आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 117, कुल 232 में से
संदर्भ में पढ़ें९८ आयुर्वेदीयग्रन्थमाला। [ अध्यायः अथ गुणाः— चुम्बको लेखनः शीतो मेदोविषजरापहः। कण्डूपाण्डूदरक्षैण्यमोहमूर्छ्छायरोगहृत् ॥ १२ ॥ अथास्य शोधनमुपयोगश्च— सौभाञ्जनरसे साम्लवर्गे दोलागतो दिनम्। पाचितः शुध्यते कान्तपाषाणः पारदोपकृत् ॥ १३ ॥ अथ स्फटिका। 'फिटिकडी' इति भाषा। तस्या नामलक्षणगुणशोधनानि— स्फटिका च स्फटी प्रोक्ता श्वेता शुभ्रा च रङ्गदा। दृढरङ्गा रङ्गदृढा रङ्गाङ्गा चापि कथ्यते ॥ १४ ॥ अथ गुणाः— स्फटिका तु कषायोष्णा वातपित्तकफव्रणान्। निहन्ति श्वित्रवीसर्पान् योनिसंकोचकारिणी ॥ १५ ॥ स्फटिका निर्मला श्वेता श्रेष्ठा स्याच्छोधनं क्वचित्। न दृष्टं शास्त्रतो, लोका वह्नावुत्फुल्लयन्ति हि ॥ १६ ॥ अथ शङ्खस्य नामलक्षणगुणशोधनानि। शङ्खः समुद्रजः कम्बुः क्षुद्रः शङ्खनकः स्मृतः। द्विधा स दक्षिणावर्तो वामावर्तः शुभेतरः ॥ १७ ॥ दक्षिणावर्तशङ्खस्तु पुण्ययोगादवाप्यते। यद्गृहे तिष्ठतेऽसौ वै स लक्ष्म्या भाजनं भवेत् ॥ १८ ॥ दक्षिणावर्तशङ्खस्तु त्रिदोषघ्नः शुचिर्निधिः। ग्रहालक्ष्मीक्षयश्वेडक्षामताक्ष्यामयापहः ॥ १९ ॥ अथान्यः शङ्खः— शङ्खः क्षारो हिमो ग्राही ग्रहणीरोगनाशनः। नेत्रपुष्पहरो वर्ण्यस्तारुण्यपिटिकाप्रणुत् ॥ २० ॥ CC0, Gurukul Kangri Collection, Haridwar, Digitized by eGangotri