आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 67, कुल 292 में से
संदर्भ में पढ़ेंचतुर्थः खण्डः] अनाविलोपेताम् । १७
तेषामित्यनन्तरस्यै विवाहस्यैव सम्बन्धो मा भूदिति । ज्ञापकात् सिद्धम् । यदयं “विवाहे चतुर्थीम्”त्युत्तरत्र विवा- हग्रहणं करोति तज्ज्ञापयति इह सर्वेषां सम्बन्ध इति । तर्हि विस्पष्टार्थं तेषांग्रहणम् । चतसृग्रहणमनर्थकं चतसृणा- मेवोपदेशात् । नियमार्थं तु, चतस्र एव तेषामाहुतय इति । तेनाज्यभागौ पक्षेऽपि न भवतः । स्विष्टकृत्तु भवति पुरस्ताद्- ग्रहणात् , पुरस्ताच्चतस्र एवेति नियमात् । यत्र होम उपदि- श्यते न द्रव्यं तत्राज्यमेव प्राप्तं दर्शयति — “आज्यशेषेण वानक्ति हृदये” इति । स्पष्टं चैतत् कल्पान्तरे “जुहोतीति चोद्यमाने सर्पिराज्यं प्रतीयाद्”ति । एवमिहापि सिद्धे आज्य- ग्रहणमाज्यहोमा एव ते कथं स्युरिति । तेन विवाहे लाजेषु सत्स्वपि “कृताकृतमाज्यहोमेषु परिस्तरणम्” इत्येतद् भवति ॥
अग्न आयूंषि पवस इति तिसृभिः प्रजापते न त्वदेतान्यन्य इति च व्याहृतिभिर्वा ॥ ४ ॥
अस्मिञ्छास्त्रे व्याहृतिग्रहणे चतस्र एव गृह्यन्ते परि- भाषितत्वात् । व्याहृतिश्च भूः स्वाहा भुवः स्वाहा सुवः स्वाहा भूर्भुवःसुवः स्वाहेति । तत्र भूः स्वाहेत्यादिषु स्वरूपेण पठ्य- मानेष्वपि व्याहृतिभिश्चेति वचनमेतदर्थमेव कृतम् ॥ ४ ॥
समुच्चयमेके ॥ ५ ॥
एके आचार्याः पूर्वोक्तानामष्टानामाहुतीनां समुच्चयं- मिच्छन्ति ॥ ५ ॥
१. 'स्यैव वि' क. पाठः. २. 'स्य स', ३. 'ते तत्र सर्वदाज्य' ख. पाठः.
D