भारतकोश
आयुर्वेद दर्शन

आयुर्वेद दर्शन

Ayurveda Darshan

वैद्य महादेव चन्द्रशेखर पाठक द्वारा

स्रोत: 1949 Edition · De Ra Ekatara Indoor · 1949 (उद्गम)

DevanagariHindipublished235 पृष्ठ

पृष्ठ 137, कुल 235 में से

संदर्भ में पढ़ें
पृष्ठ 137

११६

अयुर्वेद-दर्शन

स्यात्; इयामाकवरकोहालककारदूषकंद्मूलभक्ष्याश्च निखिलेन अनपत्याः स्युः । तच्च उभयमुभयत्रैव दृश्यते । न खल्वपि परलोकोदेय सत्त्वं गर्भमवक्रामति । यदि एनम् अवक्रामेतु न अस्य किञ्चित्तेव पौर्वेदद्विकम्, स्यात् अवदित-मश्रुतमदृष्टं वा । स च किञ्चिदपि न स्मरति । तस्मात् ब्रूमहे “अमातृजश्रयं गर्भः अपितृजश्र, अनात्मजश्र, असात्म्यजश्र, असजश्र न च अस्ति सत्त्वमौपपादिकम्” इति होवाच भारद्वाजः ।

यदि अयम् एषां नानाविधानां गर्भकराणामेव भावानां समुदायात् अभिनिर्वर्तते गर्भः, कथमयं संधीयते ? यदि चापि संधीयते, कस्मात्समुदायप्रभवः सन् गर्भो मनुष्य विग्रहेण जायते ? मनुष्यश्च मनुष्यप्रभव उच्यते; तत्रचेत् इष्टमेतत् यस्मान्मनुष्यो मनुष्यप्रभवः तस्मादेव मनुष्यविग्रहेण जायते, यथा गौः गोप्रभवः यथा च अश्वो अश्वप्रभव इति' एवं सति यदुक्तमग्ने 'समुदायात्मक इति' तत् अयुक्तम् । यदि च मनुष्यो मनुष्यप्रभवः, कस्मात् जडांधकुञ्जमूकवामनमिम्मिण न्यगोन्मत्तकुष्ठकिलासिभ्यो जाताः पितृसहस्ररूपा न भवति ? अथ तत्रापि बुद्धेरैवं स्यात् 'स्नेनैवायमात्मा, चक्षुषा रूपाणि वेत्ति, श्रोत्रेण शब्दान्, घ्राणेन गंधान्, रसनेन रसान्, स्पर्शनेन स्पर्शान्, बुद्धया बोद्धव्यम् इति' 'अनेन हेतुना न जडादिभ्यो जाताः पितृसहसा भवति' अत्रापि प्रतिज्ञा हानि-