भारतकोश
आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

पृष्ठ 26, कुल 292 में से

संदर्भ में पढ़ें
पृष्ठ 26

CC-0. Agamnigam Digital Presevation Foundation, Chandigarh

१३

सूत्रम्.विषयः.
२०.कुमारस्यांसदेशयोः पाणी गमयित्वा 'तं धीरास' इत्यर्धर्चेन हृदयदेशस्पर्शः ।
२१.पुनरप्यग्निं परिसमूह्य तूष्णीं समिदाधानम् ।
२२.ब्रह्मचारिणस्तूष्णींहोमस्य च प्राजापत्यत्वेन प्रशंसा ।

अष्टादशः खण्डः ।

१.एकेषां मते समन्त्रकं समिदाधानम् ।
२.समिदाधानात् परमग्न्युपस्पर्शे मुखनिमार्जनं च ।
३.समिदाधानप्रशंसा ।
४.समन्त्रकमग्नेरुपस्थानम्, आचार्याभिवादनं सावित्र्युपदेशप्रार्थना च ।
५.सावित्र्युपदेशप्रकारः ।
६.यथाशक्ति सावित्रीं वाचयित्वा कुमारस्य हृदयदेशे समन्त्रकमूर्ध्वाङ्गुलेः पाणेरुपनिधानम् ।

एकोनविंशः खण्डः ।

१.कुमारस्य ब्रह्मचर्यादेशनम् ।
२.प्रतिवेदं द्वादशवार्षिकं ब्रह्मचर्यम् ।
३.ग्रहणान्तं वा ।
४.सायम्प्रातर्भिक्षाचरणम् ।
५.सायम्प्रातः समिदाधानम् ।
६.अप्रत्याख्यायिनि प्रथमभिक्षणम् ।
७.अप्रत्याख्यायिन्यां वा ।
८.भिक्षामन्त्रः ।
९.भिक्षान्तरग्रहणे मन्त्रविशेषः ।
१०.लब्धं भैक्षमाचार्याय निवेद्याहःशेषं यावत् स्थितिः ।
११.अनुप्रवचनार्थं ब्रह्मोदनं श्रपयित्वाचार्याय निवेदनम् ।
१२.'सदसस्पतिमिति मन्त्रेण प्रथमहोमः ।