आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 133, कुल 232 में से
संदर्भ में पढ़ें११४ आयुर्वेदियग्रन्थमाला । [ अध्यायः अरिलोहेन लोहस्य मारणं दुर्गुणप्रदम् । रसादिद्रव्यपाकानां प्रमाणज्ञापनं पुटम् ॥ ४४ ॥ नेष्टो न्यूनाधिकः पाकः सुपाकं हितमौषधम् । पुटनात् स्याल्लघुत्वं च शीघ्रव्याप्तिश्च¹ दीपनम् । जारितादपि सूतेन्द्राल्लोहानामधिको गुणः ॥ ४५ ॥ अन्यच्च— स्वर्णरूप्यवधे ज्ञेयं पुटं कुक्कुटकादिकम् । ताम्रे काष्ठादिजो वह्निर्लोहे गजपुटानि च ॥ ४६ ॥ अथ स्वर्णादिधातूनां लोहत्वेन व्यवहार इत्याह रसपद्ध- त्तिकारः— रुक्मं रूप्यमयांसि शुल्बमुरगं वङ्गं घनं वर्तकं घोषं लोहमिदं त्रयं च चरमं नाम्नोपलोहं जगुः । अथैषां शोधनमाह— तक्रे काञ्जिकमूत्रयोस्तिलभवे तैले कुलित्थाम्भसि स्याच्छुद्धं परिवर्त्य लोहमखिलं त्रिःसप्तधा वापितम् ॥ अथ व्याख्या—रुक्मं सुवर्णं, रूप्यं रजतं, अयांसि कान्त- तीक्ष्णमुण्डाख्यानि, भेदाभिप्रायेण बहुवचनं, शुल्बं ताम्रं, उरगं सीसं, वङ्गं त्रपु, घनं कांस्यं, वर्तकं पित्तलजातिभेदः, घोषं पञ्चरसं, इदमखिलं लोहं; तत्र रुक्मादिषट्कं मुख्यं लोहं, अन्यत्त्रयं घनादि तूपलोहं जगुः रसज्ञा इत्यर्थः । परिवर्त्य द्रवीकृत्य । त्रिःसप्तधा एकविंशतिवारम् । अखिलं स्वर्णादि घोषान्तम् । मतान्तरम्— सुवर्णरूप्यताम्रायःपत्राण्यग्नौ प्रतापयेत् । कृत्वा कण्टकवेधीनि दृष्ट्वा वह्निसमानि च ॥ ४८ ॥ १ 'शीघ्रं व्याधेश्च नाशनम्' ग. ।