आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 257, कुल 292 में से
संदर्भ में पढ़ेंनवमः खण्डः] अनाविलोपेत्म् । २०५
पितृयज्ञे दक्षिणाग्नौ होमः कृतः पिण्डाश्च निवृत्ताः, केवलं ब्राह्मणभोजनमेव शिष्यते तत्र पाणिष्वेव होम इति। अपर आह — यस्य गृह्योऽग्निर्नस्ति तस्य विधुरादेरयमुपदेश इति ॥ ५॥
अथ पाणिहोमं स्तोतुं ब्राह्मणमनुकर्षति —
अग्निमुखा वै देवाः पाणिमुखाः पितर इति हि ब्राह्मणम् १ ॥ ६ ॥
तत्र पाणिहोमपक्षे विशेषमाह —
यदि पाणिष्वाचान्तेष्वन्यदन्नमनुदिशति ॥ ७ ॥
यदि पाणिषु होमः तदा ब्राह्मणेष्वाचान्तेषु पाणिषु हुतमन्नं भुक्तवत्सु अन्यदन्नमनुदिशति पात्रे कदलीपत्रादौ ॥ ७ ॥
अग्निपक्षे विशेषमाह —
अथाग्नौ हुतशेषमन्नमन्ने ॥ ८ ॥
अथाग्नौ होमः ततो भोजनार्थादन्नादुद्धृत्य तस्मिन्नन्ने हुतशेषमन्नं दद्यात् ॥ ८ ॥
सृष्टं दत्तमाध्र्णुकमिति ॥ ९ ॥
सृष्टं प्रभूतं दत्तम् आध्र्णुकम् ऋद्धिनिमित्तं कर्तुरिति विज्ञायते । तस्मात् प्रभूतं देयमिति । अपर आह — सृष्टमिति क्रियाविशेषणं सर्ग उत्साहः सृष्टमुत्साहवद् यथा तथा दत्तं श्रद्धया दत्तम् आध्र्णुकमिति ॥ ९ ॥
१. ‘खा वै पि’ घ. पाठः.