भारतकोश
आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

पृष्ठ 25, कुल 292 में से

संदर्भ में पढ़ें
पृष्ठ 25

११

सूत्रम् .विषयः.
६.आप्लुत्य वाग्यमनेनाहःशेषनयनम्, अनन्तरमाचार्यसकाशे वरदानाय वाग्विसर्गः ।
७.गोमिथुनमाचार्यदक्षिणा ।
८.अपरेद्युरहनि संवत्सरं व्रतादेशः ।

सप्तदशः खण्डः ।

सूत्रम् .विषयः.
१.अष्टमे वर्षे ब्राह्मणस्योपनयनम् ।
२.गर्भाष्टमे वा ।
३.जन्मनो गर्भाद्वैकादशे क्षत्रियस्य ।
४.तथा द्वादशे वैश्यस्य ।
५.त्रैवर्णिकानामुपनयनकालेष्वनुकल्पः ।
६.तस्य व्यतिक्रमे तेषां पतितत्वम् ।
७.तेषां प्रायश्चित्ताकरणे उपनयनादिनिषेधः ।
८.त्रैवर्णिकानामजिनभेदः उपनयनं यज्ञोपवीतधारणं च ।
९.वर्णभेदेन वस्त्रभेदः ।
१०.वर्णभेदेन मेखलाभेदः ।
११.वर्णभेदेन दण्डभेदस्तत्प्रमाणभेदश्च ।
१२.दण्डेषु कामचारो वा ।
१३.समन्वारब्धवति कुमारे होमानन्तरमग्नेरुत्तरत आचार्यस्यावस्थानम् ।
१४.कुमारस्य चाचार्याभिमुख्येनावस्थानम् ।
१५.उदकपूर्णे कुमारस्याञ्जलौ स्वाञ्जलिस्थमुदकं समन्त्रकमवक्षार्य समन्त्रकं कुमारस्य साङ्गुष्ठपाणिग्रहणं प्रथमम् ।
१६.एवं द्वितीयं तृतीयं च समन्त्रकं पाणिग्रहणम् ।
१७.समन्त्रकं कुमारस्य सूर्यप्रदर्शनम् ।
१८.परिदानमन्त्रजपः ।
१९.कुमारस्य 'युवा सुवासा' इत्यर्धर्चेन प्रदक्षिणावर्तनम् ।
आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित) · पृष्ठ 25, कुल 292 में से · BharatKosha