । परिस्तरणादीनां चेच्छातो विकल्पः, अन्यतमं क्रियते अन्यतमं न सर्वाणि वा क्रियन्ते नवेति, न तु सहप्रवृत्तिः सह वा निवृत्तिरिति नियमः, कारणाभावात् ॥ ६ ॥
अमुष्मै स्वाहेति जुहुयात् ॥ ७ ॥
इह तद्देवत्यैर्मन्त्रैश्च होमो दृष्टः “अग्ने नय सुपथा राये अस्मानिति द्वे” इत्यादौ । देवतापदैश्च “सावित्र्यै ब्रह्मणे” इत्यादौ “अथ काम्यानां स्थान” इत्यादौ च देवता उपदिष्टाः, न मन्त्राः । तत्र किं तद्देवत्यैर्मन्त्रैर्होमः उत देवतापदैरिति संशये देवतापदैरिति अनेन विधीयते । अमुष्मा इति देवतापदस्य चतुर्थ्यन्तस्योपलक्षणम् । स्वाहेति परिभाषासिद्धस्यानुवादैः स्वाहाकारान्तैर्मन्त्रैरिति ॥ ७ ॥
अग्निरिन्द्रः प्रजापतिर्विश्वेदेवा ब्रह्मेत्यनादेशे ॥ ८ ॥
यत्र होमश्चोद्यते न मन्त्रः तत्रैताभ्यो देवताभ्यो होमः कर्त्तव्यैः । चौलकर्मोपनयनगोदानविवाहा उदाहरणम् । तत्र हि “नैके काञ्चने”ति पक्षे मन्त्राः प्रतिषिद्धाः । होमश्चोदितः “तेषां पुरस्ताच्चतस्र आज्याहुतीर्जुहुयादि”ति । तत्रैताभ्यो देवताभ्यो होमः कर्तव्य इति ॥ ८ ॥
१. 'द्याः । त' ख. घ. पाठः. २. 'स्य संवा' ख. पाठः.
३. 'दात् स्वा' ग. पाठः. ४. 'व्यः । किमुदाहरणं चौलो .... हाः । त' ग. घ. पाठः.
चतुर्थः खण्डः] अनाविलोपेसम् । १५
चतुर्थः खण्डः] अनाविलोपेसम् । १५
एकबर्हिरिध्माज्यस्विष्टकृतः स्युस्तुल्यकालाः ॥ ९ ॥
पाकयज्ञाः शास्त्रतोऽर्थतो वा आश्वयुजीकर्माग्रयणादयः । तेषु बर्हिरादयस्तन्त्रभूता इत्यर्थः । बर्हिरादिग्रहणमुपलक्षणम् । तेन परिस्तरणादीनामपि सकृदेव क्रिया भवति । देशकालकर्त्रैक्यादेव तन्त्रत्वे सिद्धे समानदेवत्येषु तुल्यकालेषु प्रधानाहुतीनां तन्त्रता मा भूदित्येवमर्थमिदमारभ्यते ॥ ९ ॥
तदङ्गगाथोदाहरणेन स्पष्टयति —
तदेषाभियज्ञगाथा गीयते —
पाकयज्ञान् समासाद्य एकाज्यानेकबर्हिषः ।
एकस्विष्टकृतः कुर्यान्नानापि सति दैवते ॥
इति ॥ १० ॥
नानापि सति दैवते अपिशब्दादेकस्मिन्नपि दैवते आज्यादीनामेव तन्त्रत्वं न प्रधानाहुतीनामिति नानार्थः ॥ १० ॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ प्रथमाध्याये तृतीयः खण्डः ।
अथ चतुर्थः खण्डः ।
उदगयन आपूर्यमाणपक्षे कल्याणे नक्षत्रे चौलकर्मोपनयनगोदानविवाहाः ॥ १ ॥
उदगयनं प्रसिद्धम् । आपूर्यमाणश्चासौ पक्षश्चेत्यापूर्यमाणपक्षः । केन पुनरापूर्यते, शुक्लेन ज्योतिषा । अहरहः यस्मिन् कर्मणि यन्नक्षत्रं ज्योतिःशास्त्रविहितं तत् कल्याणम् । उदग-
१६ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः
यनादिविधानं दक्षिणायनादिप्रतिषेधार्थम् । अहनीति च वक्तव्यं रात्रौ मा भूदिति । समुच्चयश्चोदगयनादीनां न विकल्पः । "तृतीये वर्षे चौलमि"तिवत् सिद्धे कर्मग्रहणं सर्वकर्मणामुदगयनादौ प्रवृत्त्यर्थम् । चौलादिग्रहणं तु "तेषां पुरस्ताच्चतस्र आज्याहुतीरि"त्यत्र चौलादीनामेव ग्रहणं यथा स्यादिति । नैमित्तिकानि तु निमित्तानन्तरमेव कार्याणि यथा "कपोतश्चेदगारमुपहन्यादि"ति¹ । अपर आह कर्मग्रहणं चौलेनैव सम्बध्यते चौलकर्मेति । "तृतीये वर्षे चौलमि"त्यत्र त्वेकदेशग्रहणं द्रष्टव्यं भीमसेनो भीम इतिवत् । तस्माच्चतुर्णांमेव कालनियम इति । व्रतादेशनेषु तु भवति, "एतेन वापनादिपरिदानान्तमि"त्युपनयनातिदेशात् । एवं चौलातिदेशादेव सिद्धे गोदानग्रहणं यत्र गोदानगन्धोऽप्यस्ति² तत्रापि कथमयं कालः स्यादिति । यथा समावर्तने "गोदानिकं कर्म कुर्वीते"ति । समावर्तनग्रहणमेव तु न कृतं लाघवार्थम् ॥ १ ॥
सार्वकालमेके विवाहम् ॥ २ ॥
एके आचार्याः सार्वकालं सर्वस्मिन् काले कर्तव्यं विवाहं मन्यन्ते । "शैशिरौ मासौ परिहाप्योत्तमं च नैदाघम्" इत्यापस्तम्बीयो विशेषः ॥ २ ॥
तेषां पुरस्ताच्चतस्र आज्याहुतीर्जुहुयात् ॥ ३ ॥
१. 'त्यादि । अ' घ. पाठः. २. 'न्धः स्वल्पोऽप्य' क. पाठः.
चतुर्थः खण्डः] अनाविलोपेताम् । १७
चतुर्थः खण्डः] अनाविलोपेताम् । १७
तेषामित्यनन्तरस्यै विवाहस्यैव सम्बन्धो मा भूदिति । ज्ञापकात् सिद्धम् । यदयं “विवाहे चतुर्थीम्”त्युत्तरत्र विवा- हग्रहणं करोति तज्ज्ञापयति इह सर्वेषां सम्बन्ध इति । तर्हि विस्पष्टार्थं तेषांग्रहणम् । चतसृग्रहणमनर्थकं चतसृणा- मेवोपदेशात् । नियमार्थं तु, चतस्र एव तेषामाहुतय इति । तेनाज्यभागौ पक्षेऽपि न भवतः । स्विष्टकृत्तु भवति पुरस्ताद्- ग्रहणात् , पुरस्ताच्चतस्र एवेति नियमात् । यत्र होम उपदि- श्यते न द्रव्यं तत्राज्यमेव प्राप्तं दर्शयति — “आज्यशेषेण वानक्ति हृदये” इति । स्पष्टं चैतत् कल्पान्तरे “जुहोतीति चोद्यमाने सर्पिराज्यं प्रतीयाद्”ति । एवमिहापि सिद्धे आज्य- ग्रहणमाज्यहोमा एव ते कथं स्युरिति । तेन विवाहे लाजेषु सत्स्वपि “कृताकृतमाज्यहोमेषु परिस्तरणम्” इत्येतद् भवति ॥
अग्न आयूंषि पवस इति तिसृभिः प्रजापते न त्वदेतान्यन्य इति च व्याहृतिभिर्वा ॥ ४ ॥
अस्मिञ्छास्त्रे व्याहृतिग्रहणे चतस्र एव गृह्यन्ते परि- भाषितत्वात् । व्याहृतिश्च भूः स्वाहा भुवः स्वाहा सुवः स्वाहा भूर्भुवःसुवः स्वाहेति । तत्र भूः स्वाहेत्यादिषु स्वरूपेण पठ्य- मानेष्वपि व्याहृतिभिश्चेति वचनमेतदर्थमेव कृतम् ॥ ४ ॥
समुच्चयमेके ॥ ५ ॥
एके आचार्याः पूर्वोक्तानामष्टानामाहुतीनां समुच्चयं- मिच्छन्ति ॥ ५ ॥
१. 'स्यैव वि' क. पाठः. २. 'स्य स', ३. 'ते तत्र सर्वदाज्य' ख. पाठः.
D
१८ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः
नैके काञ्चन ॥ ६ ॥
एके त्वाचार्याः काञ्चनाप्याहुतिमेकेषां$^१$ नेच्छन्ति । आहुतीनामासामयं प्रतिषेधः काञ्चनग्रहणात् , न होमप्रतिषेधः। तेनास्मिन् पक्षेऽनादेशाहुतयो भवन्ति ॥ ६ ॥
त्वमर्यमा भवसि यत् कनीनामिति विवाहे चतुर्थीम् ॥
संख्यानिर्देशे यत्र पूर्वोक्तस्योद्धारमिच्छति, करोति तत्र यत्नम् । यथा "तृतीयस्याह्नः स्थाने महाव्रतम्" इति । यत्नाभावे तूत्कर्षो भवति नोद्धारः । यथा "प्रतिप्रस्थाता वाजिने तृतीय" इति । तस्मादिहाप्युत्कर्षः प्राजापत्यायाः, नोद्धारः । पञ्चैता आहुतयः ॥ ७ ॥
कुलमग्रे परीक्षेत ये मातृतः पितृतश्चेति यथोक्तं पुरस्तात् ॥ ८ ॥
सम्पन्नेष्वपि गुणेषु कुलमेव प्रधानमिति प्रदर्शनार्थमग्र इत्युक्तम् । मातृतः पितृतश्च विद्यादिभिर्दशपुरुषशुद्धिः कुलम् । तत् प्रथमं परीक्षेत पश्चाद् गुणान्तरमित्यर्थः ॥ ८ ॥
अथापरे गुणा विधीयन्ते—
बुद्धिमते कन्यां प्रयच्छेत् ॥ ९ ॥
शास्त्राविरुद्धदृष्टादृष्टविषया बुद्धिः ॥ ९ ॥
कन्यागुणानाह—
बुद्धिरूपशीललक्षणसंपन्नामरोगामुपयच्छेत ॥ १० ॥
१. 'ति समाने' ख. पाठः. २. 'मेकां ने' घ. पाठः.
चतुर्थः खण्डः] अनाविलोपेतम् । १९.
चतुर्थः खण्डः] अनाविलोपेतम् । १९.
बुद्धिर्व्याख्याता । रूपं वराय रुचितम् । लक्षणानि सामुद्रिकादिप्रसिद्धानि ॥ १० ॥
दुर्ज्ञेयानि लक्षणानि ॥ ११ ॥
शास्त्राणां बहुत्वात् परस्परविरोधाच्च दुर्ज्ञेयत्वं^१ लक्षणानाम् ॥ ११ ॥
का तर्हि गतिरित्याह—
अष्टौ पिण्डान् कृत्वा ऋतमग्रे प्रथमं जज्ञ ऋते सत्यं प्रतिष्ठितं यदिदं कुमार्यभिजाता तदियमिह प्रतिपद्यतां यत् सत्यं तद् दृश्यतामिति पिण्डानभिमन्त्र्य कुमारीं ब्रूयादेषामेकं गृहाणेति^२ ॥ १२ ॥
वक्ष्यमाणैर्द्रव्यैरष्टौ पिण्डान् कृत्वा 'ऋतमग्र' इत्यनेन मन्त्रेण तान् पिण्डानभिमन्त्र्य वरः कुमारीं ब्रूयाद् एषां पिण्डानां मध्ये एकं गृहाणेति। पुनः पिण्डानिति वचनं कुमार्या अभिमन्त्रणं मा भूत् । सन्निधानाद् द्वितीयानिर्देशान्मन्त्रलिङ्गस्य चाविशेषात् तस्या अपि प्रसङ्गः ॥ १२ ॥
क्षेत्राच्चेदुभयतःसस्याद् गृह्णीयादन्नवत्यस्याः प्रजा भविष्यतीति विद्यात् ॥ १३ ॥
यस्मिन् क्षेत्रे प्रतिसंवत्सरं द्विः सस्यं निष्पद्यते तदुभयतःसस्यं, तस्मात् क्षेत्रादाहृतं पिण्डं यदि सा गृह्णीयाद् अस्याः प्रजा अन्नवती भविष्यतीति विद्याज्जानीयात् ॥ १३ ॥
गोष्ठात् पशुमती ॥ १४ ॥
गृह्णीयाच्चेदस्याः प्रजा भविष्यतीति विद्यादिति स-
१. 'र्ज्ञानत्वं' घ. पाठः.
२. 'ति । द्रव्याणि वक्ष्यति । तैर' ग. पाठः.
२० आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः
वेत्त्रानुवर्तते । गोष्ठं गोस्थानम् । ततश्चेदाहृतं पिण्डं गृह्णीयात् पशुमत्यस्याः प्रजा भविष्यतीति विद्यात् । एवमुत्तरेष्वपि द्रष्टव्यम् ॥ १४ ॥
वेदिपुरीषाद् ब्रह्मवर्चस्विनी ॥ १५ ॥ वेदिगताः पांसवो वेदिपुरीषम् । वृत्तस्वाध्यायकृतं यशो ब्रह्मवर्चसम् ॥ १५ ॥
अविदाासिनो ह्रदात् सर्वसम्पन्ना ॥ १६ ॥ अविदासी अशोष्यः । दसिरुपक्षये ॥ १६ ॥
देवनात् कितवी ॥ १७ ॥ देवनं द्यूतस्थानम् । कितवी द्यूतपरा ॥ १७ ॥
चतुष्पथाद् विप्रव्राजिनी ॥ १८ ॥ चतुर्णां पथां समाहारश्चतुष्पथम् । विविधं या प्रव्रज- ति सा विप्रव्राजिनी, स्वकुले न तिष्ठतीत्यर्थः ॥ १८ ॥
इरिणादधन्या ॥ १९ ॥ ऊषरप्रदेश इरिणं, यत्र धान्यं न प्ररोहति । अधन्या धनरहिता ॥ १९ ॥
श्मशानात् पतिघ्नी ॥ २० ॥ तस्याः प्रजा पतिघ्नीत्येके । स्वयमित्यन्ये ॥ २० ॥
अलङ्कृत्य कन्यामुदकपूर्वां दद्यादेष ब्राह्मो वि- वाहः ॥ २१ ॥ अथ ब्राह्मादयोऽष्टौ विवाहाः । तत्राद्यौ ब्राह्मणानामेव भवतः प्रतिग्रहात्विज्यसंयोगात् । गान्धर्वः क्षत्रियस्य पुराणेषु दर्शनात् , तथा राक्षसो युद्धसंयोगात् । आसुरो वैश्यस्य
चतुर्थः खण्डः] अनाविलोपेसम् । २१
चतुर्थः खण्डः] अनाविलोपेसम् । २१
द्रव्यसंयोगात् । अन्ये त्रयोऽनियताः हेत्वभावात् । पैशा- चो निन्दितः ॥ २१ ॥
तस्यां जातो द्वादशावरान् द्वादश परान् पुनात्यु- भयतः ॥ २२ ॥
तस्यां ब्राह्मविवाहोढायां जातः पुत्रः उभयतः मातृ- वंशे पितृवंशे च परानवरान् द्वादश द्वादश पुनाति । एवमु- त्तरत्रापि ॥ २२ ॥
ऋत्विजे वितते कर्मणि दद्यादलङ्कृत्य स दैवः ॥ २३ ॥
वितते कर्मणि कर्ममध्य इत्यर्थः ॥ २३ ॥
दशावरान् दश परान् पुनात्युभयतः ॥ २४ ॥
तस्यां जात इति सर्वत्रानुवर्तते ॥ २४ ॥
सह धर्मं चरतम् इति प्राजापत्यः ॥ २५ ॥
सह धर्मं चरतम् इति समयं कृत्वा यत्र प्रदानं स प्रा- जापत्यः । यद्यप्यन्येष्वपि विवाहेषु सहधर्मचरणमस्ति, तथा- प्यत्र यावज्जीवं सहधर्मचरणमेव न मध्ये आश्रमान्तरप्राप्ति- रिति विशेषः । किञ्च तथा तयैव सहधर्मचरणं न स्त्र्यन्तर- विवाहः ॥ २५ ॥
अष्टावरानष्ट परान् पुनात्युभयतः ॥ २६ ॥
गोमिथुनं दत्त्वोपयच्छेत स आर्षः । २७ ॥
सप्तावरान् सप्त परान् पुनात्युभयतः ॥ २८ ॥
मिथ समयं कृत्वोपयच्छेत स गान्धर्वः ॥ २९ ॥
मिथः रहसि परस्परं वा । समयं भद्रे भजस्व मां भद्र ! भजस्व मामित्येवमादि ॥ २९ ॥
२२ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः
धनेनोपतोष्योपयच्छेत स आसुरः ॥ ३० ॥
“वित्तेनानतिः स्त्रीमतामासुर” इति गौतमः। तेन कन्याया धनेनोपतोषणेऽपि नासुरत्वम् ॥ ३० ॥
सुप्तानां प्रमत्तानां वापहरेत् स पैशाचः ॥ ३१ ॥
प्रमादोऽनवधानता ॥ ३१ ॥
हत्वा भित्त्वा च शीर्षाणि रुदतीं रुद्भ्यो हरेत् स राक्षसः ॥ ३२ ॥
इति हरदत्ताचार्यमिश्रकृतायामाश्वलायनगृह्यवृत्तौ प्रथमाध्याये चतुर्थः खण्डः ।
अथ पञ्चमः खण्डः ।
अथखलूच्चावचा जनपदधर्मा ग्रामधर्माश्च तान् विवाहे प्रतीयात् ॥ १ ॥
अथखल्विति वाक्योपन्यासे । उच्चावचा अनियताः, नैकरूपा इत्यर्थः । जनपदा अङ्गवङ्गादयः । जनपदधर्मान् ग्रामधर्मांश्च विवाहे प्रतीयादित्येव वक्तव्ये तानिति वचनसामर्थ्यात् तादृशानित्यर्थः । तेन कुलधर्माणामपि ग्रहणम् । प्रतीयात् जानीयात् । ज्ञानेन चात्र तत्पूर्वकं करणं लक्ष्यते । कुर्यादित्यर्थः । विवाहाधिकारे विवाहग्रहणं कृत्स्ने विवाहे एते धर्मा यथा स्युरिति । उपयमनादुत्तरकालं विधानादुपयमने न स्युः ॥ १ ॥
यत्तु समानं तद्वक्ष्यामः ॥ २ ॥
यत्त सर्वेषां समानं यथान्यानि कर्माण्यविशेषोपदेशा-
पञ्चमः खण्डः] अनाविलोपेताम् । २३
पञ्चमः खण्डः] अनाविलोपेताम् । २३
देव सर्वेषु जनपदादिषु भवन्ति तथात्रापि सिद्धे नियमार्थ- मिदमारभ्यते — यद्वक्ष्यामस्तत् सर्वेषां भवतीति । तेन जन- पदादिधर्मस्य वक्ष्यमाणस्य च विरोधे वक्ष्यमाणमेव भवति । तद्यथा — केषुचिद् देशेषु सद्यः समावेशनं दृष्टं वक्ष्यमाणेन त्रिरात्रं द्वादशरात्रमिति ब्रह्मचर्येण बाध्यते ॥ २ ॥
पश्चादग्नेर्दृषदमश्मानं प्रतिष्ठाप्योत्तरपुरस्तादुद- कुम्भं समन्वारब्धायां हुत्वा तिष्ठन् प्रत्यङ्मुखः प्राङ्मु- ख्या आसीनाया गृभ्णामि ते सौभगत्वाय हस्तमित्यङ्- गुष्ठमेव गृह्णीयाद्यदि कामयेत पुमांस एव मे पुत्रा जाये- रन्निति अङ्गुलीरेव स्त्रीकामो रोमान्ते हस्तं साङ्गुष्ठमु- भयकामः ॥ ३ ॥
मृन्मय्या अपि दृषदः संभवादश्मग्रहणम् । अश्मनो य- स्यकस्यचिद् ग्रहणाय दृषदमित्युक्तम्। यया पिष्यते सा दृषत् । उत्तरपुरस्तात् उत्तरस्याः पूर्वस्याश्च दिशोरन्तराले । समन्वार- ब्धायां समन्वारब्धवत्याम् । हुत्वा तिष्ठन्निति होमोत्तरकालं स्थानेदर्शनादासीन एव जुहोतीति दर्शयति । सामान्यापेक्षं² च दर्शनम् आसीनो दर्विहोमान् जुहोतीति । प्रत्यङ्मुख इति वचनं प्राक्चेष्टानिवृत्त्यर्थम् । प्राङ्मुख्या इति वचनं लज्जा- दिनावाङ्मुखीत्वनिवृत्त्यर्थम् । इह आसीनाया इति वचनमु- त्तरं कर्म तिष्ठन्त्याः स्यादिति । गृभ्णामि ते सौभगत्वाय हस्त- मिति हस्तं गृह्णीयादिति नित्यो विधिः । इतरे गुणकामाः ।
१. 'नं दर्शयन्नासी' क. ग. घ. पाठः.
२. 'क्षं द' ख. ग. पाठः.
२४ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः
तथाचाङ्गुष्ठमेवाङ्गुलीरेवेत्येवकारः सङ्गच्छते । “दक्षिणेन नाचा हस्तेन दक्षिणमुत्तानं हस्तं गृह्णीयादि”त्यापस्तम्बः। पुत्रशब्दस्य स्त्र्यपत्येऽपि दर्शनात् पुमांस इत्युक्तम् । स्त्रीशब्दो दुहितृवाची पुत्रसन्निधानात् । रोमान्ते रोमवतः प्रदेशादुपरि । उभयकामः पुत्रकामः स्त्रीकामश्च ॥ ३ ॥
प्रदक्षिणमग्निमुदकुम्भं च त्रिः परिणयन् जपति ॥ ४ ॥
सर्वेषां यज्ञाङ्गाना प्रदक्षिणेऽभ्यन्तरीभावः । अन्यान्यपि यज्ञाङ्गान्यपयुक्तानि “न विहारेण व्यवेयादि”ति वचनात् । उदकुम्भग्रहणं त्विह नियमार्थं — हविर्व्यतिरिक्तं यद् विवाहे विशेषविहितं तत्रोदकुम्भमेवेति । तेनाश्मनो¹ न भवति । लाजानां तु भवत्येव । त्रिरित्यस्य परिणयन्नित्यनेन सम्बन्धः अनन्तरत्वात्, न जपतीत्यनेन व्यवहितत्वात् । “परिणीये परिणीये”ति वीप्सा च तमेवार्थं स्पष्टयति। परिणयनाङ्गत्वाच्च जपस्य यावत्परिणयनमावृत्तिः ॥ ४ ॥
अमोहमस्मि सा त्वं सा त्वमस्य मोहं द्यौरहं पृथिवी त्वं सामाहमृक् त्वं तावेह विवहावहै प्रजां प्रजनयावहै संप्रियौ रोचिष्णू सुमनस्यमानौ जीवेव शरदः शतमिति ॥ ५ ॥
परिणयनमन्त्रोऽयम् ॥ ५ ॥
परिणीय परिणीयाश्मानमारोहति ॥ ६ ॥
१. 'तदाश्म' क. पाठः.
पञ्चमः खण्डः] अनाविलोपेताम् । ३५
पञ्चमः खण्डः] अनाविलोपेताम् । ३५
वीप्सावचनाद् यावत्परिणयनमारोहणम् । “दक्षिणेन पदारमानमास्थापयती”त्यापस्तम्बः ॥ ६ ॥
इममश्मानमारोहाश्मेव त्वं स्थिरा भव सहस्व पृतनायतोऽभितिष्ठ पृतन्यत इति ॥ ७ ॥
अश्मारोहणमन्त्रोऽयम् ॥ ७ ॥
वध्वोऽञ्जला उपस्तीर्य भ्राता भ्रातृस्थानो वा द्विर्लाजानावपति ॥ ८ ॥
वध्वौ इति प्राप्ते वध्व इति छान्दसो निर्देशः । अपपाठो वा । भ्राता सोदर्यः। भ्रातृस्थानो भ्रातृस्थानीयः पितृव्यपुत्रादिः ॥ ८ ॥
त्रिर्जामदग्नीनाम् ॥ ९ ॥
जमदग्निशब्दो गर्गादिः । तत्र यञो लुकि जमदग्नीनामिति भवितव्यम् । “जमदग्नीनां तु पञ्चावत्तमि”त्यापस्तम्बश्च । तस्माच्छिवादिष्वप्ययं पठितव्यः । तथाच ‘जामदग्नौ२ वत्सा” इति प्रवरेषु पठितम् । प्रवरो जामदग्नौ३, भवति ॥ ९ ॥
प्रत्यभिघार्य हविरवत्तं च ॥ १० ॥
हविःशब्देन हविःशेष उच्यते । तस्य पूर्वं प्रत्यभिघारणं पश्चादवत्तस्य ॥ १० ॥
एषोऽवदानधर्मः ॥ ११ ॥
१. ‘ध्वा अञ्जलौ इति प्राप्ते वध्वोऽञ्जला इ’ क. घ. पाठः
२. ‘ग्न्या’, ३. ‘ग्न्या’ क. ख. घ. पाठः. ४ ‘ग्न्यो’ क ख. पाठः.
२६ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः
“अवदानसम्पदा जुहुयादि”त्यादिष्ववदानचोदनास्वेष धर्मः प्रत्येव्यः—उपस्तरणं द्विखिश्चावदानं हविरवदानयोश्च प्रत्यभिघारणमिति । उपस्तरणाभिघारणयोर्वर एव कर्त्ता, लाजानां भ्राता । क्त्वाप्रत्ययस्त्वसत्यपि समानकर्तृकत्वे पूर्वकालतामात्रेऽपि प्रायेण कल्पसूत्रेषु प्रयुज्यते ॥ ११ ॥
अर्यमणं नु देवं कन्या अग्निमयक्षत स इमां देवो अर्यमा प्रेतो मुञ्चातु नामुतः स्वाहा । वरुणं नु देवं कन्या अग्निमयक्षत स इमां देवो वरुणः प्रेतो मुञ्चातु नामुतः स्वाहा । पूषणं नु देवं कन्या अग्निमयक्षत स इमां देवः पूषा प्रेतो मुञ्चातु नामुतः स्वाहेत्यविच्छिन्दत्यञ्जलिं १स्रुचेव जुहुयात् ॥ १२ ॥
एतैस्त्रिभिर्मन्त्रैर्लाजान् जुहोति। कथम्, अञ्जलिमविच्छिन्दती अञ्जलेर्विच्छेदम्कुर्वती वधूर्जुहुयात्, २स्त्रीलिङ्गनिर्देशात्। मन्त्रास्तु वरस्यैव, स इमामिति मन्त्रलिङ्गात्। अन्यथा स मां देव इत्येव स्यात्। स्रुचेव, ३यथा स्रुचा हूयते ४एवमञ्जलिना जुहोति । कथं स्रुचा हूयते । ५द्रवेषु तावत् सर्वाणि द्रव्याणि स्रुङ्मुखेन जुहोति। अद्रवेषु तु “अपिदधदिव प्रदक्षिणं हुत्वे”ति कल्पान्तरम् । तस्मादिहाप्यपिदधदिव लाजान् जुहोति, न मुखेन ॥ १२॥
अपरिणीय शूर्पपुटेनाभ्यात्मं तूष्णीं चतुर्थम् ॥ १३ ॥
‘त्रिः परिणयन्ती’ति वचनाच्चतुर्थस्य परिणयनस्याप्राप्तिरेव। तथाप्यपरिणीयेत्युच्यते द्वितीयतृतीयावपि होमौ
१. ‘स्रुवं जु’ क. पाठः. २ ‘ति लि’ ख. पाठः. ३. ‘यस्तथा’, ४. ‘न्ते त ए’ क. पाठः. ५. ‘वि’ क. ग. पाठः.