आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 134, कुल 232 में से
संदर्भ में पढ़ें११.] आयुर्वेदप्रकाशः । ११५ निषिञ्चेत्तप्ततप्तानि तैले तक्रे गवां जले । काञ्जिके च कुलित्थानां कपाये सप्तधा पृथक् ॥ ४९ ॥ एवं स्वर्णादिलोहानां विशुद्धिः संप्रजायते । तीक्ष्णादिलोहकिट्टं तु संशोध्यं लोहवद्बुधैः ॥ ५० ॥ अथ नागवङ्गयोर्विशेषमाह— नागवङ्गौ प्रतप्तौ च गालितौ तौ निषेचयेत् । सच्छिद्रश्रावपिहिते हण्डिकास्थे द्रवे शनैः । सप्तधैवं विशुद्धिः स्याद्रविदुग्धे च सप्तधा ॥ ५१ ॥ अन्यमतम्— सर्वलोहानि तप्तानि कदलीमूलवारिणि । सप्तधाऽभिनिषिक्तानि शुद्धिमायान्त्यथोत्तमम् ॥ ५२ ॥ अथ स्वर्णमारणम्— सिद्धलक्ष्मीश्वरोक्तप्रक्रियाकुशलो भिषक् । लोहानां सरसं भस्म सर्वोत्कृष्टं प्रकल्पयेत् ॥ ५३ ॥ शिलागन्धार्कदुग्धाक्ताः स्वर्णाद्याः सप्त धातवः । म्रियन्ते द्वादशपुटैः सत्यं गुरुवचो यथा ॥ ५४ ॥ इति सर्वधातुमारणं सामान्येन ॥ स्वर्णस्य द्विगुणं सूतमम्लेन सह मर्दयेत् । तद्गोलकसमं गन्धं निदध्यादधरोत्तरम् ॥ ५५ ॥ चूर्णीकृतं ततो रुद्ध्वा शरावद्वयसंपुटे । सवस्त्रया कुट्टितया मृदा संवेष्ट्य यत्नतः ॥ ५६ ॥ त्रिंशद्वनोपलैर्दद्यात्पुटान्येवं चतुर्दश । निरुत्थं जायते भस्म गन्धो देयः पुनः पुनः ॥ ५७ ॥ इति द्विगुणरसयुक्तं सर्वोत्कृष्टं हेमभस्म । अथान्यमतम्— शुद्धसूतसमं स्वर्णं खल्वे कृत्वा तु गोलकम् । ऊर्ध्वाधो गन्धकं दत्त्वा सर्वतुल्यं निरुध्य च ॥ ५८ ॥