आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 132, कुल 232 में से
संदर्भ में पढ़ें११. ] । आयुर्वेदप्रकाशः । ११३ अन्यच्च गुणविशेषादिकमाह— सर्वौषधिप्रयोगेण व्याधयो न गता हि ये । कर्मभिः पञ्चभिश्चापि सुवर्णं तेषु योजयेत् ॥ ३४ ॥ शिलाजतुप्रयोगैस्तु ताप्यसूतकयोस्तथा । अन्यै रसायनैश्चापि प्रयोगो हेम्न उत्तमः ॥ ३५ ॥ अथानुपानमाह— मध्वामलकचूर्णं तु सुवर्णं चेति तन्त्रयम् । प्राश्यारिष्टगृहीतोऽपि मुच्यते प्राणसंकटात् ॥ ३६ ॥ मेधाकामस्तु वचया श्रीकामः पद्मकेसरैः । शङ्खपुष्प्या वयोर्थी च विदार्या च प्रजार्थकः ॥ ३७ ॥ अथाशुद्धस्यासम्यङ्मारितस्य गुणाः— बलं च वीर्यं हरते नराणां रोगव्रजं पोषयतीह काये । असौख्यकार्यैव सदा सुवर्णमशुद्धमेतन्मरणं च कुर्यात्॥३८ असम्यङ्मारितं स्वर्णं बलं वीर्यं च नाशयेत् । करोति रोगान्मृत्युं च तद्धन्याद्यत्नतस्ततः ॥ ३९ ॥ अथ स्वर्णादीनां मात्राकथनम् ।— यववृद्ध्या प्रयोक्तव्यं हेम गुञ्जाष्टकं, रविः । तारं तद्विगुणं, लोहमन्यत्तु त्रिगुणाधिकम् ॥ ४० ॥ गुञ्जामेकां समारभ्य यावत्स्युर्नवरक्तिकाः । तावल्लोहं समश्नीयाद्यथादोषबलं नरः ॥ ४१ ॥ अथ स्वर्णादिमारणे कियती परिभाषोच्यते; उक्तं च— रसीभवन्ति लोहानि मृतानि सुरवन्दिते । विनिघ्नन्ति जराव्याधीन् रसयुक्तानि किं पुनः ॥ ४२ ॥ लोहानां मारणं श्रेष्ठं सर्वेषां रसभस्मना । मूलीभिर्मध्यमं प्राहुः कनिष्ठं गन्धकादिभिः ॥ ४३ ॥