आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 135, कुल 232 में से
संदर्भ में पढ़ें११६ आयुर्वेदीयग्रन्थमाला । [अध्यायः त्रिंशद्वनोपलैर्देयाः पुटा ह्येवं चतुर्दश । निरुत्थं हेमभस्म स्याद्गन्धो देयः पुनः पुनः ॥ ५९ ॥ अत्रानुक्तमपि ज्ञेयं गोलकीकरणे बुधैः । जम्बीरद्रवदानं तु सर्वत्रैवं विनिश्चयः ॥ ६० ॥ इति सरसं हेमभस्म । अथान्यः प्रकारः— सुवर्णेऽग्नौ द्रुते सूतं दद्यात्सीसं कलांशकम् । अम्लेन मर्दयेत्तत्तु चूर्णयित्वा शनैः शनैः ॥ ६१ ॥ पश्चात्तद्गोलकं कृत्वा तुल्यगन्धरजोगतम् । शरावसंपुटे स्थाप्यं संधिरोधं विधाय च ॥ ६२ ॥ त्रिंशद्वनोपलैः पच्यात्सप्तधैवं पुनः पुनः । अम्लेन गोलकं कृत्वा पचेत्स्वर्णमृतिर्भवेत् ॥ ६३ ॥ अथान्यः प्रकारः— रसस्य भस्मना वाऽथ रसेनालेप्य वै दलम् । हिङ्गुहिङ्गुलसिन्दूरशिलासाम्येन मेलयेत् ॥ ६४ ॥ संमर्द्य काञ्चनद्रावैर्दिनं कृत्वाऽथ गोलकम् । तं भाण्डस्य तले दत्त्वा भस्मना पूरयेद्दृढम् ॥ ६५ ॥ अग्निं प्रज्वालयेद्गाढं द्युर्निशं स्वाङ्गशीतलम् । उद्धृत्य सावशेषं चेत्पुनर्देयं पुटद्वयम् । निरुत्थं जायते भस्म सर्वकर्मसु योजयेत् ॥ ६६ ॥ इति हेमभस्म ॥ अथान्यप्रकारः— काञ्चनाररसैर्घृष्ट्वा समसूतकगन्धयोः । कज्जलीं हेमपत्राणि लेपयेत्समया तया ॥ ६७ ॥ काञ्चनाररजःकल्केर्मूषायुग्मं प्रकल्पयेत् । धृत्वा तत्संपुटे गोलं मृन्मूषासंपुटे ततः ॥ ६८ ॥ CCO, Gurukul Kangri Collection, Haridwar, Digitized by eGangotri