आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 109, कुल 232 में से
संदर्भ में पढ़ें९० आयुर्वेदीयग्रन्थमाला । [अध्यायः हिमकुन्देन्दुसंकाशं निर्धूमं कृष्णवर्त्मनि । रक्तिकाऽस्य प्रदातव्या पुराणगुडयोगतः ॥ २७ ॥ पथ्यं च चणकस्योक्ता रोटिका षष्टिकौदनम् । निर्लोणं, किंचनाप्यन्यन्न खादेदेकविंशतिम् । दिनानि निर्वातगतः सर्वव्यापारवर्जितः ॥ २८ ॥ अथ फलम्— गलत्कुष्ठं पुण्डरीकं श्वित्रं कापालिकं तथा । औदुम्बरं ऋष्यजिह्वं काकणं स्फोटमुल्बणम् ॥ २९ ॥ वातरक्तं पाण्डुरोगं दद्रूं पामां विचर्चिकाम् । विसर्पमर्शसि तथा विपादीं च भगन्दरम् ॥ ३० ॥ सर्वथा क्रमशो हन्ति सेवितं हरितालकम् । अन्यानपि व्रणान् सर्वानन्धकारमिवांशुमान् ॥ ३१ ॥ इति हरितालमारणम् ॥ अथ मात्रापरिमितिः— रोगी, तण्डुलपरिमितां मात्रां सितोपलाजीरकचूर्णानुपानेन सह भक्षयेत् । पथ्यं पूर्वोक्तं षष्टिकौदनं गोदुग्धं वा । अर्ध- भागेन तस्य तु रक्तिपरिमिता मात्रा, गुणास्तु पूर्वस्मादधि- कतराः । विशेषस्तु— राजयक्ष्मादिकान् रोगान् विजित्य कुरुते वपुः । वज्रतुल्यं जरां हत्वा नृणां पथ्याशिनां ध्रुवम् ॥ ३२ ॥ इति हरितालमारणम् ॥ अथ सिद्धमते— तबक्याख्यं हरितालं महिषीमूत्रे, घृतकुमारीरसे, चूर्णतोये, शरपुङ्खारसे, कूष्माण्डरसे, निम्बूरसे च पृथक्पृथक् षट्प्रहरं संशोध्यं, इति शुद्धिः । अथ मर्दनं—कूष्माण्डरसेन दिनानि २१, कागदीनिम्बूरसेन दिनानि २१, धत्तूररसेन दिनानि २१,