आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 120, कुल 232 में से
संदर्भ में पढ़ें९. ] आयुर्वेदप्रकाशः । १०१ अन्यच्च— नागार्जुनेन संदिष्टौ रसश्च रसकावुभौ । श्रेष्ठौ सिद्धरसौ ख्यातौ देहलोहकरौ परौ ॥ ६ ॥ रसश्च रसकश्चोभौ येनाग्निसहनौ कृतौ । देहलोहमयी सिद्धिर्दासी तस्य न संशयः ॥ ७ ॥ अशुद्धः खर्परः कुर्याद्भ्रान्तिं भ्रान्तिं विशेषतः । तस्माच्छोध्यः प्रयत्नेन यावद्भ्रान्तिविवर्जितः ॥ ८ ॥ अथ शोधनम् ।— नृमूत्रे वाऽथ गोमूत्रे जलाम्ले वा ससैन्धवे । सप्ताहं त्रिदिनं वाऽपि पक्वः शुध्यति खर्परः ॥ ९ ॥ अथ वाग्भटः— खर्परः परिसंतप्तः सप्तवारं निमज्जितः । बीजपूररसस्यान्तर्निर्मलत्वं समश्रुते ॥ १० ॥ अथान्यच्च— नृमूत्रे वाऽश्वमूत्रे वा तक्रे वा काञ्जिकेऽथवा । प्रताप्य मज्जितं सम्यक् खर्परं परिशुध्यति ॥ ११ ॥ मतान्तरम्— कटुकालाबुनिर्यासे आलोड्य रसकं पचेत् । शुद्धं दोषविनिर्मुक्तं पीतवर्णं च जायते ॥ १२ ॥ अथान्यच्च— नरमूत्रे स्थितो मासं रसको रञ्जयेद्ध्रुवम् । शुद्धं ताम्रं रसं तारं शुद्धं स्वर्णप्रभं यथा ॥ १३ ॥ क्वचिदस्य भस्मप्रकार उक्तः— खर्परं पारदेनैव चूर्णयित्वा दिनं पचेत् । वालुकायन्त्रमध्यस्थं शोणं भस्म प्रजायते ॥ १४ ॥ १ 'शोभनं भस्म जायते' ग. ।