आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 258, कुल 292 में से
संदर्भ में पढ़ेंCC-0. Agamnigam Digital Presevation Foundation, Chandigarh
२०६ आश्वलायनगृह्यसूत्रम् [चतुर्थोऽध्यायः
तृप्तान् ज्ञात्वा मधुमतीः श्रावयेदक्षन्नमीमदन्ते- ति च ॥ १० ॥
भुञ्जाना ब्राह्मणा यदा तृप्ता भवन्ति तदा तांस्तृप्तान् ज्ञात्वा मधुशब्दवतीर्मधु वाता ऋतायते इत्येता ऋचःश्रावयेद् ब्रूयाद् अक्षन्नमीमदन्तेत्येतां च ॥ १० ॥
सम्पन्नं पृष्ट्वा यद्यदन्नमुपभुक्तं ततस्ततः स्था- लीपाकेन सह पिण्डार्थमुद्धृत्य शेषं निवेदयेत् ॥ ११ ॥
अथ सम्पन्नमिति ब्राह्मणान् पृच्छति । ते च सुसंपन्नमिति प्रतिब्रूयुः । ततो यद्यदन्नमुपभुक्तं ब्राह्मणैरुपभुक्तशिष्टमित्यर्थः, ततस्ततः स्थालीपाकेन सह पिण्डार्थमुद्धृत्य शेषमन्नं ब्राह्मणेभ्यो निवेदयेत् । अस्मादेवानुवादाद् गम्यते अस्ति स्थालीपाको होमार्थ इति ॥ ११ ॥
अभिमतेऽनुमते वा भुक्तवत्स्वनाचान्तेषु पि- ण्डान् निदध्यात् ॥ १२ ॥
निवेदिते सति ब्राह्मणास्तदन्नमभिमन्यन्ते आत्मसात्कुर्वन्ति अस्मभ्यमेव देहीति अनुमन्यन्ते वा इष्टैः सहोपभुज्यतामिति । एवं तैरभिमतेऽनुमते वा भुक्तवत्सु तेष्वनाचान्तेषु पिण्डान् निदध्यात् निपृणीयात् पिण्डपितृयज्ञकल्पेन ॥ १२ ॥
आचान्तेष्वेके ॥ १३ ॥
एक आचार्या आचान्तेषु पिण्डान् निपृणन्ति ॥ १३ ॥
प्रकीर्यान्नमुपवीयीं स्वधोच्यतामिति विसृजेद- स्तु स्वधेति वा ॥ १४ ॥
निधाय पिण्डानन्नं भूमौ प्रकिरन्ति । तत्र मन्त्रमपि पठन्ति “ये अग्निदग्धा ये अनग्निदग्धा ये वा जाताः कुले मम ।