आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 75, कुल 292 में से
संदर्भ में पढ़ेंपञ्चमः खण्डः] अनाविलोपेताम् । ३५
वीप्सावचनाद् यावत्परिणयनमारोहणम् । “दक्षिणेन पदारमानमास्थापयती”त्यापस्तम्बः ॥ ६ ॥
इममश्मानमारोहाश्मेव त्वं स्थिरा भव सहस्व पृतनायतोऽभितिष्ठ पृतन्यत इति ॥ ७ ॥
अश्मारोहणमन्त्रोऽयम् ॥ ७ ॥
वध्वोऽञ्जला उपस्तीर्य भ्राता भ्रातृस्थानो वा द्विर्लाजानावपति ॥ ८ ॥
वध्वौ इति प्राप्ते वध्व इति छान्दसो निर्देशः । अपपाठो वा । भ्राता सोदर्यः। भ्रातृस्थानो भ्रातृस्थानीयः पितृव्यपुत्रादिः ॥ ८ ॥
त्रिर्जामदग्नीनाम् ॥ ९ ॥
जमदग्निशब्दो गर्गादिः । तत्र यञो लुकि जमदग्नीनामिति भवितव्यम् । “जमदग्नीनां तु पञ्चावत्तमि”त्यापस्तम्बश्च । तस्माच्छिवादिष्वप्ययं पठितव्यः । तथाच ‘जामदग्नौ२ वत्सा” इति प्रवरेषु पठितम् । प्रवरो जामदग्नौ३, भवति ॥ ९ ॥
प्रत्यभिघार्य हविरवत्तं च ॥ १० ॥
हविःशब्देन हविःशेष उच्यते । तस्य पूर्वं प्रत्यभिघारणं पश्चादवत्तस्य ॥ १० ॥
एषोऽवदानधर्मः ॥ ११ ॥
१. ‘ध्वा अञ्जलौ इति प्राप्ते वध्वोऽञ्जला इ’ क. घ. पाठः
२. ‘ग्न्या’, ३. ‘ग्न्या’ क. ख. घ. पाठः. ४ ‘ग्न्यो’ क ख. पाठः.