आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 264, कुल 292 में से
संदर्भ में पढ़ें२१२ आश्वलायनगृह्यसूत्रम् [चतुर्थोऽध्यायः
प्रधानहोमानन्तरं स्विष्टकृतः प्राक् चतसृषु दिक्षु च- तसृषु चतसृषु कुशसूनासु। वीप्सावचनात् प्रतिदिशं चतस्रः। कुशसूनाः कुशानां पुष्पमय्यः तासु बलिं हरेत्। तत्र पूर्वस्यां दिशि मन्त्रः— यास्ते रुद्र! पूर्वस्यां दिशीति। एवं सर्वासु दिक्षु बलिं हरेदित्यनुषङ्गः ॥ १७ ॥
प्रतिदिशं त्वादेशनम् ॥ १८ ॥
तस्यास्तस्या दिशो नाम त्वादेष्टव्यम्। यास्ते रुद्र! दक्षिणस्यां दिशिं प्रतीच्यां दिशि उदीच्यां दिशि इति ॥ १८ ॥
चतुर्भिः सूक्तैश्चतस्रो दिश उपतिष्ठेत कद्रुद्राय इमा रुद्राय आ ते पितः इमा रुद्राय स्थिरधन्वन् इति ॥ १९ ॥
हृत्वा बलिं कद्रुद्रायेत्यादिभिश्चतुर्भिः सूक्तैश्चतस्रो दिश उपतिष्ठेत। यथासंख्यमित्येके। प्रतिदिशं चतुर्भिरिति वयं चतुर्भिरिति वचनात् सूक्तग्रहणात्। चत्वार्येव हि निर्दि- ष्टानि सूक्तानि च तानि सूक्तं सूक्तादौ हीने पाद इति वच- नात्(?)। तस्माच्चतुर्भिः सूक्तैः प्रतिदिशमुपस्थानं कर्त- व्यम् ॥ १९ ॥
सर्वरुद्रयज्ञेषु दिशामुपस्थानम् ॥ २० ॥
अन्येष्वपि सर्वरुद्रयज्ञेषु आश्वयुजीकर्मादिष्वेतद् दिशामुपस्थानं कर्तव्यम् ॥ २० ॥
तुषान् फलीकरणांश्च पुच्छं चर्म शिरः पादा- वन्वावनुंप्रहरेत् ॥ २१ ॥