आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
DevanagariHindipublished292 पृष्ठ
पृष्ठ 28, कुल 292 में से
संदर्भ में पढ़ेंपृष्ठ 28
१४
| सूत्रम्. | विषयः. |
|---|---|
| ११. | सर्वेषाम् ऋत्विजां वरणसमनन्तरं जप्यो मन्त्रः । |
| १२. | जपानन्तरं होतुः प्रतिज्ञा । |
| १३. | ब्रह्मणः प्रतिज्ञा । |
| १४. | इतरेषामपि यथादेशं प्रतिज्ञा । |
| १५. | याजयिष्यतः प्रतिज्ञानात् पूर्वं जपविशेषः । |
| १६. | अन्यस्मै दत्तस्य प्रतिश्रुतस्य वार्त्विज्यस्याकर्तव्यता । |
| १७. | अहीनक्रतोरप्यार्त्विज्यस्याकर्तव्यत्वम् । |
| १८. | नीचदक्षिणस्य बहुवित्तस्याप्यार्त्विज्याकरणम् । |
| १९. | व्याधितादीनामार्त्विज्याभावः । |
| २०. | सोमप्रवाकं प्रति प्रश्नाः । |
| २१. | कल्याणेषु याज्यादिषु कर्मणः कर्तव्यत्वम् । |
| २२. | ऋत्विजां क्षीमांसयोः प्रतिषेधः । |
| २३. | ऋत्विजां क्रत्वन्ते दक्षिणाग्निहोमानन्तरं गमनम् । |
| २४. | अनाहिताग्नेः ऋत्विजो मन्त्रान्तरेण गृह्याग्नौ होमः । |
एकविंशः खण्डः ।
१. वरणानन्तरमृत्विजां मधुपर्काहरणम् ।
२, ३, ४. उपस्थितस्य स्नातकस्य राज्ञ आचार्यादीनां च मधुपर्काहरणम् ।
५. मधुपर्के द्रव्यमिश्रणप्रकारः ।
६. आसनादिद्रव्येष्वेकैकस्य त्रिस्त्रिनिवेदनम् ।
७. उदगग्रे विष्टरे मधुपर्क्यस्य जपित्वोपवेशनम् ।
८. प्रक्षालनार्थं विष्टरमाक्रम्य स्थित्वा वा पादप्रसारणम् ।
९. ब्राह्मणाय प्रथमं दक्षिणपादप्रसारणम् ।
१०. शूद्राय सव्यपादप्रसारणम् इतरयोर्यथेच्छम् ।
११. अर्घ्यग्रहणमाचमनीयं गन्धमाल्यादिपरिग्रहश्च ।
१२. आह्रियमाणं मधुपर्कं दृष्ट्वा मन्त्रजपः ।