आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 118, कुल 232 में से
संदर्भ में पढ़ें८ ] आयुर्वेदप्रकाशः । ९९ अशुद्धो गुणदो नैव शुद्धोऽम्लैः स गुणप्रदः । शङ्खश्च विमलः श्रेष्ठश्चन्द्रकान्तिसमप्रभः ॥ २१ ॥ अम्लैः काञ्जिकादिभिर्दोलायन्त्रे स्विन्नः सन् शुध्यतीत्यर्थः । अथ खटिका 'खडी' इति भाषा । खटिका खटिनी चापि लेखनी च निगद्यते । खटी गौरखटी चेति द्विधाऽऽद्या मलिना स्मृता ॥ २२ ॥ मृदुपाषाणसदृशी खटी शुभ्राऽधिका गुरुः । खटी दाहास्रनुच्छीता मधुरा विषशोथजित् ॥ २३ ॥ कफघ्नी नेत्रयोः पथ्या लेखने बालकोचिता । तद्वत्पाषाणखटिका व्रणपित्तास्रजिद्धिमा ॥ २४ ॥ लेपादेते गुणा प्रोक्ता भक्षिता मृत्तिकासमा । खटी गौरखटी द्वे च गुणैस्तुल्ये प्रकीर्तिते ॥ २५ ॥ अथ गैरिकं 'गेरु' इति भाषा । गैरिकं रक्तधातुश्च गैरेयं गिरिजं तथा । द्विविधं गैरिकं प्राहुः स्वर्ण सामान्यगैरिकम् ॥ २६ ॥ परैस्तृतीयमप्युक्तं पाषाणाख्यं हि गैरिकम् । सुवर्णगैरिकं रक्ततरं शिष्टं तु रक्तकम् ॥ २७ ॥ अथ गुणाः— गैरिकद्वितयं स्निग्धं मधुरं तुवरं हिमम् । चक्षुष्यं दाहपित्तास्रकफहिक्काविषापहम् ॥ २८ ॥ अतिकण्डूहरं रूक्षं तथा प्रोक्तमुदर्दनुत् । पाषाणगैरिकं त्वन्यद्विकालक्ष्मीविषापहम् ॥ २९ ॥ सुवर्णगैरिकं श्रेष्ठं गैरिकद्वितयात्परम् । गैरिकं किंचिदाज्येन भृष्टं शुद्धं प्रजायते ॥ ३० ॥