भारतकोश
आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

पृष्ठ 245, कुल 292 में से

संदर्भ में पढ़ें
पृष्ठ 245

सप्तमः खण्डः] अनाविलोपेताम् । १९३

दृशाः न क्वापि शब्दः गृहे निवेशने वो¹ शब्द इति । एतस्मिन् काले कर्ता गृहमागत्य तस्य दक्षिणाद् द्वारपक्षादारभ्याविच्छिन्नामुदकधारां हरेत् तन्तुं तन्वन्निति मन्त्रेण आ उत्तरस्माद् द्वारपक्षात् ॥ ८ ॥

अथाग्निमुपसमाधाय पश्चादस्यानडुहं चर्मास्तीर्य प्राग्ग्रीवमुत्तरलोम तस्मिन्नमात्यानारोहयेदारोहतायुर्जरसं वृणाना इति ॥ ९ ॥

अथ तमग्निं कर्ता कर्माङ्गमुपसमाधाय पश्चादस्यानडुहं चर्म प्राग्ग्रीवमुत्तरलोमास्तृणाति । आस्तीर्य तस्मिन्नारोहयेत् कर्तारोहेतायुरिति मन्त्रेण । मन्त्रोच्चारणमेव व्यापारः नान्यः कश्चित् ॥ ९ ॥

इमं जीवेभ्यः परिधिं दधामीति परिदध्यान्मध्यमम् ॥ १० ॥

अथ परिधिपरिधानकाले इमं जीवेभ्य इति मन्त्रेण मध्यमं परिधिं परिदध्यात् तूष्णीं दक्षिणोत्तरौ ॥ १० ॥

अन्तर्मृत्युं दधतां पर्वतेनेत्यश्मानमुत्तरतोऽग्नेः कृत्वा परं मृत्यो अनुपरेहि पन्थामिति चतसृभिः प्रत्यृचं हुत्वा यथाहान्यनुपूर्वं भवन्तीत्यमात्यानीक्षेत ॥ ११ ॥

अन्तर्मृत्युमिति पादेनाश्मानमुत्तरतोऽग्नेः स्थापयति³। स्थापयित्वा परं मृत्यो अन्विति चतसृभिः प्रत्यृचं जुहोत्या-


१. ‘वा इ’ घ. पाठः. २. ‘धत्ते आरोपणे मन्त्रो’, ३. ‘ति होम अज्ये’ ख. ग. ङ. पाठः.

AA