आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 246, कुल 292 में से
संदर्भ में पढ़ें१९४ आश्वलायनगृह्यसूत्रम् [चतुर्थोऽध्यायः
ज्येन । प्रत्यृचमिति स्वाहाकारनिवृत्त्यर्थम्^१ तेन ऋगन्ते होमः । हुत्वामात्यानीक्षेत यथाहान्यन्विति मन्त्रेण ॥ ११ ॥
युवतयः पृथक् पाणिभ्यां दर्भतरुणकैर्नवनीतेनाङ्गुष्ठोपकनिष्ठिकाभ्यामक्षिणी अँञय पराच्यो निसृजेयुः ॥
अथ युवतयः पृथक् पाणिभ्याम् अक्षिणी अञ्जीरन् दक्षिणेन दक्षिणं सव्येन सव्यम् । कथं, दर्भतरुणकैर्नवनीतेन^३ अङ्गुष्ठोपकनिष्ठिकाभ्यामङ्गुलीभ्याम् । अँत्र केचित् पृथक्पाणिभ्यामिति वचनाद् युगपदक्ष्णोरञ्जनमिच्छन्ति । तेषां यावत्यो युवतयः तावन्ति कुशपिञ्जूलानीति नोपपद्यते द्विस्तावन्ति प्राप्नुवन्ति । तस्मात् पृथक्पाणिवचनं दक्षिणाङ्गकारितानिवृत्त्यर्थं, तेन पूर्वं दक्षिणेन पाणिना दक्षिणमङ्क्त्वा तेनैव कुशपिञ्जूलेन सव्येन सव्यम् । एवमक्षिणी अञ्ज्य सौत्रो ल्यबादेशः अङ्क्त्वा पराच्यः पराङ्मुख्यः निसृजेयुः तत्स्थानान्निर्गच्छेयुः । अपर आह — पराच्यः प्राङ्मुख्यौ भूत्वा अनवेक्षमाणास्तानि कुशपिञ्जूलान्यतिसृजेयुरिति ॥ १२ ॥
इमा नारीरविधवाः सुपत्नीरित्युँआना ईक्षेतेँ ॥ १३ ॥
कर्ता इमा नारीरिति मन्त्रेण ॥ १३ ॥
१. 'र्थम् । ऋगन्तेन होमः ॥' ख. ग. ङ. पाठः. २. 'आ' ग. पाठः. ३ 'गृहीते' ङ. पाठः. ४. 'त ग. ङ. पाठः. ५. 'त्या', ६. 'त ॥ अ' ख. ग. ङ. पाठः.