आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 263, कुल 292 में से
संदर्भ में पढ़ेंदशमः खण्डः] अनाविलेापेतम्। २११
पशुकल्पोक्तं प्रोक्षणादिपदार्थजातमविकृतं कर्तव्यम् ॥
विशेषान् वक्ष्यामः ॥ १२ ॥
अत्र ये तु विशेषास्तान् वक्ष्यामः ॥ १२ ॥
पात्र्या पलाशेन वा वपां जुहुयादिति विज्ञा- यते ॥ १३ ॥
पात्र्या मृन्मय्या पलाशेन पर्णेन वा यज्ञियस्य वृक्षस्य वपां जुहुयादिति ब्राह्मणं भवति ॥ १३ ॥
हराय कृपाय शर्वाय शिवाय भवाय महादे- वायोग्राम पशुपतये रुद्राय शङ्करायेशानायाशनये स्वा- हेति ॥ १४ ॥
हरायेत्यादिभिः स्वाहाकारान्तो द्वादशभिर्देवनामभि- र्युक्त एको मन्त्रः वपाया अवदानानां स्थालीपाकस्य च भ- वति ॥ १४ ॥
षड्भिर्वोत्तरैः ॥ १५ ॥
अस्मिन्नेव वा पाठे उत्तरैः षड्भिरुग्रायेत्यादिभिर्जुहु- यात् ॥ १५ ॥
रुद्राय स्वाहेति वा ॥ १६ ॥
अयं वा होममन्त्रः ॥ १६ ॥
चतसृषु चतसृषु कुशसूनासु चतसृषु दिक्षु बलिं हरेद्यास्ते रुद्र! पूर्वस्यां दिशि सेनास्ताभ्य एतं नमस्ते अस्तु मा मा हिंसीरिति ॥ १७ ॥