आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
८ ] आयुर्वेदप्रकाशः । ९९ अशुद्धो गुणदो नैव शुद्धोऽम्लैः स गुणप्रदः । शङ्खश्च विमलः श्रेष्ठश्चन्द्रकान्तिसमप्रभः ॥ २१ ॥ अम्लैः काञ्जिकादिभिर्दोलायन्त्रे स्विन्नः सन् शुध्यतीत्यर्थः । अथ खटिका 'खडी' इति भाषा । खटिका खटिनी चापि लेखनी च निगद्यते । खटी गौरखटी चेति द्विधाऽऽद्या मलिना स्मृता ॥ २२ ॥ मृदुपाषाणसदृशी खटी शुभ्राऽधिका गुरुः । खटी दाहास्रनुच्छीता मधुरा विषशोथजित् ॥ २३ ॥ कफघ्नी नेत्रयोः पथ्या लेखने बालकोचिता । तद्वत्पाषाणखटिका व्रणपित्तास्रजिद्धिमा ॥ २४ ॥ लेपादेते गुणा प्रोक्ता भक्षिता मृत्तिकासमा । खटी गौरखटी द्वे च गुणैस्तुल्ये प्रकीर्तिते ॥ २५ ॥ अथ गैरिकं 'गेरु' इति भाषा । गैरिकं रक्तधातुश्च गैरेयं गिरिजं तथा । द्विविधं गैरिकं प्राहुः स्वर्ण सामान्यगैरिकम् ॥ २६ ॥ परैस्तृतीयमप्युक्तं पाषाणाख्यं हि गैरिकम् । सुवर्णगैरिकं रक्ततरं शिष्टं तु रक्तकम् ॥ २७ ॥ अथ गुणाः— गैरिकद्वितयं स्निग्धं मधुरं तुवरं हिमम् । चक्षुष्यं दाहपित्तास्रकफहिक्काविषापहम् ॥ २८ ॥ अतिकण्डूहरं रूक्षं तथा प्रोक्तमुदर्दनुत् । पाषाणगैरिकं त्वन्यद्विकालक्ष्मीविषापहम् ॥ २९ ॥ सुवर्णगैरिकं श्रेष्ठं गैरिकद्वितयात्परम् । गैरिकं किंचिदाज्येन भृष्टं शुद्धं प्रजायते ॥ ३० ॥
१०० आयुर्वेदीयग्रन्थमाला । [अध्यायः अथ कासीसम् । तत्तु भस्स्रवन्मृत्तिकाऽम्ला । कासीसं धातुकासीसं पांसुकासीसमित्यपि । तदेव किंचित्पीतं तु पुष्पकासीसमुच्यते ॥ ३१ ॥ कासीसद्वयमम्लोष्णं तिक्तं च तुवरं तथा । वातश्लेष्महरं केश्यं नेत्र्यं कण्डूविषप्रणुत् ॥ ३२ ॥ मूत्रकृच्छ्राश्मरीश्वित्रनाशनं परिकीर्तितम् । सकृद्भृङ्गाम्बुना स्विन्नं कासीसं निर्मलं भवेत् ॥ ३३ ॥ इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतंसोपाध्यायश्रीमाधवविरचिते आयु- र्वेदप्रकाशेऽष्टमोऽध्यायः ॥ ८ ॥ अथ नवमोऽध्यायः । अथ रसकः । 'खपरिया' इति परिभाषा ॥ रसकं तुत्थभेदः स्यात्खर्परं चापि तत्स्मृतम् । ये गुणास्तुत्थके प्रोक्तास्ते गुणा रसके स्मृताः ॥ १ ॥ खर्परो द्विविधो ज्ञेयो दर्दुरः कारवेल्लकः । सदलो दर्दुरः प्रोक्तो निर्दलः कारवेल्लकः ॥ २ ॥ सत्त्वपाते दर्दुरः स्यादौषधे कारवेल्लकः । अथ गुणाः— रसकः सर्वमेहघ्नः कफपित्तविनाशनः ॥ ३ ॥ नेत्ररोगक्षयघ्नश्च लोहपारदरञ्जनः । अथान्यत्रापि— खर्परं कटुकं क्षारं कषायं वामकं लघु ॥ ४ ॥ लेखनं भेदनं शीतं चक्षुष्यं कफपित्तनुत् । विपाश्मकुष्ठकण्डूनां नाशनं परमं मतम् ॥ ५ ॥
९. ] आयुर्वेदप्रकाशः । १०१ अन्यच्च— नागार्जुनेन संदिष्टौ रसश्च रसकावुभौ । श्रेष्ठौ सिद्धरसौ ख्यातौ देहलोहकरौ परौ ॥ ६ ॥ रसश्च रसकश्चोभौ येनाग्निसहनौ कृतौ । देहलोहमयी सिद्धिर्दासी तस्य न संशयः ॥ ७ ॥ अशुद्धः खर्परः कुर्याद्भ्रान्तिं भ्रान्तिं विशेषतः । तस्माच्छोध्यः प्रयत्नेन यावद्भ्रान्तिविवर्जितः ॥ ८ ॥ अथ शोधनम् ।— नृमूत्रे वाऽथ गोमूत्रे जलाम्ले वा ससैन्धवे । सप्ताहं त्रिदिनं वाऽपि पक्वः शुध्यति खर्परः ॥ ९ ॥ अथ वाग्भटः— खर्परः परिसंतप्तः सप्तवारं निमज्जितः । बीजपूररसस्यान्तर्निर्मलत्वं समश्रुते ॥ १० ॥ अथान्यच्च— नृमूत्रे वाऽश्वमूत्रे वा तक्रे वा काञ्जिकेऽथवा । प्रताप्य मज्जितं सम्यक् खर्परं परिशुध्यति ॥ ११ ॥ मतान्तरम्— कटुकालाबुनिर्यासे आलोड्य रसकं पचेत् । शुद्धं दोषविनिर्मुक्तं पीतवर्णं च जायते ॥ १२ ॥ अथान्यच्च— नरमूत्रे स्थितो मासं रसको रञ्जयेद्ध्रुवम् । शुद्धं ताम्रं रसं तारं शुद्धं स्वर्णप्रभं यथा ॥ १३ ॥ क्वचिदस्य भस्मप्रकार उक्तः— खर्परं पारदेनैव चूर्णयित्वा दिनं पचेत् । वालुकायन्त्रमध्यस्थं शोणं भस्म प्रजायते ॥ १४ ॥ १ 'शोभनं भस्म जायते' ग. ।
१०२ आयुर्वेदीयग्रन्थमाला । [ अध्यायः अन्यच्च— खर्परं पत्तलं कृत्वा लवणान्तर्गतं पचेत् । जायते शोभनं भस्म सर्वरोगापहं स्मृतम् ॥ १५ ॥ सत्त्वप्रकारस्तु— लाक्षागुडासुरीपथ्याहरिद्रासर्जटङ्गणैः । सम्यक्संमर्द्य तत्पक्वं गोदुग्धेन प्लुतं तथा ॥ १६ ॥ वृन्ताकमूषिकामध्ये निरुध्य गुटिकाकृतिम् । ध्मात्वा ध्मात्वा समाकृष्य ढालयित्वा शिलातले ॥ १७ ॥ सत्त्वं वङ्गाकृति ग्राह्यं रसकस्य मनोरमम् । इति ॥ रसादिषु शोधयित्वैव देयम् ॥ इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतंसोपाध्यायश्रीमाधवविरचिते आयु- र्वेदप्रकाशे नवमोऽध्यायः ॥ ९ ॥ अथ दशमोऽध्यायः । अथ कपर्दिका । ‘कौडी’ इति भाषा ॥ कपर्दिका कपर्दी च वराटी च वराटिका । वराटिका त्रिधा प्रोक्ता श्वेता शोणा त्रिधाऽपरा ॥ १ ॥ पीता सा चातिचक्षुष्या श्वेता शोणा हिमाऽव्रणा । असिता विन्दुभिः श्वेतैर्लाञ्छिता रेखयाऽथवा ॥ २ ॥ बालग्रहहरी नाना कौतुकेषु च पूजिता । पीता गुल्मयुता पृष्ठे रसयोगेषु पूजिता ॥ ३ ॥ सार्धनिष्कप्रमाणाऽसौ श्रेष्ठा योगेषु युज्यते । निष्कप्रमाणा मध्या सा हीना पादोननिष्किा ॥ ४ ॥ अन्यत्रापि— पीताभा ग्रन्थिला पृष्ठे दीर्घवृन्ता वराटिका । सार्धनिष्कभरा श्रेष्ठा निष्कभारा च मध्यमा ॥ ५ ॥
१०. ] आयुर्वेदप्रकाशः । १०३ पादोननिष्कमभारा च कनिष्ठा परिकीर्तिता । वराटाः काञ्जिके स्विन्ना यामाच्छुद्धिमवाप्नुयुः ॥ ६ ॥ इति शोधनम् ॥ अङ्गाराग्नौ स्थिता ध्माता सम्यक्प्रोत्फुल्लिता यदा । स्वाङ्गशीता मृता सा तु पिष्ट्वा सम्यक् प्रयोजयेत् ॥ ७ ॥ इति भस्म ॥ कपर्दिका हिमा नेत्रहिता स्फोटक्षयापहा । कर्णस्रावाग्निमान्द्यघ्नी पित्तास्रकफनाशिनी ॥ ८ ॥ अन्यत्र— कटूष्णा दीपनी वृष्या तिक्ता वातकफापहा । परिणामादिशूलघ्नी ग्रहणीक्षयहारिणी । रसेन्द्रजारणे प्रोक्ता विडद्रव्येषु शस्यते ॥ ९ ॥ अथ सिकता । 'वालु' इति भाषा ॥ वालुका सिकता प्रोक्ता शर्करा रेतिकाऽपि च । वालुका मधुरा शीता संतापश्रमनाशिनी ॥ १० ॥ स्वेदप्रयोगतश्चैव शाखाशैत्यानिलापहा । तद्वच्च लेखनी प्रोक्ता व्रणोरःक्षतनाशिनी ॥ ११ ॥ शर्कराभ्यश्चुम्बकेन केचिद्गृह्णन्त्ययोरजः । सुकरं त्विदमाख्यातं तच्च संशोध्य मारयेत् ॥ १२ ॥ इति सिकतालोहरजोग्रहणप्रकारः ॥ अथ बोलस्य नामलक्षणगुणाः । बोलगन्धरसप्राणपिण्डगोपरसाः समाः । बोलं तु त्रिविधं प्रोक्तं रक्तं श्यामं मनुष्यजम् ॥ १३ ॥ गुणाः— बोलं रक्तहरं शीतं मेध्यं दीपनपाचनम् । मधुरं कटुकं तिक्तं ग्रहखेदत्रिदोषनुत् ॥ १४ ॥
१०४ आयुर्वेदीयग्रन्थमाला । [अध्यायः जरापस्मारकुष्ठघ्नं गर्भाशयविशोधनम् । चक्षुष्यं च सरं प्रोक्तं रक्तबोलं भिषग्वरैः ॥ १५ ॥ इति रक्तबोलम् ॥ श्यामबोलं तीक्ष्णगन्धं दद्रुकण्डूविषापहम् । कुष्ठापस्मारब्रध्नाशोरक्तग्रन्थिं च नाशयेत् ॥ १६ ॥ इति श्यामबोलम् ॥ अथ तृतीयं श्यामबोलम् ।— अपरं मानुषं बोलं सद्योव्रणविषापहम् । भग्नास्थिसन्धिजननं त्रिदोषशमनं हिमम् ॥ १७ ॥ धातुकान्तिवयःस्थैर्यवलौजोवृद्धिकारकम् । प्रमेहकुष्ठपिटिकासर्वव्रणविषापहम् ॥ १८ ॥ इति मोमियाई ॥ अथ कङ्कुष्ठोत्पत्तिनामलक्षणगुणाः । हिमाचलैकदेशे तु कङ्कुष्ठमुपजायते । तत्रैकं नलिकाख्यं स्यादन्यद्रेणुकनामकम् ॥ १९ ॥ पीतप्रभं गुरु स्निग्धं कङ्कुष्ठं शिलया समम् । मृद्वतीव शलाकाभं सच्छिद्रं नलिकाभिधम् ॥ २० ॥ रेणुकाख्यं तु कङ्कुष्ठं श्यामपीतरजोन्वितम् । त्यक्तसत्त्वं लघु प्रायः पूर्वस्माद्धीनवीर्यकम् ॥ २१ ॥ अथ नामानि— कङ्कुष्ठं काककुष्ठं च वराङ्गं कोलवालुकम् । अत्र केचित् ।— सद्योजातस्य करिणः शकृत्कङ्कुष्ठमुच्यते । यद्वा सद्यः प्रसूतस्य वाजिवालस्य विट् स्मृतम् ॥ २२ ॥
१०. ] आयुर्वेदप्रकाशः । १०५ नालं वा वाजिवालस्येत्येवं कङ्कुष्ठके भ्रमः । शुण्ठ्यम्बुभावितं शुद्धिं कङ्कुष्ठमुपगच्छति ॥ २३ ॥ अथ कङ्कुष्ठगुणाः ।— कङ्कुष्ठं रेचनं तिक्तं कटूष्णं वर्णकारकम् । कृमिशोषोदराध्मानगुल्मानाहकफापहम् ॥ २४ ॥ अन्यच्च— बब्बूलमूलिकाक्वाथजीरसौभाग्यटङ्कणम् । कङ्कुष्ठविपनाशाय भूयो भूयः पिबेन्नरः ॥ २५ ॥ अथ सौराष्ट्री । 'सोरठीमाती' इति भाषा ॥ सौराष्ट्री तुवरी काङ्क्षी मृत्तालकसुराष्ट्रजे । आढकी सापि च ख्याता मृत्स्ना च सुरमृत्तिका ॥ २६ ॥ स्फटिकाया गुणाः सर्वे सौराष्ट्रयामपि कीर्तिताः । तस्मात्परस्पराभावे प्रयोज्याऽन्यतरा बुधैः ॥ २७ ॥ अथान्येऽप्युपरसाः सन्ति यथा— अथ समुद्रफेननामगुणशोधनम् । अब्धिफेनोऽब्धिसारः स्यादब्धिजश्च समुद्रजः । समुद्रफेनश्चक्षुष्यो लेखनः शीतलः सरः ॥ २८ ॥ कर्णस्रावरुजागूत्थहरः पाचनदीपनः । अशुद्धः स करोत्यङ्गभङ्गं तस्माद्विशोधयेत् । समुद्रफेनः संपिष्टो निम्बुतोयेन शुध्यति ॥ २९ ॥ इति समुद्रफेनः ॥ अथ क्षुद्रशङ्खः । 'क्षुद्रशंखः' 'घोंघा' इति भाषा । तन्नामगुणाः— क्षुद्रशङ्खाः शङ्खनकाः शम्बूका जलशुक्तयः । शम्बूकः शीतलो नेत्ररुजास्फोटविनाशनः ॥ ३० ॥
१०६ आयुर्वेदीयग्रन्थमाला । [ अध्यायः शीतज्वरहरस्तीक्ष्णो ग्राही दीपनपाचनः । ग्रहणीरोगहन्ता च रक्तातीसारनाशनः ॥ ३१ ॥ अस्य शुद्धिस्तु महाशङ्खवद्बोध्या ॥ २ ॥ अथ शुक्तिः । 'शिंपी' 'छिप' इति भाषा । तन्नामानि यथा राजनिघण्टौ— शुक्तिर्मुक्ताप्रसूर्श्चैव महाशुक्तिश्च शुक्तिका ॥ मुक्तास्फोटोऽब्धिमण्डूकीमौक्तिकप्रसवा च सा । ज्ञेया मौक्तिकसूर्मुक्तामाता मौक्तिकमन्दिरम् ॥ ३२ ॥ अथ गुणाः— मुक्ताशुक्तिः कटुः स्निग्धा श्वासहृद्रोगहारिणी । शूलप्रशमनी रुच्या मधुरा दीपनी परा ॥ ३३ ॥ जलशुक्तिकानामानि— जलशुक्तिर्वारिशुक्तिः कृमिभूः क्षुद्रशुक्तिका । जम्बूका जलशुक्तिश्च पुटिका तोयशुक्तिका ॥ ३४ ॥ अथ गुणाः— जलशुक्तिः कटुः स्निग्धा दीपनी गुल्मशूलनुत् । विषदोषहरा रुच्या पाचनी बलदायिनी ॥ ३५ ॥ अनयोः शोधनं गुणाश्च— शुक्तिस्तु शिशिरा पित्तरक्तज्वरविनाशिनी । शोधनं शङ्खवत्तस्य मृतिः प्रोक्ता कपर्दवत् ॥ ३६ ॥ अथ कृष्णमृत्तिकानामगुणाः । 'कालीमाटी' इति भाषा । मृन्मृत्तिका प्रशस्ता तु मृत्स्ना मृत्सा च मृत्तिका । कृष्णमृत्क्षतदाहास्रप्रदरश्लेष्मपित्तनुत् ॥ ३७ ॥ अथ पङ्कः । 'काद्व' इति भाषा । तन्नामगुणाः— [पार्श्वे हस्तलिखितम्: चरके] पङ्कः कर्दम इत्युक्तो जम्बालः पङ्किलस्तथा । पङ्को दाहास्रपित्तार्तिशोफघ्नः शीतलः सरः ॥ ३८ ॥
text page line by line... faithfully".
So transcribe what is printed!
Wait, is it द्द?
Let's look at किट्टवद्भवेत् in line 22:
Look at द्भ: द with भ attached.
Look at कम्पिल्लस्तस्य in line 4.
Look at इष्टकापाकद्दहने: yes, it is द्द!
Wait, could it be इष्टकापाकद्दहने? Yes, it looks like इष्टकापाकद्दहने.
* Now let's check line 22:
`मनुष्यसूकराणां च विष्ठान्तः किट्टवद्भवेत् ।`
Wait, look at `विष्ठान्तः` vs `विष्ठातः`:
Let's zoom into `विष्ठातः`:
`वि`
`ष्ठा`
Then what?
Is it `तः`?
Wait, look at the stroke between `ष्ठा` and `तः`:
There is a vertical stem with a loop to the left: that's `न्`!
Then `तः`!
Wait, `न्` + `तः` = `न्तः`!
Yes, it clearly says `विष्ठान्तः`!
Wait, `विष्ठान्तः किट्टवद्भवेत्` - "inside the feces of humans and
१०८ आयुर्वीदीयग्रन्थमाला। [अध्यायः अथाग्निजार इति क्षारविशेषः। अब्धितीरेऽग्निनक्रस्य जरायुः शुष्कतां गतः। अग्निजारस्तु संप्रोक्तः स क्षारो जारणे हितः ॥ ४७ ॥ अथ गिरिसिन्दूरम्। गिरिसिन्दूरकं यत्तु गिरौ पाषाणजं भवेत्। किंचिद्धिङ्गुलतुल्याभं रसबन्धे हितं मतम्। धातुवादेऽपि तत्पूज्यं नेत्ररोगघ्नमीरितम् ॥ ४८ ॥ अथ बोदारशृङ्गम्। ‘मुद्दारशिंगी’ इति भाषा ॥ बोदारशृङ्गकं प्रोक्तं द्विविधं पीतपाण्डुरम्। सदलं निर्दलं तस्य जनिर्गूर्जरमण्डले ॥ ४९ ॥ अर्बुदाख्यगिरेः पार्श्वे सीससत्त्वसमं परम्। केश्यं पुरुषरोगघ्नं रञ्जनं रसबन्धकम् ॥ ५० ॥ उक्तं च।— कम्पिल्लश्चपलो गौरीपाषाणो नवसादरः। वह्निजारोऽथ सिन्दूरं साधारणरसाः स्मृताः ॥ ५१ ॥ अथैषां शोधनम्।— साधारणरसाः सर्वे मातुलुङ्गार्द्रकाम्बुना। त्रिवारं भाविताः शुष्का भवेयुर्दोषवर्जिताः ॥ ५२ ॥ महारसः स एव स्याद्गन्धाद्युपरसाः स्मृताः। गन्धको वज्रवैक्रान्तौ सिन्दूरं बोलगैरिकम् ॥ ५३ ॥ समुद्रफेनः खटिकाद्वयं शम्बूकतार्क्ष्यजौ। कासीसं कान्तपाषाणो वराटी शुक्तिहिङ्गुलाः ॥ ५४ ॥ कङ्कुष्ठं शङ्खभूनागौ टङ्कणं च शिलाजतु। उक्ता उपरसा एते द्रव्यनिर्णयकारिभिः ॥ ५५ ॥
'? No, it has: द ् र व ्य ा न् त र - wait! Look at the letter after 'ा': It is 'न' with a reph? No, it's 'न्र्'? Wait, look at it: न् + त = न्त! Wait, above 'त' there is an anusvara? No, look at: द्र - व्या - न्त - र - स - यो - ग - जाः Wait, between 'व्या' and 'त', there is: A letter: look at the top: It has a reph? No, there is: न् + त = न्त. But wait! There is a diagonal stroke across the stem? Wait, let's look at "द्रव्यान्तरसंयोगजाः": Is there an anusvara on 'सं'? Wait! Look at: "सयोगजाः" - does 'स' have an anusvara? No! There is NO dot above 'स'! It is clearly 'सयोगजाः'! Wait, what about the word before it? Let's look at the letters: द् - र - व् - य - ा - then: न्र्त? Wait, look at that cluster: It has 'न', under which there is a virama or reph? No, it looks like: न् + र + त ? Or is it just a damaged type of 'न्तर'? Wait! Look at the letter: It's 'न्'
११० आयुर्वेदीयग्रन्थमाला । [ अध्यायः कन्दर्पदर्पविध्वस्तचेतसो जातवेदसः । पतितं यद्धरापृष्ठे रेतस्तद्धेमतामगात् ॥ ७ ॥ कृत्रिमं चापि भवति तद्रसेन्द्रस्य वेधतः । मेरुसानुपतज्जम्बूफलाम्भोयोगतः परम् ॥ ८ ॥ दिव्यौषधिमणिसस्पर्शादन्यद्भवति काञ्चनम् । एवं नानाविधानीह जायन्ते काञ्चनानि वै ॥ ९ ॥ उक्तं च— सुवर्णं पञ्चधा ख्यातं प्राकृतं सहजं परम् । वह्निजं खनिजं तद्वद्रसेन्द्रवेधसंभवम् ॥ १० ॥ ब्रह्माण्डं संवृतं येन प्रकृत्या प्राकृतं च तत् । ब्रह्मा येन सहोत्पन्नः सहजं हेम तत्स्मृतम् ॥ ११ ॥ वह्निजं तु समाख्यातमेतानि दुर्लभानि हि । मनु(१४)वर्णं लोकसिद्धं प्रायशः खनिजं हि यत् ॥ १२ ॥ तत्स्वर्णं मारणार्थं तु ग्राह्यं लक्षणलक्षितम् । वर्णमृत्तिकया लिप्त्वा मुनिशो ध्मापितं वसु । विशुध्यति वरं किंचिद्वर्णवृद्धिश्च जायते ॥ १३ ॥ यया कुम्भकाराः भाण्डानि रञ्जयित्वा पाचयन्ति सा वर्णमृत्तिकेत्युच्यते, ‘कावीस’ इति भाषा । मतान्तरम्— वल्मीकमृत्तिका धूमं गैरिकं चेष्टिका पडु । इत्येता मृत्तिकाः पञ्च जम्बीरैरारनालकैः ॥ १४ ॥ पिष्ट्वा कण्टकवेध्यानि स्वर्णपत्राणि लेपयेत् । पुटेत्पृथुहसन्त्यां तु निर्वात विंशदुत्पलैः ॥ १५ ॥ अधिकैर्वाऽधिके हेम्नि यावद्वर्णो विवर्धते । इत्येवं पुटनैर्युक्त्या सम्यक् शुध्यति काञ्चनम् ॥ १६ ॥ १ मुनिशः सप्तवारम् ।
११.] आयुर्वेदप्रकाशः । १११ मतान्तरम् ।— मृत्तिकाः पञ्च लुङ्गाम्लैः पञ्चवासरभाविताः । सभस्मलवर्णा हेम्नः शोधन्यः पुटपाकतः ॥ १७ ॥ अन्यच्च— सुवर्णमुत्तमं वह्नौ विद्रुतं निक्षिपेत्त्रिशः । काञ्चनाररसे शुद्धं काञ्चनं जायते भृशम् ॥ १८ ॥ इति स्वर्णशोधनम् । अत्र केचित् ।— इयमेव सुवर्णस्य शुद्धिर्नान्या हि विद्यते । तैले तक्रादिके या तु रूप्यादीनामुदाहृता ॥ १९ ॥। अथ स्वर्णनामानि— स्वर्णं सुवर्णं कनकं हिरण्यं हेम हाटकम् । तपनीयं कलधौतं गाङ्गेयं भर्म काञ्चनम् ॥ २० ॥ चामीकरं शातकुम्भं तथा कार्तस्वरं च तत् । जाम्बूनदं जातरूपं महारजतमित्यपि ॥ २१ ॥ अथ सदसत्सुवर्णलक्षणम्— दाहे रक्तं सितं छेदे निकषे कुङ्कुमप्रभम् । तारशुल्बोज्झितं स्निग्धं कोमलं गुरु हेम सत् ॥ २२ ॥ यच्छ्वेतं कठिनं रूक्षं विवर्णं समलं दलम् ॥ दाहे छेदे सितं, श्वेतं कषे त्याज्यं लघु स्फुटम् ॥ २३ ॥ दलं नाम यद्धनाहतं स्फुटति । अथ स्वर्णगुणाः— स्वर्णं स्निग्धकषायतिक्तमधुरं दोषत्रयध्वंसनं शीतं स्वादु रसायनं च रुचिकृच्चक्षुष्यमायुष्यदम् । प्रज्ञावीर्यबलस्मृतिस्वरकरं कान्तिं विधत्ते तनोः संधत्ते दुरितक्षयं श्रियमिदं धत्ते नृणां धारणात् ॥२४॥ दाहेऽतिरक्तमथ यत्ससितं छिदायां काश्मीरकान्ति च विभाति निकाषपट्टे ।
३. तृतीय अध्याय: शुद्ध धातु वर्ग (स्वर्ण, रजत, ताम्र, लोह, वंग, यशद) भस्म निर्माण
११२ आयुर्वेदीयग्रन्थमाला। [अध्यायः स्निग्धं च गौरवमुपैति च यत्तुलायां ग्राह्यं तदेव कनकं मृदु रक्तपीतम् ॥ २५ ॥ अन्यच्च— सुवर्णं शीतलं वृष्यं बल्यं गुरु रसायनम् । स्वादु तिक्तं च तुवरं पाके च स्वादु पिच्छिलम् ॥ २६ ॥ पवित्रं बृंहणं नेत्र्यं मेधास्मृतिमतिप्रदम् । हृद्यमायुष्करं कान्तिवाग्विशुद्धिस्थिरत्वकृत् ॥ २७ ॥ विषद्वयक्षयोन्मादत्रिदोषज्वरशोकजित् । अपकमेव संशुद्धं, पक्वं तत्त रसायनम् ॥ २८ ॥ अत्र पकापकप्रयोगविवेको रसपद्धत्याम्।— पक्वं हेम रसायनं विदुरथापकं तु सद्योविष- प्रध्वंसि क्षयिबृंहणं कृमिहरं वर्ण्यं ज्वरिभ्यो हितम् । रूप्याद्येषु विमृश्यवादिभिरुपक्षिप्तोऽस्त्यपके गुण- स्ताम्रं चापि विपातिहिन्निगदितं वैद्यैरपरकं ध्रुवम् ॥२९॥ दृश्यते च वाग्भटे— विषमुक्ताय दद्याच शुद्धायोर्ध्वमधस्तथा । सूक्ष्मं ताम्ररजः काले सक्षौद्रं हृद्विशोधनम् ॥ ३० ॥ शुद्धे हृदि ततः शाणं हेमचूर्णस्य दापयेत् । न सज्जते हेमपाङ्गे पद्मपत्रेऽम्बुवद्विषम् ॥ ३१ ॥ अथापकसुवर्णसेवने प्रकारद्वयमुक्तं तन्त्रान्तरे; तद्यथा— अपकं हेम संघृष्टं शिलायां जलयोगतः । द्रवरूपं तु तत्पेयं मधुना गुणदायकम् ॥ ३२ ॥ यद्वाऽपि तबका(वरका)ख्यं तु स्वर्णपत्रं विचूर्णितम् । मधुना संगृहीतं चेत्सद्यो हन्ति विषादिकम् ॥ ३३ ॥ इत्यादि ज्ञेयम् ॥
११. ] । आयुर्वेदप्रकाशः । ११३ अन्यच्च गुणविशेषादिकमाह— सर्वौषधिप्रयोगेण व्याधयो न गता हि ये । कर्मभिः पञ्चभिश्चापि सुवर्णं तेषु योजयेत् ॥ ३४ ॥ शिलाजतुप्रयोगैस्तु ताप्यसूतकयोस्तथा । अन्यै रसायनैश्चापि प्रयोगो हेम्न उत्तमः ॥ ३५ ॥ अथानुपानमाह— मध्वामलकचूर्णं तु सुवर्णं चेति तन्त्रयम् । प्राश्यारिष्टगृहीतोऽपि मुच्यते प्राणसंकटात् ॥ ३६ ॥ मेधाकामस्तु वचया श्रीकामः पद्मकेसरैः । शङ्खपुष्प्या वयोर्थी च विदार्या च प्रजार्थकः ॥ ३७ ॥ अथाशुद्धस्यासम्यङ्मारितस्य गुणाः— बलं च वीर्यं हरते नराणां रोगव्रजं पोषयतीह काये । असौख्यकार्यैव सदा सुवर्णमशुद्धमेतन्मरणं च कुर्यात्॥३८ असम्यङ्मारितं स्वर्णं बलं वीर्यं च नाशयेत् । करोति रोगान्मृत्युं च तद्धन्याद्यत्नतस्ततः ॥ ३९ ॥ अथ स्वर्णादीनां मात्राकथनम् ।— यववृद्ध्या प्रयोक्तव्यं हेम गुञ्जाष्टकं, रविः । तारं तद्विगुणं, लोहमन्यत्तु त्रिगुणाधिकम् ॥ ४० ॥ गुञ्जामेकां समारभ्य यावत्स्युर्नवरक्तिकाः । तावल्लोहं समश्नीयाद्यथादोषबलं नरः ॥ ४१ ॥ अथ स्वर्णादिमारणे कियती परिभाषोच्यते; उक्तं च— रसीभवन्ति लोहानि मृतानि सुरवन्दिते । विनिघ्नन्ति जराव्याधीन् रसयुक्तानि किं पुनः ॥ ४२ ॥ लोहानां मारणं श्रेष्ठं सर्वेषां रसभस्मना । मूलीभिर्मध्यमं प्राहुः कनिष्ठं गन्धकादिभिः ॥ ४३ ॥
११४ आयुर्वेदियग्रन्थमाला । [ अध्यायः अरिलोहेन लोहस्य मारणं दुर्गुणप्रदम् । रसादिद्रव्यपाकानां प्रमाणज्ञापनं पुटम् ॥ ४४ ॥ नेष्टो न्यूनाधिकः पाकः सुपाकं हितमौषधम् । पुटनात् स्याल्लघुत्वं च शीघ्रव्याप्तिश्च¹ दीपनम् । जारितादपि सूतेन्द्राल्लोहानामधिको गुणः ॥ ४५ ॥ अन्यच्च— स्वर्णरूप्यवधे ज्ञेयं पुटं कुक्कुटकादिकम् । ताम्रे काष्ठादिजो वह्निर्लोहे गजपुटानि च ॥ ४६ ॥ अथ स्वर्णादिधातूनां लोहत्वेन व्यवहार इत्याह रसपद्ध- त्तिकारः— रुक्मं रूप्यमयांसि शुल्बमुरगं वङ्गं घनं वर्तकं घोषं लोहमिदं त्रयं च चरमं नाम्नोपलोहं जगुः । अथैषां शोधनमाह— तक्रे काञ्जिकमूत्रयोस्तिलभवे तैले कुलित्थाम्भसि स्याच्छुद्धं परिवर्त्य लोहमखिलं त्रिःसप्तधा वापितम् ॥ अथ व्याख्या—रुक्मं सुवर्णं, रूप्यं रजतं, अयांसि कान्त- तीक्ष्णमुण्डाख्यानि, भेदाभिप्रायेण बहुवचनं, शुल्बं ताम्रं, उरगं सीसं, वङ्गं त्रपु, घनं कांस्यं, वर्तकं पित्तलजातिभेदः, घोषं पञ्चरसं, इदमखिलं लोहं; तत्र रुक्मादिषट्कं मुख्यं लोहं, अन्यत्त्रयं घनादि तूपलोहं जगुः रसज्ञा इत्यर्थः । परिवर्त्य द्रवीकृत्य । त्रिःसप्तधा एकविंशतिवारम् । अखिलं स्वर्णादि घोषान्तम् । मतान्तरम्— सुवर्णरूप्यताम्रायःपत्राण्यग्नौ प्रतापयेत् । कृत्वा कण्टकवेधीनि दृष्ट्वा वह्निसमानि च ॥ ४८ ॥ १ 'शीघ्रं व्याधेश्च नाशनम्' ग. ।
११.] आयुर्वेदप्रकाशः । ११५ निषिञ्चेत्तप्ततप्तानि तैले तक्रे गवां जले । काञ्जिके च कुलित्थानां कपाये सप्तधा पृथक् ॥ ४९ ॥ एवं स्वर्णादिलोहानां विशुद्धिः संप्रजायते । तीक्ष्णादिलोहकिट्टं तु संशोध्यं लोहवद्बुधैः ॥ ५० ॥ अथ नागवङ्गयोर्विशेषमाह— नागवङ्गौ प्रतप्तौ च गालितौ तौ निषेचयेत् । सच्छिद्रश्रावपिहिते हण्डिकास्थे द्रवे शनैः । सप्तधैवं विशुद्धिः स्याद्रविदुग्धे च सप्तधा ॥ ५१ ॥ अन्यमतम्— सर्वलोहानि तप्तानि कदलीमूलवारिणि । सप्तधाऽभिनिषिक्तानि शुद्धिमायान्त्यथोत्तमम् ॥ ५२ ॥ अथ स्वर्णमारणम्— सिद्धलक्ष्मीश्वरोक्तप्रक्रियाकुशलो भिषक् । लोहानां सरसं भस्म सर्वोत्कृष्टं प्रकल्पयेत् ॥ ५३ ॥ शिलागन्धार्कदुग्धाक्ताः स्वर्णाद्याः सप्त धातवः । म्रियन्ते द्वादशपुटैः सत्यं गुरुवचो यथा ॥ ५४ ॥ इति सर्वधातुमारणं सामान्येन ॥ स्वर्णस्य द्विगुणं सूतमम्लेन सह मर्दयेत् । तद्गोलकसमं गन्धं निदध्यादधरोत्तरम् ॥ ५५ ॥ चूर्णीकृतं ततो रुद्ध्वा शरावद्वयसंपुटे । सवस्त्रया कुट्टितया मृदा संवेष्ट्य यत्नतः ॥ ५६ ॥ त्रिंशद्वनोपलैर्दद्यात्पुटान्येवं चतुर्दश । निरुत्थं जायते भस्म गन्धो देयः पुनः पुनः ॥ ५७ ॥ इति द्विगुणरसयुक्तं सर्वोत्कृष्टं हेमभस्म । अथान्यमतम्— शुद्धसूतसमं स्वर्णं खल्वे कृत्वा तु गोलकम् । ऊर्ध्वाधो गन्धकं दत्त्वा सर्वतुल्यं निरुध्य च ॥ ५८ ॥
११६ आयुर्वेदीयग्रन्थमाला । [अध्यायः त्रिंशद्वनोपलैर्देयाः पुटा ह्येवं चतुर्दश । निरुत्थं हेमभस्म स्याद्गन्धो देयः पुनः पुनः ॥ ५९ ॥ अत्रानुक्तमपि ज्ञेयं गोलकीकरणे बुधैः । जम्बीरद्रवदानं तु सर्वत्रैवं विनिश्चयः ॥ ६० ॥ इति सरसं हेमभस्म । अथान्यः प्रकारः— सुवर्णेऽग्नौ द्रुते सूतं दद्यात्सीसं कलांशकम् । अम्लेन मर्दयेत्तत्तु चूर्णयित्वा शनैः शनैः ॥ ६१ ॥ पश्चात्तद्गोलकं कृत्वा तुल्यगन्धरजोगतम् । शरावसंपुटे स्थाप्यं संधिरोधं विधाय च ॥ ६२ ॥ त्रिंशद्वनोपलैः पच्यात्सप्तधैवं पुनः पुनः । अम्लेन गोलकं कृत्वा पचेत्स्वर्णमृतिर्भवेत् ॥ ६३ ॥ अथान्यः प्रकारः— रसस्य भस्मना वाऽथ रसेनालेप्य वै दलम् । हिङ्गुहिङ्गुलसिन्दूरशिलासाम्येन मेलयेत् ॥ ६४ ॥ संमर्द्य काञ्चनद्रावैर्दिनं कृत्वाऽथ गोलकम् । तं भाण्डस्य तले दत्त्वा भस्मना पूरयेद्दृढम् ॥ ६५ ॥ अग्निं प्रज्वालयेद्गाढं द्युर्निशं स्वाङ्गशीतलम् । उद्धृत्य सावशेषं चेत्पुनर्देयं पुटद्वयम् । निरुत्थं जायते भस्म सर्वकर्मसु योजयेत् ॥ ६६ ॥ इति हेमभस्म ॥ अथान्यप्रकारः— काञ्चनाररसैर्घृष्ट्वा समसूतकगन्धयोः । कज्जलीं हेमपत्राणि लेपयेत्समया तया ॥ ६७ ॥ काञ्चनाररजःकल्केर्मूषायुग्मं प्रकल्पयेत् । धृत्वा तत्संपुटे गोलं मृन्मूषासंपुटे ततः ॥ ६८ ॥ CCO, Gurukul Kangri Collection, Haridwar, Digitized by eGangotri
११०] आयुर्वेदप्रकाशः । ११७ निधाय सन्धिरोधं च कृत्वा संशोष्य गोलकम् । वह्निं खरतरं कुर्यादेवं दद्यात्पुटत्रयम् । निरुत्थं जायते भस्म सर्वकर्मसु योजयेत् ॥ ६९ ॥ इति हेमभस्म ॥ काञ्चनारप्रकारेण लाङ्गली हन्ति काञ्चनम् । ज्वालामुखी तथा हन्यात्तथा हन्ति मनःशिला ॥ ७० ॥ लाङ्गली कलिहारी । इति हेमभस्म ॥ शिलासिन्दूरयोश्चूर्णं समयोर्कदुग्धकैः । सप्तधा भावयित्वा तु शोषयेच्च पुनः पुनः ॥ ७१ ॥ ततस्तु गालिते हेम्नि कल्कोऽयं दीयते समः । पुनर्धमेतितरां यथा कल्को विलीयते ॥ ७२ ॥ एवं वेलात्रयं दद्यात्कल्कं हेममृतिर्भवेत् । इति रसवर्जं हेमभस्म । अथ स्वर्णभस्मपरीक्षा— जाम्बवाभं सुवर्णस्य भस्म प्राहुर्भिषग्वराः ॥ ७३ ॥ अथ सुवर्णद्रुतिः ।— चूर्णं सुरेन्द्रगोपानां देवदालीफलद्रवैः । भावितं सदृशं हेम करोति जलवद्द्रुतिम् ॥ ७४ ॥ मण्डूकास्थिवसाटङ्कहयलालेन्द्रगोपकैः । प्रतीवापेन कनकं सुचिरं तिष्ठति द्रुतम् ॥ ७५ ॥ अथ रूप्यस्योत्पत्तिनामलक्षणगुणशोधनमारणानि । त्रिपुरस्य वधार्थाय निर्निमेषैर्विलोचनैः । निरीक्षयामास शिवः क्रोधेन परिपूरितः ॥ ७६ ॥ ततस्तूल्का समभवत्तस्यैकस्माद्विलोचनात् । अपरस्माद्वीरभद्रो गणो वह्निरिव ज्वलन् ॥ ७७ ॥ तृतीयो ह्यश्रुबिन्दुस्तु लोचनादपतद्भुवि ।
११८ आयुर्वेदीयग्रन्थमाला । [ अध्यायः तस्माद्रजतमुत्पन्नं नानाभूमिषु संस्थितम् । कृत्रिमं चापि भवति वङ्गादेः सूतयोगतः ॥ ७८ ॥ अन्ये तु— रूप्यं त्रिधा स्यात्सहजं कृत्रिमं खनिसंभवम् । कैलासादिस्थितं यद्धि सहजं रजतं हि तत् ॥ ७९ ॥ रसेन्द्रवेधसंजातं संप्रोक्तं कृत्रिमं च तत् । हिमाचलादिभूमौ च जायते खनिजं च तत् ॥ ८० ॥ मारणार्थं लोकसिद्धं ग्राह्यं लक्षणलक्षितम् । गुरु स्निग्धं मृदु श्वेतं दाहच्छेदघनक्षमम् ॥ ८१ ॥ वर्णाढ्यं चन्द्रवत्स्वच्छं रूप्यं नवगुणं शुभम् । कृत्रिमं कठिनं रूक्षं रक्तं पीतं दलं लघु ॥ ८२ ॥ गुणाः— रूप्यं शीतं कषायाम्लं स्वादुपाकरसं सरम् । वयसः स्थापनं स्निग्धं लेखनं वातपित्तजित् ॥ ८३ ॥ प्रमेहादिकरोगांश्च नाशयत्यचिराद्ध्रुवम् । गुटिकाऽस्य धृता वक्रे तृष्णाशोषविनाशिनी ॥ ८४ ॥ रसपद्धत्याम्— अपकरजतं नैव संयोज्यं स्वर्णवद्गदे । पक्वं भस्मापि तन्नैव योज्यं ताम्रादिभस्मवत् ॥ ८५ ॥ व्यवहाराभावतः किंच श्वेतकुष्ठहरं हि तत् । इति लोकप्रसिद्धिस्तु तस्माद्योज्यं रसादिषु ॥ ८६ ॥ गुणग्रन्थेऽपि क्वचित्— प्रोक्तकर्मसु संयोज्यं रजतं हि विधानतः । इति ॥ अथाशुद्धरजतमारणे दोषमाह— तारं शरीरस्य करोति तापं विड्बन्धतां यच्छति शुक्रनाशम् । वीर्यं बलं हन्ति तनोश्च पुष्टिं महागदान् पोषयति ह्यशुद्धम् ॥