भारतकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 115, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 115

९६ आयुर्विदीयग्रन्थमाला। [ अध्यायः अथ नीलाञ्जनशुद्धिः— नीलाञ्जनं चूर्णयित्वा जम्बीररसभावितम् । दिनैकमातपे शुद्धं भवेत्कार्येषु योजयेत् ॥ १४ ॥ अन्यच्च— अथवा भृङ्गद्रावे स्विन्नानि सकलान्यपि । अञ्जनानि विशुध्यन्ति सत्त्वं तेषां शिलासमम् ॥ १५ ॥ मनःशिलावत्सत्त्वं ग्राह्यमित्यर्थः । षष्ठं कुलित्थाञ्जनमित्युक्तं राजनिघण्टौ— कुलित्था दृक्प्रसादा च चक्षुष्या च कुलित्थका । कुकुलाली लोकहिता कुम्भकारी मलापहा ॥ १६ ॥ अथ कुलित्थगुणाः— कुलित्थिका तु चक्षुष्या कषाया कटुका हिमा । विषविस्फोटकण्डूतिव्रणदोषनिवर्हणी ॥ १७ ॥ इति वनकुलित्थाञ्जनं, 'चाकसू' इति पाश्चात्याः, 'चिमड' इति भाषा । निस्तुषीकृतवनकुलित्था चूर्णं पटेन संशोध्य शिशूनां नेत्ररोगे योजनीयम् । इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतंसोपाध्यायश्रीमाधवविरचिते आयु- र्वेदप्रकाशे सप्तमोऽध्यायः ॥ ७ ॥ अथाष्टमोऽध्यायः । अथ टङ्कणक्षारः । 'सुहागा' इति भाषा । तस्य नामलक्षणगुणशुद्धिः— सौभाग्यं टङ्कणक्षारो धातुद्रावकमुच्यते । टङ्कणोऽग्निकरो रूक्षः कफघ्नो वातपित्तकृत् ॥ १ ॥ अशुद्धटङ्कणगुणाः— अशुद्धटङ्कणो वान्तिभ्रान्तिकारी प्रयोजितः । अतस्तं शोधयेदेव वह्नावुत्फुल्लितः शुचिः ॥ २ ॥