आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 111, कुल 232 में से
संदर्भ में पढ़ें९२ आयुर्वेदीयग्रन्थमाला । [अध्यायः अर्शादयोऽष्टौ महारोगाः, वह्निमान्द्यजा ग्रहणीप्रभृतयः, मधु- मेहाद्याः सर्वे प्रमेहाः, मेदोवृद्ध्यर्बुदगण्डमालाद्याः कठिनवि- काराः, आमवातगृध्रस्याद्या मूढविकाराः, राजयक्ष्माद्याः शोषाः, किं चाशीतिसंख्या वातरोगाः, अनुपानभेदेन चत्वा- रिशत्पित्तरोगाः, विंशतिसंख्याका कफजा रोगाः, दश रक्तजा रोगाः शीघ्रं प्रणश्यन्ति जराव्याधिविनाशश्च भवति; दिव्यदेहः कान्तिधृतिमान् सत्त्वसंयुतः कामिनीकामदर्पघ्नस्तार्क्ष्यदृष्टिः शूरो वदान्यश्च भवतीति सिद्धमते हरितालमारणम् । सिद्धाद्यैस्तु हरितालश्चतुर्विधः प्रोक्तः—बुगदादी १, गोदन्ती २, तबकी ३, पिण्डतालश्च ४; एते पिण्डाख्यात् क्रमेण श्रेष्ठतरा ज्ञेयाः ॥ अथ तालकसत्त्वपातनविधिः— लाक्षा राजी तिलाः शिग्रुटङ्कणं लवणं गुडम् । तालकार्धेन संमिश्र्य छिद्रमूष्यां निरोधयेत् । पुटेत्पातालयन्त्रेण सत्त्वं पतति निश्चितम् ॥ ३३ ॥ अथ रसपद्धत्याम् ।— कुलित्थक्वाथटङ्कणमहिषीघृतमधुयुक्तं हरितालं शुद्धं दध्या- ज्येन भावितं हण्डिकायां क्षित्त्वा उपरि मल्लं सच्चिद्रं दत्त्वा संधिलेपं कृत्वा क्रमेण वह्निं यामचतुष्टयं दद्यात्, याव- न्नीलः पीतो वा धूमो ह्यागच्छति, ततः पाण्डुरे धूमे दृष्टे सति एकप्रहरमात्रं छिद्रं गोमयेनाच्छाद्य तीव्रमग्निं दद्यात्, यामान्ते चोत्पाट्य पाण्डुरधूमे दृष्टे सति अग्निं पूर्णं कुर्यात्; पश्चाच्छीतां स्थालीमुत्तार्य सत्त्वं ग्राह्यम् ॥ अन्यच्च ।— जेपालसत्त्ववातारिवीजमिश्रं च तालकम् । कूपीस्थं वालुकायन्त्रे सत्त्वं मुञ्चति यामतः ॥ ३४ ॥ इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतंसोपाध्यायश्रीमाधवविरचिते आयु- र्वेदप्रकाशे पञ्चमोऽध्यायः ॥ ५ ॥