भारतकोश
आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

पृष्ठ 23, कुल 292 में से

संदर्भ में पढ़ें
पृष्ठ 23

सूत्रम् .विषयः.
६.कामनाभेदेन नाम्नोऽक्षरनियमः ।
७.पुंसो नाम्नि युग्माक्षरत्वनियमः ।
८.स्त्रिया अयुग्माक्षरत्वम् ।
९.अस्मिन्नेव कालेऽभिवादनीयस्य नाम्नः समीक्षणं, तस्य चोपनयनपर्यन्तं मातापितृव्यतिरिक्तस्याज्ञेयत्वम् ।
१०.प्रोष्यागते पितरि पुत्रे वा पुत्रस्य शिरः परिगृह्य मूर्धनि त्रिरवघ्राय समन्त्रकं पितुर्जपः ।
११.कुमार्यां त्विदं सर्वममन्त्रकम् ।

चतुर्दशः खण्डः ।

१. अन्नप्राशनम् ।
२. अन्नाद्यकामनायां व्यञ्जनत्वेनाजमांसप्राशनम् ।
३. ब्रह्मवर्चसकामनायां तथा तित्तिरिमांसप्राशनम् ।
४. तेजस्कामस्य घृतसंस्कृतौदनप्राशनम् ।
५. अकामस्य दधिघृतमधुमिश्रान्नप्राशनम् ।
६. अन्नप्राशनमन्त्रः ।
७. कुमार्यां अमन्त्रकमन्नप्राशनम् ।


पञ्चदशः खण्डः ।

१. चौलकालः ।
२. उक्तकालेन सह यथाकुलधर्मं विकल्पः ।
३. व्रीहियवमाषतिलैः पृथक् पूर्णानां चतुर्णां पात्राणामग्नेरुत्तरतः स्थापनम् ।
४. अग्नेः पश्चान्मातुरुत्सङ्गे कुमारस्योपवेश्यत्वम् ।
५. आनडुहं गोमयं शमीपर्णानि च पश्चादग्नेर्नवे शरावे उपनिधातव्यानि ।
६. मातुर्दक्षिणतः कुशस्तम्बान्यादाय पितुरासनम् ।

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित) · पृष्ठ 23, कुल 292 में से · BharatKosha