आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 119, कुल 232 में से
संदर्भ में पढ़ें१०० आयुर्वेदीयग्रन्थमाला । [अध्यायः अथ कासीसम् । तत्तु भस्स्रवन्मृत्तिकाऽम्ला । कासीसं धातुकासीसं पांसुकासीसमित्यपि । तदेव किंचित्पीतं तु पुष्पकासीसमुच्यते ॥ ३१ ॥ कासीसद्वयमम्लोष्णं तिक्तं च तुवरं तथा । वातश्लेष्महरं केश्यं नेत्र्यं कण्डूविषप्रणुत् ॥ ३२ ॥ मूत्रकृच्छ्राश्मरीश्वित्रनाशनं परिकीर्तितम् । सकृद्भृङ्गाम्बुना स्विन्नं कासीसं निर्मलं भवेत् ॥ ३३ ॥ इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतंसोपाध्यायश्रीमाधवविरचिते आयु- र्वेदप्रकाशेऽष्टमोऽध्यायः ॥ ८ ॥ अथ नवमोऽध्यायः । अथ रसकः । 'खपरिया' इति परिभाषा ॥ रसकं तुत्थभेदः स्यात्खर्परं चापि तत्स्मृतम् । ये गुणास्तुत्थके प्रोक्तास्ते गुणा रसके स्मृताः ॥ १ ॥ खर्परो द्विविधो ज्ञेयो दर्दुरः कारवेल्लकः । सदलो दर्दुरः प्रोक्तो निर्दलः कारवेल्लकः ॥ २ ॥ सत्त्वपाते दर्दुरः स्यादौषधे कारवेल्लकः । अथ गुणाः— रसकः सर्वमेहघ्नः कफपित्तविनाशनः ॥ ३ ॥ नेत्ररोगक्षयघ्नश्च लोहपारदरञ्जनः । अथान्यत्रापि— खर्परं कटुकं क्षारं कषायं वामकं लघु ॥ ४ ॥ लेखनं भेदनं शीतं चक्षुष्यं कफपित्तनुत् । विपाश्मकुष्ठकण्डूनां नाशनं परमं मतम् ॥ ५ ॥