आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 116, कुल 232 में से
संदर्भ में पढ़ें८.] आयुर्वेदप्रकाशः । ९७ अथ गुणान्तरम् ।— टङ्कणो वह्निकृत्स्वर्णरूप्ययोः शोधनः परः । विषदोषहरो हृद्यो वातश्लेष्मविकारनुत् ॥ ३ ॥ अपरो नीलकण्ठाख्यटङ्कणः पूर्वटङ्कणात् । श्रेष्ठो नीलच्छविः किंचिच्छोधनं तस्य पूर्ववत् ॥ ४ ॥ अथ राजावर्तः । ‘लाजावर्त’ (लाजवर्द) इति भाषा, ‘रेवटी’ इति च । राजावर्तः स्मृतः कैश्चिद्बुधैरुपरसे तथा । रत्नजातौ स्मृतः कैश्चिल्लक्षणं तस्य कथ्यते ॥ ५ ॥ राजावर्तो द्विधा प्रोक्तः सरक्तो नीलिमाश्रितः । गुरुः श्रेष्ठः स कथितस्तदन्यो हीन उच्यते ॥ ६ ॥ गुणाः— राजावर्तः कटुस्तिक्तः शिशिरः पित्तनाशनः । प्रमेहनाशकः प्रोक्तश्छर्दिहिक्कानिवारणः ॥ ७ ॥ अथ शोधनमारणम् ।— गन्धाश्ममातुलुङ्गाम्लशृङ्गवेररसेन च । विशुध्यति म्रियते च पुटितो नात्र संशयः ॥ ८ ॥ अथ सत्त्वपातनम्— मनःशिलाज्यसंमिश्रः पाच्यः पात्रे हि लोहजे । पश्चाच्च महिषीक्षीरे सौभाग्यपञ्चकान्वितः ॥ ९ ॥ एकीकृत्याथ पिण्डं तु कृत्वा मूषानिवेशितम् । ध्मातस्तु खदिराङ्गारैः सत्त्वं मुञ्चति तद्गतम् ॥ १० ॥ अथ चुम्बकः । स तु पाषाणजातिः । उक्तं च— कान्तलोहाश्मभेदाः स्युश्चुम्बकभ्रामकादयः । चुम्बकः कान्तपाषाणोऽयस्कान्तो लोहकर्षकः ॥ ११ ॥ ९