भारतकोश
आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

पृष्ठ 68, कुल 292 में से

संदर्भ में पढ़ें
पृष्ठ 68

१८ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः

नैके काञ्चन ॥ ६ ॥

एके त्वाचार्याः काञ्चनाप्याहुतिमेकेषां$^१$ नेच्छन्ति । आहुतीनामासामयं प्रतिषेधः काञ्चनग्रहणात् , न होमप्रतिषेधः। तेनास्मिन् पक्षेऽनादेशाहुतयो भवन्ति ॥ ६ ॥

त्वमर्यमा भवसि यत् कनीनामिति विवाहे चतुर्थीम् ॥

संख्यानिर्देशे यत्र पूर्वोक्तस्योद्धारमिच्छति, करोति तत्र यत्नम् । यथा "तृतीयस्याह्नः स्थाने महाव्रतम्" इति । यत्नाभावे तूत्कर्षो भवति नोद्धारः । यथा "प्रतिप्रस्थाता वाजिने तृतीय" इति । तस्मादिहाप्युत्कर्षः प्राजापत्यायाः, नोद्धारः । पञ्चैता आहुतयः ॥ ७ ॥

कुलमग्रे परीक्षेत ये मातृतः पितृतश्चेति यथोक्तं पुरस्तात् ॥ ८ ॥

सम्पन्नेष्वपि गुणेषु कुलमेव प्रधानमिति प्रदर्शनार्थमग्र इत्युक्तम् । मातृतः पितृतश्च विद्यादिभिर्दशपुरुषशुद्धिः कुलम् । तत् प्रथमं परीक्षेत पश्चाद् गुणान्तरमित्यर्थः ॥ ८ ॥

अथापरे गुणा विधीयन्ते—

बुद्धिमते कन्यां प्रयच्छेत् ॥ ९ ॥

शास्त्राविरुद्धदृष्टादृष्टविषया बुद्धिः ॥ ९ ॥

कन्यागुणानाह—

बुद्धिरूपशीललक्षणसंपन्नामरोगामुपयच्छेत ॥ १० ॥


१. 'ति समाने' ख. पाठः. २. 'मेकां ने' घ. पाठः.