भारतकोश
आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

पृष्ठ 24, कुल 292 में से

संदर्भ में पढ़ें
पृष्ठ 24

१०

सूत्रम्.विषयः.
७.पक्षान्तरे ब्रह्मणः कुशपिञ्जूलधारणम् ।
८.मन्त्रेण शीतोष्णजलमिश्रणम् ।
९.नवनीतं दधिकणान् वा गृहीत्वा तेन जलेन कुमारस्य शिरसखिः क्लेदनम् ।
१०.क्लेदनमन्त्रः ।
११.त्रयाणां त्रयाणां कुशपिञ्जूलानां दक्षिणे केशपक्षे निधानं, सकुशस्तम्बानां केशानां लौहेन क्षुरेण समन्त्रकं सन्धानं च ।
१२.तेन क्षुरेण सपिञ्जूलानां केशानां समन्त्रकं प्रच्छेदः प्रथमः ।
१३.प्रच्छिन्नानां प्रागग्राणां सकुशपिञ्जूलानां केशानां शमीपर्णैः सह मात्रे प्रदानं मात्रा तेषामानडुहे गोमये निधानं च ।
१४.एवं समन्त्रं द्वितीयतृतीयौ प्रच्छेदौ ।
१५.उक्तैः सर्वैर्मन्त्रैश्चतुर्थः प्रच्छेदः ।
१६.एवमुत्तरेऽपि केशपक्षे प्रागुक्तैर्मन्त्रैस्त्रयः प्रच्छेदाः । एवं सप्तसु प्रच्छेदेष्वेकविंशतेः कुशपिञ्जूलानां विनियोगः ।
१७.समन्त्रकं क्षुरधाराया नीचीनं मार्जनम् ।
१८.वपनं प्रति नापितस्य शासनम् ।
१९.यथाकुलधर्मं केशसन्निवेशनम् ।
२०.कुमार्यास्तूष्णीं वपनम् ।

षोडशः खण्डः ।

सूत्रम्.विषयः.
१.षोडशे वर्षे गोदानं चौलवत् ।
२.मन्त्रेषु केशशब्दस्थाने श्मश्रुशब्दप्रक्षेपः ।
३.इह श्मश्रुमात्रक्लेदनम् ।
४.अत्र मन्त्रे मुखशब्दस्याधिकस्य प्रवेशनम् ।
५.केशश्मश्रुनखलोम्नामुदक्संस्थताकरणाय नापितस्य शासनम् ।