आयुर्वेद दर्शन
Ayurveda Darshan
वैद्य महादेव चन्द्रशेखर पाठक द्वारा
स्रोत: 1949 Edition · De Ra Ekatara Indoor · 1949 (उद्गम)
पृष्ठ 136, कुल 235 में से
संदर्भ में पढ़ेंभारद्वाज का स्वभाववाद
११५
“नेति भारद्वाजः किं कारणं हि न माता न पिता न आत्मा न पानाश्रानसक्ष्यलेहोपयोगो गर्भं जनयति । नच परलोकादेत्य गर्भं सत्त्वमवकामति । यदि हि मातापितरौ गर्भं जनयेतां भूयश्च क्षियः पुमांसश्च पुत्रकामास्ते सर्वे पुत्रजन्मभिर्साधाय भैशुनधर्ममापद्यमानाः पुत्रानेव जनयेयुः दुहितु वा दुहितुकामाः । नच काचित् क्षियः केचिद्वा पुरुषा निरपत्याः स्युः अपत्याकामाश्च परिदेवेरन् । नच आत्मा, आत्मानं जनयति । यदि हि आत्मा आत्मानं जनयेत् जातो वा जनयेद्आत्मानमजातो वा जनयति ? तच्चोभयथाप्ययुक्तम् । न जातो जनयति, सत्त्वात् । नचैव अजातो जनयेत् असत्त्वात् । तरमादुभयथाप्यनुपपत्तिः । तिष्ठतु, अथतावदेतत् यदि अयम्, आत्मानं शक्तो जनयितुं स्यात् नत्येन इष्टास्वेव कथं योनिषु जनयेत् ? वशिन्म, अप्रतिहतगतिं, कामरूपिणं, तेजोबलजवर्णं सत्त्वसंहननसत्त्वसमुदितम्, अजरम्, अरुजम्, अमरम् एवं विधं हि आत्मा, आत्मानमिच्छन् नित्यतो वा भूयः ? असात्म्यजज्ञायं गर्भो यदि हि सात्म्यजः स्यात् तर्हि सात्म्यसेविनामेव एकांतेन व्यक्तं प्रजाः स्यात् असात्म्यसेविनश्च निखिलेन अनपत्याः स्युः । तच्च उभयमुभयत्रैवद्वश्यते । अरसजज्ञायं गर्भः, यदि हि रसजः स्यात् न केचित् स्त्रीपुरुषेषु अनपत्याः स्युः । नहि कश्चिदस्ति एषां यो रसात्रोपयुक्ते । श्रेष्ठरसोपभोगिनां चेत् गर्भो जायते इत्यतोऽभिप्रेताभिति । एवं सति आजौरप्रमार्गमायुरगोक्षीरकृषिमधुयुततैलैर्षधवेक्ष्णुरसमुद्ग्नशालिप्रभृतानामेव एकांतेन प्रजाः