भारतकोश
आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

पृष्ठ 94, कुल 292 में से

संदर्भ में पढ़ें
पृष्ठ 94
४४आश्वलायनगृह्यसूत्रम्[प्रथमोऽध्यायः

हविरुच्छिष्टं दक्षिणा ॥ २९ ॥

हविषो यद्धुतशिष्टं, सा दक्षिणा । अस्मादेव दक्षिणा- विधानादन्यः कर्तेति गम्यते । तन्त्रव्यपदेशे कृते सत्युत्तर- कालविधानाद् दक्षिणायाः पूर्वसूत्रेषु सर्वेषु पाकयज्ञेषु प्रवृत्ति- र्न भवति, किं तर्हि पार्वण एव स्थालीपाके । सर्वेषु स्थाली- पाकेष्वित्यन्ये ॥ २९ ॥

इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ प्रथमाध्याये अष्टमः खण्डः ।


अथ नवमः खण्डः ।

अथ पशुकल्पः ॥ १ ॥

अथशब्दोऽधिकारार्थः । इत उत्तरं पशुकल्पोऽधिकृतो वेदितव्यः । कल्पग्रहणं किमर्थम् । अथ पशुरित्युच्यमाने योऽयं त्रेतायां पशुर्विहितः स षाण्मास्यः सांवत्सरो वेति, तस्य स्थाने गृह्येऽग्नौ पशुर्विधीयत इति विज्ञायते । कल्पग्रहणात्तु योऽस्मिन् गृह्येऽन्यत्र चोदितः पशुरष्टकायां शूलगवे आतिथ्ये मधुपर्के, अथ काम्यानां स्थाने काम्या इत्यत्र च, तस्य पशोः कल्पमा- त्रमत्र विधीयत इत्यर्थो भवति ॥ १ ॥

उत्तरतोऽग्नेः शामित्रस्यायतनं कृत्वा पाययित्वा पशुमाप्लाव्य पुरस्तात् प्रत्यङ्मुखमवस्थाप्याग्निं दूतमिति द्वाभ्यां हुत्वा सपलाशयार्द्रशाखया पश्चादुपस्पृशेद- मुष्मै त्वा जुष्टमुपाकरोमीति ॥ २ ॥

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित) · पृष्ठ 94, कुल 292 में से · BharatKosha